ततः सीतामुपागम्य राक्षस्यो विकृताननाः । परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् ॥ 1 ॥
किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे । महार्हशयनोपेते न वासमनुमन्यसे ॥ 2 ॥
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे । प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ॥ 3 ॥
मानुषी मानुषं तं तु राममिच्छसि शोभने । राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते ॥ 4 ॥
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ 5 ॥
यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः । नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति ॥ 6 ॥
न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः । दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ॥ 7 ॥
सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः । भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥ 8 ॥
अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे । सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ॥ 9 ॥
तामभिक्रम्य संरब्धा वेपमानां समन्ततः । भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान् ॥ 10 ॥
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् । नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ॥ 11 ॥
सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना । सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् ॥ 12 ॥
ततस्तां शिंशपां सीता राक्षसीभिः समावृता । अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥ 13 ॥
तां कृशां दीनवदनां मलिनाम्बरधारिणीम् । भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः ॥ 14 ॥
ततस्तां विनता नाम राक्षसी भीमदर्शना । अब्रवीत्कुपिताकारा कराला निर्णतोदरी ॥ 15 ॥
सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः । सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ॥ 16 ॥
परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः । ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ॥ 17 ॥
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् । विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ॥ 18 ॥
दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् । मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ॥ 19 ॥
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता । अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव । अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ॥ 20 ॥
किं ते रामेण वैदेहि कृपणेन गतायुषा ॥ 21 ॥
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि । अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥ 22 ॥
अन्या तु विकटा नाम लम्बमानपयोधरा । अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती ॥ 23 ॥
बहून्यप्रतिरूपाणि वचनानि सुदुर्मते । अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि । न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् ॥ 24 ॥
आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् । रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ॥ 25 ॥
रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता । न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दरः ॥ 26 ॥
कुरुष्व हितवादिन्या वचनं मम मैथिलि । अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ॥ 27 ॥
भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् । सीते राक्षसराजेन सह क्रीड यथासुखम् ॥ 28 ॥
जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् । यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि ॥ 29 ॥
उद्यानानि च रम्याणि पर्वतोपवनानि च । सह राक्षसराजेन चर त्वं मदिरेक्षणे ॥ 30 ॥
स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि । रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ॥ 31 ॥
उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि । यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ॥ 32 ॥
ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना । भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ॥ 33 ॥
इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् । रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ॥ 34 ॥
यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् । अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ॥ 35 ॥
ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् । कण्ठमस्या नृशंसायाः पीडयामः किमास्यते ॥ 36 ॥
निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह । नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ॥ 37 ॥
ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् । विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान् ॥ 38 ॥
विभजाम ततः सर्वा विवादो मे न रोचते । पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु ॥ 39 ॥
ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् । अजामुखा यदुक्तं हि तदेव मम रोचते ॥ 40 ॥
सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी । मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम् ॥ 41 ॥
एवं सम्भर्त्स्यमाना सा सीता सुरसुतोपमा । राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति ॥ 42 ॥
सुंदरकाण्ड
सर्ग 22
Reach this point to mark the section finished.
Continue to सर्ग 23