धर्मDharmic Data

मण्डल 5

सूक्त 21

  1. म॒नु॒ष्वत् त्वा॒ नि धी॑महि मनु॒ष्वत् समि॑धीमहि । अग्ने॑ मनु॒ष्वद॑ङ्गिरो दे॒वान् दे॑वय॒ते य॑ज ॥ १ ॥

  2. त्वं हि मानु॑षे॒ जनेऽग्ने॒ सुप्री॑त इ॒ध्यसे॑ । स्रुच॑स्त्वा यन्त्यानु॒षक् सुजा॑त॒ सर्पि॑रासुते ॥ २ ॥

  3. त्वां विश्वे॑ स॒जोष॑सो दे॒वासो॑ दू॒तम॑क्रत । स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी॑ळते ॥ ३ ॥

  4. दे॒वं वो॑ देवय॒ज्यया॒ ऽग्निमी॑ळीत॒ मर्त्य॑: । समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ॥ ४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 22

Previous: सूक्त 20