धर्मDharmic Data

मण्डल 5

सूक्त 20

  1. यम॑ग्ने वाजसातम॒ त्वं चि॒न् मन्य॑से र॒यिम् । तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥ १ ॥

  2. ये अ॑ग्ने॒ नेरय॑न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः । अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ॥ २ ॥

  3. होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम् । य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ॥ ३ ॥

  4. इ॒त्था यथा॑ त ऊ॒तये॒ सह॑सावन्दि॒वेदि॑वे । रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभि॑: ष्याम सध॒मादो॑ वी॒रैः स्या॑म सध॒माद॑: ॥ ४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 21

Previous: सूक्त 19