धर्मDharmic Data

मण्डल 5

सूक्त 18

  1. प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः । विश्वा॑नि॒ यो अम॑र्त्यो ह॒व्या मर्ते॑षु॒ रण्य॑ति ॥ १ ॥

  2. द्वि॒ताय॑ मृ॒क्तवा॑हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना॑ । इन्दुं॒ स ध॑त्त आनु॒षक् स्तो॒ता चि॑त्ते अमर्त्य ॥ २ ॥

  3. तं वो॑ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना॑म् । अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ॥ ३ ॥

  4. चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये । स्ती॒र्णं ब॒र्हिः स्व॑र्णरे॒ श्रवां॑सि दधिरे॒ परि॑ ॥ ४ ॥

  5. ये मे॑ पञ्चा॒शतं॑ द॒दुरश्वा॑नां स॒धस्तु॑ति । द्यु॒मद॑ग्ने॒ महि॒ श्रवो॑ बृ॒हत् कृ॑धि म॒घोनां॑ नृ॒वद॑मृत नृ॒णाम् ॥ ५ ॥

Reach this point to mark the section finished.

Continue to सूक्त 19

Previous: सूक्त 17