धर्मDharmic Data

किष्किंधाकाण्ड

सर्ग 51

  1. इति उक्त्वा हनुमान् तत्र पुनः कृष्ण अजिन अंबराम् । अब्रवीत् ताम् महाभागाम् तापसीम् धर्म चारिणीम् ॥ 1 ॥

    On meeting the distinguished, righteous ascetic woman robed in deer skin, Hanuman said:

    Word by word

    तत्र there, हनुमान् Hanuman, इति thus, उक्त्वा having addressed, पुनः again, कृष्णाजिनाम्बराम् robed in deer skin, महाभागाम् a distinguished lady, धर्मचारिणीम् a righteous woman, तां तापसीम् ascetic woman, अब्रवीत् said.

  2. इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् । क्षुत् पिपासा परिश्रांताः परिखिन्नाः च सर्वशः ॥ 2 ॥

    'We are exhausted with thirst and hunger. We are fatigued. (Hence) we entered this dark cave all at once(without waiting for permission).

    Word by word

    क्षुत्पिपासापरिश्रान्ताः exhausted with hunger and thirst, सर्वशः by all means, परिखिन्नाश्च fatigued, तिमिरसंवृतम् filled with darkness, इदम् this, बिलम् cave, सहसा all at once, प्रविष्टाः entered.

  3. महत् धरण्या विवरम् प्रविष्टाः स्म पिपासिताः । इमाम् तु एवम् विधान् भावान् विविधान् अद्भुत उपमान् ॥ 3 ॥

    'Thirst drove us into this cave on earth. We are amazed at the kind of many wonderful objects here and have nearly lost our senses. We are tormented with pain.

    Word by word

    पिपासिताः thirsty, धरण्याः of the earth, महत् huge, विवरम् hole, प्रविष्टाः स्म we entered, एवं विधान् this kind, विविधान् many, अद्भुतोपमान् wonderful ones, इमान् these, भावान् feelings, दृष्ट्वा after seeing, वयम् we, नष्टचेतसः having lost conciousness nearly, सम्भ्रान्ताः amazed, प्रव्यथिताः we are pained.

  4. दृष्ट्वा वयम् प्रव्यथिताः संभ्रांता नष्ट चेतसः । कस्य एते कांचना वृक्षाः तरुण आदित्य सन्निभाः ॥ 4 ॥

  5. शुचीनि अभ्यवहार्याणि मूलानि च फलानि च । कांचनानि विमानानि राजतानि गृहाणि च ॥ 5 ॥

    'To whom do these golden trees resembling the rising Sun belong? For whom are these tasty roots and fruits? Whose are these manystoreyed golden houses with glittering windows adorned with silver lattices encrusted with gems?

    Word by word

    एते these, तरुणादित्यसन्निभाः resembling like the rising Sun, काञ्चनाः golden, वृक्षाः trees, शुचीनि pure, अभ्यवहार्याणि very tasty eatables, मूलानि च roots, फलानि च and fruits, काञ्चनानि golden, विमानानि storeyed structures, राजतानि silver, तपनीय गवाक्षाणि glittering golden windows, मणिजालावृतानि adorned with lattices encrusted with gems, गृहाणि च and houses, कस्य whose?

  6. तपनीय गव अक्षाणि मणि जाल आवृतानि च । पुष्पिताः फालवन्तः च पुण्याः सुरभि गन्धयः ॥ 6 ॥

  7. इमे जांबूनदमयाः पादपाः कस्य तेजसा । कांचनानि च पद्मानि जातानि विमले जले ॥ 7 ॥

    'By whose prowess are these golden trees yielding sacred fragrant flowers and fruits? How are these golden lotuses created in the clear water? How is it that here are golden fishes and tortoises? Whose fruit of penance is this? Is it by your power? We do not know. You should tell all of us everything'.

    Word by word

    पुष्पिताः blossomed, फलवन्तश्च full of fruits, पुण्याः sacred, सुरभिगन्धिनः filled with fragrance, इमे these, जाम्बूनदमयाः full of gold, पादपाः trees, विमले in pure, जले in water, काञ्चनानि of gold, पद्मानि च and lotuses, कस्य whose, तेजसा by lustre, जातानि created, कच्छपैः सह along with tortoises, सौवर्णाः golden, मत्स्याश्च fishes too, कथम् how, आत्मानम् yourself, अनुभावाम् च your power, एतत् all this, तपोबलम् ascetic power, कस्य whose, च and, अजानताम् do not know, नः us, सर्वेषाम् for all of us, सर्वम् everything, आख्यातुम् to tell, अर्हसि you ought to.

