धर्मDharmic Data

सुंदरकाण्ड

सर्ग 23

  1. तथा तासां वदन्तीनां परुषं दारुणं बहु । राक्षसीनामसौम्यानां रुरोद जनकात्मजा ॥ 1 ॥

  2. एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी । उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥ 2 ॥

  3. न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ 3 ॥

  4. सा राक्षसी मध्यगता सीता सुरसुतोपमा । न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥ 4 ॥

  5. वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः । वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ॥ ५ ॥ 5 ॥

  6. सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् । चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥ 6 ॥

  7. सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः । चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ॥ 7 ॥

  8. सा वेपमाना पतिता प्रवाते कदली यथा । राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् ॥ 8 ॥

  9. तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा । ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ॥ 9 ॥

  10. सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना । आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ॥ 10 ॥

  11. हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च । हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि ॥ 11 ॥

  12. लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः । अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ 12 ॥

  13. यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता । जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ 13 ॥

  14. एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् । समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता ॥ 14 ॥

  15. भर्तारं तमपश्यन्ती राक्षसीवशमागता । सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ 15 ॥

  16. तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् । धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ 16 ॥

  17. सर्वथा तेन हीनाया रामेण विदितात्मना । तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ॥ 17 ॥

  18. कीदृशं तु मया पापं पुरा देहान्तरे कृतम् । येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥ 18 ॥

  19. जीवितं त्यक्तुमिच्छामि शोकेन महता वृता । राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ॥ 19 ॥

  20. धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् । न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ॥ 20 ॥

Reach this point to mark the section finished.

Continue to सर्ग 24

Previous: सर्ग 22