तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः । आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ॥ 1 ॥
दुःखार्ता रुदती सीता वेपमाना तपस्विनी । चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ॥ 2 ॥
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता । निवर्तय मनो मत्तः स्वजने क्रियतां मनः ॥ 3 ॥
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् । अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् । कुलं सम्प्राप्तया पुण्यं कुले महति जातया ॥ 4 ॥
एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी । राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ॥ 5 ॥
नाहमौपयिकी भार्या परभार्या सती तव । साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ॥ 6 ॥
यथा तव तथान्येषां रक्ष्या दारा निशाचर । आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ॥ 7 ॥
अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् । नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् ॥ 8 ॥
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे । वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः ॥ 9 ॥
अकृतात्मानमासाद्य राजानमनये रतम् । समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ 10 ॥
तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कुला । अपराधात्तवैकस्य नचिराद्विनशिष्यति ॥ 11 ॥
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः । अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ॥ 12 ॥
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः । दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥ 13 ॥
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा । अनन्या राघवेणाहं भास्करेण प्रभा यथा ॥ 14 ॥
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् । कथं नामोपधास्यामि भुजमन्यस्य कस्य चित् ॥ 15 ॥
अहमौपयिकी भार्या तस्यैव वसुधापतेः । व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः ॥ 16 ॥
साधु रावण रामेण मां समानय दुःखिताम् । वने वाशितया सार्धं करेण्वेव गजाधिपम् ॥ 17 ॥
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता । वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ॥ 18 ॥
वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश् चिरम् । त्वद्विधं न तु सङ्क्रुद्धो लोकनाथः स राघवः ॥ 19 ॥
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् । शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥ 20 ॥
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः । इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ॥ 21 ॥
रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः । असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः ॥ 22 ॥
राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् । उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥ 23 ॥
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः । असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥ 24 ॥
जनस्थाने हतस्थाने निहते रक्षसां बले । अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ॥ 25 ॥
आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः । गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ॥ 26 ॥
न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया । शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ॥ 27 ॥
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् । वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ॥ 28 ॥
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह । तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥ 29 ॥
सुंदरकाण्ड
सर्ग 19
Reach this point to mark the section finished.
Continue to सर्ग 20