उक्त वाक्यम् तु राजानम् कृपया कुशिक आत्मजः । अब्रवीत् मधुरम् वाक्यम् साक्षात् चण्डालताम् गतम् ॥ 1 ॥
What the king said was proved by his chandala form which the son of Kushika (Viswamitra) heard and out of compassion spoke these sweet words:
Word by wordHide word by word
उक्तवाक्यम् having the words spoken, साक्षात् evident to the senses, चण्डालरूपिणम् chandala form, राजानम् king, कृपया out of pity, कुशिकात्मज: Visvamitra, मधुरम् sweet, वाक्यम् words, अब्रवीत् spoken.
इक्ष्वाको स्वागतम् वत्स जानामि त्वाम् सुधार्मिकम् । शरणम् ते भविष्यामि मा भैषीः नृप पुंगव ॥ 2 ॥
"O Descendant of Ikshvakus, O child, welcome. I know you as highly righteous. O eminent among kings fear not. I offer you refuge.
Word by wordHide word by word
ऐक्ष्वाक O Descendant of Ikshvakus, वत्स child, स्वागतम् welcome, त्वाम् you, सुधार्मिकम् as highly righteous one, जानामि I know you, नृपपुङ्गव O Eminent among kings, माभैषी: fear not, ते to you, शरणम् refuge, भविष्यामि I shall become.
अहम् आमंत्रये सर्वान् महर्षीन् पुण्य कर्मणः । यज्ञ साह्य करान् राजन् ततो यक्ष्यसि निर्वृतः ॥ 3 ॥
O king I shall invite pious maharshis to assist you in the sacrifice which you will be able to perform with great relief.
Word by wordHide word by word
अहम् I, पुण्यकर्मण: men of pious deeds, यज्ञसाह्यकरान् to assist in the sacrifice, सर्वान् all, महर्षीन् maharshis, आमन्त्रये I shall invite, निर्वृत: with relief, यक्ष्यसि you will perform the sacrifice.
गुरु शाप कृतम् रूपम् यत् इदम् त्वयि वर्तते । अनेन सह रूपेण स शरीरो गमिष्यसि ॥ 4 ॥
With the present physical body disfigured by the curse of your spiritual preceptor, you shall go to heaven.
Word by wordHide word by word
गुरुशापकृतम् as a result of the curse of spiritual preceptor, यत् which, रूपम् form, त्वयि in you, वर्तते existing, अनेन by this, रूपेण सह with form, सशरीर: with the physical body, गमिष्यसि you shall go.
हस्त प्राप्तम् अहम् मन्ये स्वर्गम् तव नरेश्वर । यः त्वम् कौशिकम् आगम्य शरण्यम् शरणागतः ॥ 5 ॥
O King since you have taken refuge in Viswamitra who is the protector of those who resort to him, I think heaven is already within your reach".
Word by wordHide word by word
नराधिप O King, य: such that, त्वम् you, शरण्यम् fit to take refuge in, कौशिकम् Visvamitra, आगम्य having reached, शरणागतः have taken refuge, तव for you, स्वर्गम् heaven, हस्तप्राप्तम् already in your hand, मन्ये I consider.
एवम् उक्त्वा महातेजाः पुत्रान् परम धार्मिकान् । व्यादिदेश महाप्राज्ञान् यज्ञ संभार कारणात् ॥ 6 ॥
Most brilliant Viswamitra having thus spoken, ordered his deeply religious and highly learned sons to make preparations for the sacrifice.
Word by wordHide word by word
महातेजा: most brilliant, एवम् thus, उक्त्वा having spoken, परमधार्मिकान् highly virtuous, महाप्राज्ञान् great intellectuals, पुत्रान् sons, यज्ञसम्भारकारणात् to make preparations for sacrifice, व्यादिदेश ordered.
सर्वान् शिष्यान् समाहूय वाक्यम् एतत् उवाच ह । सर्वान् ऋषि वरान् वशिष्ठान् आनयध्वम् मम आज्ञया ॥ 7 ॥
He summoned all his disciples, and said, "Children bring here hosts of rishis along with their disciples and friends, officiating priests and persons wellversed in the Srutis. This is my order.
Word by wordHide word by word
सर्वान् all, शिष्यान् disciples, समाहूय having summoned, एतत् this, वाक्यम् word, उवाच च said, वत्सा: O Children, मम my, आज्ञया with the order, सशिष्यसुहृदश्चैव with their disciples and friends, सर्त्विज: with the officiating priests, सुबहुश्रुतान् welllearned persons, सर्वानृषिगणान् hosts of rishis, आनयध्वम् you may bring them.
