धर्मDharmic Data

किष्किंधाकाण्ड

सर्ग 52

  1. अथ तान् अब्रवीत् सर्वान् विश्रांतान् हरि यूथपान् । इदम् वचनम् एकाग्रा तापसी धर्म चारिणी ॥ 1 ॥

    After the monkey leaders had taken rest, the noble ascetic with undiverted attention said these words:

    Word by word

    अथ thereafter, धर्मचारिणी righteous woman, एकाग्रा with concentration, तापसी ascetic woman, विश्रान्तान् had rested, तान् those, सर्वान् all, हरियूथपान् monkey leaders, इदं वचनम् these words, अब्रवीत् said.

  2. वानरा यदि वः खेदः प्रनष्टः फल भक्षणात् । यदि च एतत् मया श्राव्यम् श्रोतुम् इच्छामि कथताम् ॥ 2 ॥

    'O monkeys if you have been relieved of your fatigue after eating fruits, now tell me about yourself, if you think it can be told. I want to hear.

    Word by word

    वानराः O monkey, फलभक्षणात् by eating fruits, वः your, खेदः sorrow, प्रनष्टः यदि is relieved, एतत् thus, मया by me, श्राव्यं च यदि if it can be heard, कथ्यताम् it may be narrated, श्रोतुम् to hear, इच्छामि I wish.

  3. तस्याः तत् वचनम् श्रुत्वा हनुमान् मारुत आत्मजः । आर्जवेन यथा तत्त्वम् आख्यातुम् उपचक्रमे ॥ 3 ॥

    When Hanuman, son of the Windgod, heard her, he started narrating frankly and truthfully.

    Word by word

    मारुतात्मजः son of the Windgod, हनूमान् Hanuman, तस्याः her, तत् वचनम् those words, श्रुत्वा after hearing, आर्जवेन frankly, यथातत्त्वम् faithfully, आख्यातुम् to narrate, उपचक्रमे started.

  4. राजा सर्वस्य लोकस्य महेन्द्र वरुण उपमः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥ 4 ॥

    'Rama, son of Dasaratha, a prosperous king of all the worlds, comparable to Indra and Varuna came to the Dandaka forest along with his brother Laksmana and wife Vaidehi. Ravana abducted his wife from Janasthana.

    Word by word

    सर्वस्य for the entire, लोकस्य world's, राजा king, महेन्द्रवरुणोपमः comparable to Indra and Varuna, दाशरथिः Dasaratha's son, श्रीमान् prosperous, रामः Rama, भ्रात्रा with his brother, लक्ष्मणेन सह along with Lakshmana, भार्यया with his wife, वैदेह्या सह with Vaidehi, दण्डकावनम् Dandaka forest, प्रविष्टः entered, तस्य his, भार्या wife, रावणेन by Ravana, जनस्थानात् from Janasthana, बलात् forcibly, हृता she was abducted.

  5. लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया । तस्य भार्या जनस्थानात् रावणेन हृता बलात् ॥ 5 ॥

    'Rama, son of Dasaratha, a prosperous king of all the worlds, comparable to Indra and Varuna came to the Dandaka forest along with his brother Laksmana and wife Vaidehi. Ravana abducted his wife from Janasthana.

    Word by word

    सर्वस्य for the entire, लोकस्य world's, राजा king, महेन्द्रवरुणोपमः comparable to Indra and Varuna, दाशरथिः Dasaratha's son, श्रीमान् prosperous, रामः Rama, भ्रात्रा with his brother, लक्ष्मणेन सह along with Lakshmana, भार्यया with his wife, वैदेह्या सह with Vaidehi, दण्डकावनम् Dandaka forest, प्रविष्टः entered, तस्य his, भार्या wife, रावणेन by Ravana, जनस्थानात् from Janasthana, बलात् forcibly, हृता she was abducted.

  6. वीरः तस्य सखा राज्ञः सुग्रीवो नाम वानरः । राजा वानर मुख्यानाम् येन प्रस्थापिता वयम् ॥ 6 ॥

    There is a heroic monkey named Sugriva, lord of the monkey chiefs and friend of that king, by whom we have been sent.

    Word by word

    वीरः hero, वानरमुख्यानाम् lord of monkeys, राजा king, सुग्रीवो नाम called Sugriva, वानरः monkey, तस्य his, राज्ञः the king's, सखा friend, येन by whom, वयम् we, प्रस्थापिताः are sent.

  7. अगस्त्य चरिताम् आशाम् दक्षिणाम् यम रक्षिताम् । सहैभिर्वानरैमुख्यैरङ्गदप्रमुखैर्वयम् - यद्वा -सह एभिः वानरैः मुख्यैः अंगद प्रमुखैः वयम् ॥ 7 ॥

    'We along with the dreadful monkeys are sent with Angada as our chief to the southern direction, guarded by Yama and inhabited by sage Agasti. We are commanded to search Sita, princess of Videha and also the abode of the demon Ravana who assumes any form at his free will.

