धर्मDharmic Data

सुंदरकाण्ड

सर्ग 21

  1. इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥ 1 ॥

  2. निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते । राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ 2 ॥

  3. ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः । परं परुषया वाचा वैदेहीम् इदमब्रुवन् ॥ 3 ॥

  4. पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः । दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥ 4 ॥

  5. ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् । आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ॥ 5 ॥

  6. प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः । मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ 6 ॥

  7. पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः । नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ 7 ॥

  8. तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः । तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि । मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे ॥ 8 ॥

  9. ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् । विवृत्य नयने कोपान्मार्जारसदृशेक्षणा ॥ 9 ॥

  10. येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः । तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ 10 ॥

  11. वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः । बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे ॥ 11 ॥

  12. प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः । सर्वासां च महाभागां त्वामुपैष्यति रावणः ॥ 12 ॥

  13. समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् । अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ॥ 13 ॥

  14. असकृद्देवता युद्धे नागगन्धर्वदानवाः । निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ 14 ॥

  15. तस्य सर्वसमृद्धस्या रावणस्य महात्मनः । किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ॥ 15 ॥

  16. यस्य सूर्यो न तपति भीतो यस्य च मारुतः । न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥ 16 ॥

  17. पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् । शैलाश्च सुभ्रु पानीयं जलदाश् च यदेच्छति ॥ 17 ॥

  18. तस्य नैरृतराजस्य राजराजस्य भामिनि । किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥ 18 ॥

  19. साधु ते तत्त्वतो देवि कथितं साधु भामिनि । गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ 19 ॥

Reach this point to mark the section finished.

Continue to सर्ग 22

Previous: सर्ग 20