स शिष्यान् सुहृदः चैव स ऋत्विजः सुबहु श्रुतान् । यत् अन्यो वचनम् ब्रूयात् मत् वाक्य बल चोदितः ॥ 8 ॥
तत् सर्वम् अखिलेन उक्तम् मम आख्येयम् अनादृतम् । तस्य तत् वचनम् श्रुत्वा दिशो जग्मुः तत् आज्ञया ॥ 9 ॥
आजग्मुः अथ देशेभ्यः सर्वेभ्यो ब्रह्म वादिनः । ते च शिष्याः समागम्य मुनिम् ज्वलित तेजसम् ॥ 10 ॥
ऊचुः च वचनम् सर्वे सर्वेषाम् ब्रह्म वादिनाम् । श्रुत्वा ते वचनम् सर्वे समायान्ति द्विजातयः ॥ 11 ॥
सर्व देशेषु च अगच्छन् वर्जयित्वा महाउदयम् । वासिष्ठम् तत् शतम् सर्वम् क्रोध पर्याकुल अक्षरम् ॥ 12 ॥
यथा आह वचनम् सर्वम् शृणु त्वम् मुनि पुंगव । क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ॥ 13 ॥
कथम् सदसि भोक्तारो हविः तस्य सुर ऋषयः । ब्राह्मणा वा महात्मानो भुक्त्वा चण्डाल भोजनम् ॥ 14 ॥
Joining Viswamitra, (in chanting the mantras during the yaga) how will the great brahmins attain heaven after partaking the food offered by of Chandala?
Word by wordHide word by word
विश्वामित्रेण by Visvamitra, पालिता: ruled, महात्मान: magnanimous, ब्राह्मणा: वा brahmins, चाण्डालभोजनम् food offered by a chandala, भुक्त्वा having partaken, स्वर्गम् heaven, कथम् how, गमिष्यन्ति will attain.
कथम् स्वर्गम् गमिष्यन्ति विश्वामित्रेण पालिताः । एतत् वचनम् नैष्ठुर्यम् ऊचुः संरक्त लोचनाः ॥ 15 ॥
वासिष्ठा मुनि शार्दूल सर्वे सह महोदयाः । तेषाम् तत् वचनम् श्रुत्वा सर्वेषाम् मुनि पुंगवः ॥ 16 ॥
क्रोध संरक्त नयनः स रोषम् इदम् अब्रवीत् । यत् दूषयन्ति अदुष्टम् माम् तप उग्रम् संआस्थितम् ॥ 17 ॥
भस्मी भूता दुरात्मानो भविष्यन्ति न संशयः । अद्य ते काल पाशेन नीता वैवस्तव क्षयम् ॥ 18 ॥
सप्त जाति शतानि एव मृतपाः सन्तु सर्वशः । श्व मांस नियत आहारा मुष्टिका नाम निर्घृणाः ॥ 19 ॥
विकृताः च विरूपाः च लोकान् अनुचरन्तु इमान् । महोदयः च दुर्बुद्धिः माम् अदूष्यम् हि अदूषयत् ॥ 20 ॥
दूषितः सर्व लोकेषु निषादत्वम् गमिष्यति । प्राण अतिपात निरतो निरनुक्रोशताम् गतः ॥ 21 ॥
दीर्घ कालम् मम क्रोधात् दुर्गतिम् वर्तयिष्यति । एतावत् उक्त्वा वचनम् विश्वामित्रो महातपाः । विरराम महातेजा ऋषि मध्ये महामुनिः ॥ 22 ॥
The most powerful sage Viswamitra of fierce asceticism fell silent after after uttering this curse in the assembly of rishis. इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे एकोनषष्टितमस्सर्ग:।। Thus ends the fiftyninth sarga of Balakanda of the holy Ramayana the first epic composed by sage Valmiki.
Word by wordHide word by word
महातपा: possessing fierce asceticism, महातेजा: highly powerful, महामुनि: mighty ascetic, विश्वामित्र: Visvamitra, ऋषिमध्ये in the assembly of rishis, एतावत् to this extent, वचनम् words, उक्त्वा having spoken, विरराम became silent.
बालकाण्ड
सर्ग 59
Reach this point to mark the section finished.
Continue to सर्ग 60