    Word by word

    सर्वे all, सहिताः together, वैदेह्या Videha, सीतया सह with Sita, कामरूपिणम् he who changes his form at his will, राक्षसम् demon, रावणम् Ravana, मार्गध्वम् direction, इति thus, वयम् we, अङ्गदप्रमुखैः with Angada as chief, एभिः these also, मुख्यैः with leaders, वानरैः सह along with the monkeys, अगस्त्यचरिताम् where sage Agasthya lived, यमरक्षिताम् protected by Yama, दक्षिणाम् southern direction, आशाम् intent on, चोदिताः to search.

  8. रावणम् सहिताः सर्वे राक्षसम् काम रूपिणम् । सीतया सह वैदेह्या मार्गध्वम् इति चोदिताः ॥ 8 ॥

    'We along with the dreadful monkeys are sent with Angada as our chief to the southern direction, guarded by Yama and inhabited by sage Agasti. We are commanded to search Sita, princess of Videha and also the abode of the demon Ravana who assumes any form at his free will.

    Word by word

    सर्वे all, सहिताः together, वैदेह्या Videha, सीतया सह with Sita, कामरूपिणम् he who changes his form at his will, राक्षसम् demon, रावणम् Ravana, मार्गध्वम् direction, इति thus, वयम् we, अङ्गदप्रमुखैः with Angada as chief, एभिः these also, मुख्यैः with leaders, वानरैः सह along with the monkeys, अगस्त्यचरिताम् where sage Agasthya lived, यमरक्षिताम् protected by Yama, दक्षिणाम् southern direction, आशाम् intent on, चोदिताः to search.

  9. विचित्य तु वयम् सर्वे समग्रम् - समुद्रम् - दक्षिणाम् दिशम् । वयम् बुभुक्षिताः सर्वे वृक्ष मूलम् उपाश्रिताः ॥ 9 ॥

    Having searched the whole southern region, all of us, exhausted and hungry, took shelter at the foot of a tree.

    Word by word

    वयम् we, सर्वे all, सर्वम् all over, समग्रां entirely, वयं we, परिश्रान्ता exhausted, दक्षिणां दिशम् on the southern direction, विचित्य after searching, बुभुक्षिताः feeling hungry, वृक्षमूलम् under a tree, उपाश्रिताः sheltered.

  10. विवर्ण वदनाः सर्वे सर्वे ध्यान परायणाः । न अधिगच्छामहे पारम् मग्नाः चिन्ता महाअर्णवे ॥ 10 ॥

    'We were all exhausted, lost in thought and worried, unable to cross this deep ocean of sorrow. We did not know how to proceed.

    Word by word

    सर्वे all of us, विवर्णवदनाः palefaced, सर्वे all, ध्यानपरायणाः lost in thought, चिन्तामहार्णवे in the deep ocean of worry, मग्नाः immersed, पारम् the shore, नाधिगच्छामहे we were unable to find.

  11. चारयन्तः ततः चक्षुः दृष्टवन्तो महद् बिलम् । लता पादप संछन्नम् तिमिरेण समावृतम् ॥ 11 ॥

    'Then while we were looking around we saw this cave concealed by trees and vines, with darkness spread all over.

    Word by word

    ततः then, चक्षुः eyes, चारयन्तः while we were looking around, लतापादपसञ्च्छन्नम् concealed by vines and trees, तिमिरेण with darkness, समावृतम् spread all over, वयम् we, बिलम् cave, दृष्टवन्तः we saw.

  12. अस्मात् हंसा जल क्लिन्नाः पक्षैः सलिल रेणुभिः । कुरराः सारसाः चैव निष्पतन्ति पतत्रिणः ॥ 12 ॥

    'Drenched in water the swans, kuraras, and sarasas were seen emerging with water dripping from thier wings.

    Word by word

    अस्मात् this, सलिलविस्रवैः by those with water dripping, पक्षैः with wings, जलक्लिन्नाः drenched in water, हंसाः swans, कुरराः kuraras, सारसाश्चैव sarasas also, पतत्रिणः birds, निष्पतन्ति flying out.

  13. साधु अत्र प्रविशाम इति मया तु उक्ताः प्लवंगमाः । तेषाम् अपि हि सर्वेषाम् अनुमानम् उपागतम् ॥ 13 ॥

    'I suggested to the fellowmonkeys to enter this cave, inferring that there would be water and all of them came to the same conclusion.

    Word by word

    अत्र here, साधु it is proper, प्रविशाम let us enter, इति thus, मया by me, प्लवङ्गमाः monkeys, उक्ताः have been told, तेषाम् for them, सर्वेषामपि for all of them, अनुमानम् inferring, उपागतम् came in.

