धर्मDharmic Data

सुंदरकाण्ड

सर्ग 20

  1. सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः । प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥ 1 ॥

  2. यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा । यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥ 2 ॥

  3. संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः । द्रवतो मार्गमासाद्य हयानिव सुसारथिः ॥ 3 ॥

  4. वामः कामो मनुष्याणां यस्मिन्किल निबध्यते । जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ 4 ॥

  5. एतस्मात्कारणान्न तां घतयामि वरानने । वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ॥ 5 ॥

  6. परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् । तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ॥ 6 ॥

  7. एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः । क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥ 7 ॥

  8. द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः । ततः शयनमारोह मम त्वं वरवर्णिनि ॥ 8 ॥

  9. द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् । मम त्वां प्रातराशार्थमारभन्ते महानसे ॥ 9 ॥

  10. तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् । देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः ॥ 10 ॥

  11. ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः । सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥ 11 ॥

  12. ताभिराश्वासिता सीता रावणं राक्षसाधिपम् । उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ॥ 12 ॥

  13. नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः । निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ॥ 13 ॥

  14. मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः । त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ॥ 14 ॥

  15. राक्षसाधम रामस्य भार्याममिततेजसः । उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ॥ 15 ॥

  16. यथा दृप्तश्च मातङ्गः शशश् च सहितौ वने । तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ॥ 16 ॥

  17. स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे । चक्षुषो विषयं तस्य न तावदुपगच्छसि ॥ 17 ॥

  18. इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले । क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः ॥ 18 ॥

  19. तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च । कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते ॥ 19 ॥

  20. असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ॥ 20 ॥

  21. नापहर्तुमहं शक्या तस्य रामस्य धीमतः । विधिस्तव वधार्थाय विहितो नात्र संशयः ॥ 21 ॥

  22. शूरेण धनदभ्राता बलैः समुदितेन च । अपोह्य रामं कस्माद्धि दारचाउर्य.म् त्वया क्र्तम् ॥ 22 ॥

  23. सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः । विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ 23 ॥

  24. नीलजीमूतसङ्काशो महाभुजशिरोधरः । सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः ॥ 24 ॥

  25. चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः । रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ॥ 25 ॥

  26. श्रोणीसूत्रेण महता मेककेन सुसंवृतः । अमृतोत्पादनद्धेन भुजङ्गेनेव मन्दरः ॥ 26 ॥

  27. तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः । रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ 27 ॥

  28. अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः । उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ॥ 28 ॥

  29. अनयेनाभिसम्पन्नमर्थहीनमनुव्रते । नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ॥ 29 ॥

  30. इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ॥ 30 ॥

  31. एकाक्षीमेककर्णां च कर्णप्रावरणां तथा । गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ॥ 31 ॥

  32. हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् । एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥ 32 ॥

  33. अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् । अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् । अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ॥ 33 ॥

  34. यथा मद्वशगा सीता क्षिप्रं भवति जानकी । तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ॥ 34 ॥

  35. प्रतिलोमानुलोमैश्च सामदानादिभेदनैः । आवर्तयत वैदेहीं दण्डस्योद्यमनेन च ॥ 35 ॥

  36. इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः । काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ॥ 36 ॥

  37. उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी । परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ॥ 37 ॥

  38. मया क्रीड महाराजसीतया किं तवानया । अकामां कामयानस्य शरीरमुपतप्यते । इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥ 38 ॥

  39. एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली । ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ॥ 39 ॥

  40. देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः । परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥ 40 ॥

  41. स मैथिलीं धर्मपरामवस्थितांप्रवेपमानां परिभर्त्स्य रावणः ॥ 41 ॥

  42. विहाय सीतां मदनेन मोहितःस्वमेव वेश्म प्रविवेश भास्वरम् ॥ 42 ॥

Reach this point to mark the section finished.

Continue to सर्ग 21

Previous: सर्ग 19