धर्मDharmic Data

मण्डल 5

सूक्त 19

  1. अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत । उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥ १ ॥

  2. जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा॑न्ति । आ दृ॒ळहां पुरं॑ विविशुः ॥ २ ॥

  3. आ श्वै॑त्रे॒यस्य॑ ज॒न्तवो॑ द्यु॒मद् व॑र्धन्त कृ॒ष्टय॑: । नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥ ३ ॥

  4. प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ । घ॒र्मो न वाज॑जठ॒रोऽद॑ब्ध॒: शश्व॑तो॒ दभ॑: ॥ ४ ॥

  5. क्रीळ॑न् नो रश्म॒ आ भु॑व॒: सं भस्म॑ना वा॒युना॒ वेवि॑दानः । ता अ॑स्य सन् धृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥ ५ ॥

Reach this point to mark the section finished.

Continue to सूक्त 20

Previous: सूक्त 18