  8. कथम् मत्स्याः च सौवर्णा दृश्यन्ते सह कच्छपैः । आत्मानः अनुभावात् वा कस्य वै एतत् तपो बलम् ॥ 8 ॥

    'By whose prowess are these golden trees yielding sacred fragrant flowers and fruits? How are these golden lotuses created in the clear water? How is it that here are golden fishes and tortoises? Whose fruit of penance is this? Is it by your power? We do not know. You should tell all of us everything'.

    Word by word

    पुष्पिताः blossomed, फलवन्तश्च full of fruits, पुण्याः sacred, सुरभिगन्धिनः filled with fragrance, इमे these, जाम्बूनदमयाः full of gold, पादपाः trees, विमले in pure, जले in water, काञ्चनानि of gold, पद्मानि च and lotuses, कस्य whose, तेजसा by lustre, जातानि created, कच्छपैः सह along with tortoises, सौवर्णाः golden, मत्स्याश्च fishes too, कथम् how, आत्मानम् yourself, अनुभावाम् च your power, एतत् all this, तपोबलम् ascetic power, कस्य whose, च and, अजानताम् do not know, नः us, सर्वेषाम् for all of us, सर्वम् everything, आख्यातुम् to tell, अर्हसि you ought to.

  9. अजानताम् नः सर्वेषाम् सर्वम् आख्यातुम् अर्हसि । एवम् उक्ता हनुमता तापसी धर्म चारिणी ॥ 9 ॥

  10. प्रति उवाच हनूमंतम् सर्व भूत हिते रता । मयो नाम महातेजा मायावी दानवर्षभः ॥ 10 ॥

  11. तेन इदम् निर्मितम् सर्वम् मायया कांचनम् वनम् । पुरा दानव मुख्यानाम् विश्वकर्मा बभूव ह ॥ 11 ॥

  12. येन इदम् कांचनम् दिव्यम् निर्मितम् भवन उत्तमम् । स तु वर्ष सहस्राणि तपः तप्त्वा महत् वने ॥ 12 ॥

  13. पितामहात् वरम् लेभे सर्वम् औशसनम् धनम् । विधाय सर्वम् बलवान् सर्व काम ईश्वरः तदा ॥ 13 ॥

  14. उवास सुखितः कालम् कंचित् अस्मिन् महावने । तम् अप्सरसि हेमायाम् सक्तम् दानव पुंगवम् ॥ 14 ॥

  15. विक्रम्य एव अशनिम् गृह्य जघान ईशः पुरंदरः । इदम् च ब्रह्मणा दत्तम् हेमायै वनम् उत्तमम् ॥ 15 ॥

  16. शाश्वतः काम भोगः च गृहम् च इदम् हिरण्मयम् । दुहिता मेरुसावर्णेः अहम् तस्याः स्वयंप्रभा ॥ 16 ॥

  17. इदम् रक्षामि भवनम् हेमाया वानरोत्तम । मम प्रिय सखी हेमा नृत्त गीत विशारदा ॥ 17 ॥

  18. तया दत्त वरा च अस्मि रक्षामि भवनम् महान् । किम् कार्यम् कस्य वा हेतोः कांताराणि प्रपद्यथ ॥ 18 ॥

  19. कथम् च इदम् वनम् दुर्गम् युष्माभिः उपलक्षितम् । शुचीनि अभ्यवहार्याणि मूलानि च फलानि च । भुक्त्वा पीत्वा च पानीयम् सर्वम् मे वक्तुम् अर्हथ ॥ 19 ॥

    'Eat these wonderful roots and fruits and have these drinks and then tell me all about you. इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चशस्सर्गः।। Thus ends of the fiftyfirst sarga in Kishkindakanda of the first epic, the Holy Ramayana composed by sage Valmiki.

    Word by word

    इमान् these, अभ्यवहार्याणि wonderful eatables, मूलानि च roots, फलानि च and fruits, भुक्त्वा after eating, पानीयम् drink, पीत्वा च taking, मे to me, सर्वम् every thing, वक्तुम् you may tell, अर्हथ you may do so.

Reach this point to mark the section finished.

Continue to सर्ग 52

Previous: सर्ग 50