धर्मDharmic Data

किष्किंधाकाण्ड

सर्ग 53

  1. ततः ते ददृशुः घोरम् सागरम् वरुण आलयम् । अपारम् अभिगर्जन्तम् घोरैः ऊर्मिभिः आकुलम् ॥ 1 ॥

  2. मयस्य माया विहितम् गिरि दुर्गम् विचिन्वताम् । तेषाम् मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥ 2 ॥

  3. विन्ध्यस्य तु गिरेः पादे संप्रपुष्पित पादपे । उपविश्य महात्मानः चिन्ताम् आपेदिरे तदा ॥ 3 ॥

  4. ततः पुष्पातिभाराग्राँल्ल्ताशतसमावृतान् -यद्वा -ततः पुष्प अतिभार अग्रान् लता शत समावृतान् । द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुः भय शन्किताः ॥ 4 ॥

  5. ते वसंतम् अनुप्राप्तम् प्रतिवेद्य परस्परम् । नष्ट संदेश काल अर्था निपेतुर् धरणी तले ॥ 5 ॥

  6. ततः तान् कपि वृद्धान् च शिष्टान् चैव वनौकसः । वाचा मधुरया अभाष्य यथावत् अनुमान्य च ॥ 6 ॥

  7. स तु सिंह ऋषभ स्कंधः पीन आयत भुजः कपिः । युवराजो महाप्राज्ञ अंगदो वाक्यम् अब्रवीत् ॥ 7 ॥

  8. शासनात् कपि राजस्य वयम् सर्वे विनिर्गताः । मासः पूर्णो बिलस्थानाम् हरयः किम् न बुध्यते ॥ 8 ॥

  9. वयम् आश्वयुजे मासि काल संख्या व्यवस्थिताः । प्रस्थिताः सो अपि च अतीतः किम् अतः कार्यम् उत्तरम् ॥ 9 ॥

  10. भवन्त प्रत्ययम् प्राप्ता नीति मार्ग विशारदाः । हितेषु अभिरता भर्त्तुः निसृष्टाः सर्व कर्मसु ॥ 10 ॥

  11. कर्मसु अप्रतिमाः सर्वे दिक्षु विश्रुत पौरुषाः । माम् पुरस्कृत्य निर्याताः पिन्गाक्ष प्रतिचोदिताः ॥ 11 ॥

  12. इदानीम् अकृत अर्थानाम् मर्तव्यम् न अत्र संशयः । हरि राजस्य संदेशम् अकृत्वा कः सुखी भवेत् ॥ 12 ॥

  13. आस्मिन् अतीते काले तु सुग्रीवेण कृते स्वयम् । प्रायोपवेशनम् युक्तम् सर्वेषाम् च वन ओकसाम् ॥ 13 ॥

  14. तीक्ष्णः प्रकृत्या सुग्रीवः स्वामि भावे व्यवस्थितः । न क्षमिष्यति नः सर्वान् अपराध कृतो गतान् ॥ 14 ॥

  15. अप्रवृत्तौ च सीतायाः पापम् एव करिष्यति । तस्मात् क्षमम् इह अद्य एव गंतुम् प्रायोपविशनम् ॥ 15 ॥

  16. त्यक्त्वा पुत्रन् च दारान् च धनानि च गृहाणि च । ध्रुवम् नः हिंसते राजा सर्वान् प्रतिगतान् इतः ॥ 16 ॥

  17. वधेन अप्रतिरूपेण श्रेयान् मृत्युः इह एव नः । न च अहम् यौवराज्येन सुग्रीवेण अभिषेचितः ॥ 17 ॥

  18. नरेन्द्रेण अभिषिक्तो अस्मि रामेण अक्लिष्ट कर्मणा । स पूर्वम् बद्ध वैरो माम् राजा दृष्ट्वा व्यतिक्रमम् ॥ 18 ॥

  19. घातयिष्यति दण्डेन तीक्ष्णेन कृत निश्चयः । किम् मे सुहृद्भिः व्यसनम् पश्यद्भिः जीवितांतरे । इह एव प्रायम् आसिष्ये पुण्ये सागर रोधसि ॥ 19 ॥

  20. एतत् श्रुत्वा कुमारेण युव राजेन भाषितम् । सर्वे ते वानर श्रेष्ठाः करुणम् वाक्यम् अब्रुवन् ॥ 20 ॥

  21. तीक्ष्णः प्रकृत्या सुग्रीवः प्रिया रक्तः च राघवः । समीक्ष्य अकृत कार्यान् तु तस्मिन् च समये गते ॥ 21 ॥

  22. अदृष्टायाम् च वैदेह्याम् दृष्ट्वा चैव समागतान् । राघव प्रिय कामाय घातयिष्यति असंशयम् ॥ 22 ॥

  23. न क्षमम् च अपराद्धानाम् गमनम् स्वामि पार्श्वतः । प्रधानबूताः च वयम् सुग्रीवस्य समागताः ॥ 23 ॥

  24. इह एव सीताम् अन्वीक्ष्य प्रवृत्तिम् उपलभ्य वा । नः चेत् गच्छाम तम् वीरम् गमिष्यामो यम क्षयम् ॥ 24 ॥

  25. प्लवंगमानाम् तु भय अर्दितानाम्श्रुत्वा वचः तार इदम् बभाषे । अलम् विषादेन बिलम् प्रविश्यवसाम सर्वे यदि रोचते वः ॥ 25 ॥

  26. इदम् हि माया विहितम् सुदुर्गमम्प्रभूत वृक्ष उदक भोज्य पेयम् । इह अस्ति नः न एव भयम् पुरंदरात्न राघवात् वानर राजतो अपि वा ॥ 26 ॥

  27. श्रुत्वा अंगदस्य अपि वचो अनुकूलम्ऊचुः च सर्वे हरयः प्रतीताः । यथा न हन्येम तथा विधानम्असक्तम् अद्य एव विधीयताम् नः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to सर्ग 54

Previous: सर्ग 52