  14. अस्मिन् निपतिताः सर्वे अपि अथ कार्य त्वरान्विताः । ततो गाढम् निपतिता गृह्य हस्तौ परस्परम् ॥ 14 ॥

    'We said, 'let us enter', since we were in a hurry to carry out our king's orders.Then we jumped in, holding one another's hand.

    Word by word

    भर्तृकार्यत्वरान्विताः in haste to carry out the orders of our king, प्रविशामः let us enter, गच्छाम let us go, निपतिताः we jumped in, ततः then, परस्परम् each one holding the other, हस्तौ by hands, गाढम् firmly, गृह्य holding.

  15. इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् । एतत् नः कार्यम् एतेन कृत्येन वयम् आगताः ॥ 15 ॥

    'Vexed and starved, we entered this grotto shrouded in darkness.This is our task and we reached here (in the process).

    Word by word

    तिमिरसंवृतम् shrouded in darkness, इदं बिलम् this grotto, सहसा at once, प्रविष्टाः we entered, एतत् this, नः our, कार्यम् task, एतेन by this, कृत्येन by the task, वयम् we, आगताः we came, बुभुक्षिताः hungry ones, परिद्यूनाः vexed, सर्वे all of us, त्वाम् your, उपगताश्चैव we reached.

  16. त्वाम् च एव उपगताः सर्वे परिद्यूना बुभुक्षिताः । आतिथ्य धर्म दत्तानि मूलानि च फलानि च ॥ 16 ॥

  17. अस्माभिः उपभुक्तानि बुभुक्षा परिपीडितैः । यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥ 17 ॥

  18. ब्रूहि प्रत्युपकार अर्थम् किम् ते कुर्वन्तु वानराः । एवम् उक्ता तु सर्वज्ञा वानरैः तैः स्वयंप्रभा ॥ 18 ॥

  19. प्रत्युवाच ततः सर्वान् इदम् वानर यूथपान् । सर्वेषाम् परितुष्टा अस्मि वानराणाम् तरस्विनाम् ॥ 19 ॥

  20. चरंत्या मम धर्मेण न कार्यम् इह केनचित् । एवम् उक्तः शुभम् वाक्यम् तापस्या धर्म संहितम् ॥ 20 ॥

  21. उवाच हनुमान् वाक्यम् ताम् अनिन्दित लोचनाम् । शरणम् त्वाम् प्रपन्नाः स्मः सर्वे वै धर्मचारिणिम् ॥ 21 ॥

  22. यः कृतः समयो अस्माकम् सुग्रीवेण महात्मना । स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥ 22 ॥

  23. सा त्वम् अस्मात् बिलात् अस्मान् उत्तारयितुम् अर्हसि । तस्मात् सुग्रीव वचनात् अतिक्रान्तान् गत आयुषः ॥ 23 ॥

  24. त्रातुम् अर्हसि नः सर्वान् सुग्रीव भय शन्कितान् । महत् च कार्यम् अस्माभिः कर्तव्यम् धर्मचारिणि ॥ 24 ॥

  25. तत् च अपि न कृतम् कार्यम् अस्माभिः इह वासिभिः । एवम् उक्ता हनुमता तापसी वाक्यम् अब्रवीत् ॥ 25 ॥

  26. जीवता दुष्करम् मन्ये प्रविष्टेन निवर्तितुम् । तपसः सुप्रभावेन नियम उपार्जितेन च ॥ 26 ॥

  27. सर्वान् एव बिलात् अस्मात् तारयिष्यामि वानरान् । निमीलयत चक्षून्षि सर्वे वानर पुंगवाः ॥ 27 ॥

  28. न हि निष्क्रमितुम् शक्यम् अनिमीलित लोचनैः । ततो निमीलिताः सर्वे सुकुमार अंगुलैः करैः ॥ 28 ॥

  29. सहसा पिदधुः दृष्टिम् हृष्टा गमन कान्क्षिणः । वानराः तु महात्मानो हस्त रुद्ध मुखाः तदा ॥ 29 ॥

  30. निमेष अन्तर मात्रेण बिलात् उत्तारिताः तथा । उवाच सर्वान् तान् तत्र तापसी धर्म चारिणी ॥ 30 ॥

  31. निःसृतान् विषमात् तस्मात् समाश्वास्य इदम् अब्रवीत् । एष विन्ध्यो गिरिः श्रीमान् नाना द्रुम लता आयुतः ॥ 31 ॥

  32. एष प्रसवणः शैलः सागरो अयम् महा उदधिः । स्वस्ति वो अस्तु गमिष्यामि भवनम् वानरर्षभाः । इति उक्त्वा तत् बिलम् श्रीमत् प्रविवेश स्वयम्प्रभा ॥ 32 ॥

Reach this point to mark the section finished.

Continue to सर्ग 53

Previous: सर्ग 51