धर्मDharmic Data

सुंदरकाण्ड

सर्ग 24

  1. प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ॥ 1 ॥

  2. उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती । उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥ 2 ॥

  3. राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा । रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥ 3 ॥

  4. राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम् । चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ॥ 4 ॥

  5. न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः । वसन्त्या राक्षसी मध्ये विना रामं महारथम् ॥ 5 ॥

  6. धिङ्मामनार्यामसतीं याहं तेन विना कृता । मुहूर्तमपि रक्षामि जीवितं पापजीविता ॥ 6 ॥

  7. का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना । भर्तारं सागरान्ताया वसुधायाः प्रियं वदम् ॥ 7 ॥

  8. भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् । न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ॥ 8 ॥

  9. चरणेनापि सव्येन न स्पृशेयं निशाचरम् । रावणं किं पुनरहं कामयेयं विगर्हितम् ॥ 9 ॥

  10. प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् । यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति ॥ 10 ॥

  11. छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता । रावणं नोपतिष्ठेयं किं प्रलापेन वश् चिरम् ॥ 11 ॥

  12. ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः । सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ॥ 12 ॥

  13. राक्षसानां जनस्थाने सहस्राणि चतुर्दश । येनैकेन निरस्तानि स मां किं नाभिपद्यते ॥ 13 ॥

  14. निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा । समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥ 14 ॥

  15. विराधो दण्डकारण्ये येन राक्षसपुङ्गवः । रणे रामेण निहतः स मां किं नाभिपद्यते ॥ 15 ॥

  16. कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा । न तु राघवबाणानां गतिरोधी ह विद्यते ॥ 16 ॥

  17. किं नु तत्कारणं येन रामो दृढपराक्रमः । रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ॥ 17 ॥

  18. इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः । जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति ॥ 18 ॥

  19. हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् । गृध्रराजोऽपि स रणे रावणेन निपातितः ॥ 19 ॥

  20. कृतं कर्म महत्तेन मां तदाभ्यवपद्यता । तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥ 20 ॥

  21. यदि मामिह जानीयाद्वर्तमानां स राघवः । अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं ॥ 21 ॥

  22. विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् । रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥ 22 ॥

  23. ततो निहतनथानां राक्षसीनां गृहे गृहे । यथाहमेवं रुदती तथा भूयो न संशयः । अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः ॥ 23 ॥

  24. न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति । चिता धूमाकुलपथा गृध्रमण्डलसङ्कुला । अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ॥ 24 ॥

  25. अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् । दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः ॥ 25 ॥

  26. यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु । अचिरेणैव कालेन भविष्यति हतप्रभा ॥ 26 ॥

  27. नूनं लङ्का हते पापे रावणे राक्षसाधिपे । शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥ 27 ॥

  28. पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा । भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना ॥ 28 ॥

  29. नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे । श्रोष्यामि नचिरादेव दुःखार्तानाम् इह ध्वनिम् ॥ 29 ॥

  30. सान्धकारा हतद्योता हतराक्षसपुङ्गवा । भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ॥ 30 ॥

  31. यदि नाम स शूरो मां रामो रक्तान्तलोचनः । जानीयाद्वर्तमानां हि रावणस्य निवेशने ॥ 31 ॥

  32. अनेन तु नृशंसेन रावणेनाधमेन मे । समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ॥ 32 ॥

  33. अकार्यं ये न जानन्ति नैरृताः पापकारिणः । अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ॥ 33 ॥

  34. नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः । ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ॥ 34 ॥

  35. साहं कथं करिष्यामि तं विना प्रियदर्शनम् । रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ॥ 35 ॥

  36. यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह । क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥ 36 ॥

  37. नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः । जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ॥ 37 ॥

  38. नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः । देवलोकमितो यातस्त्यक्त्वा देहं महीतले ॥ 38 ॥

  39. धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥ 39 ॥

  40. अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः । मया रामस्य राजर्षेर्भार्यया परमात्मनः ॥ 40 ॥

  41. दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतः । नाशयन्ति कृतघ्रास्तु न रामो नाशयिष्यति ॥ 41 ॥

  42. किं नु मे न गुणाः के चित्किं वा भाग्य क्षयो हि मे । याहं सीता वरार्हेण हीना रामेण भामिनी ॥ 42 ॥

  43. श्रेयो मे जीवितान्मर्तुं विहीना या महात्मना । रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ॥ 43 ॥

  44. अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ । भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ ॥ 44 ॥

  45. अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना । छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ॥ 45 ॥

  46. साहमेवङ्गते काले मर्तुमिच्छामि सर्वथा । न च मे विहितो मृत्युरस्मिन्दुःखेऽपि वर्तति ॥ 46 ॥

  47. धन्याः खलु महात्मानो मुनयः सत्यसंमताः । जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ॥ 47 ॥

  48. प्रियान्न सम्भवेद्दुःखमप्रियादधिकं भयम् । ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ 48 ॥

  49. साहं त्यक्ता प्रियेणेह रामेण विदितात्मना । प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥ 49 ॥

Reach this point to mark the section finished.

Continue to सर्ग 25

Previous: सर्ग 23