ततः संतप्त हृदयः स्मरन् निग्रहम् आत्मनः । विनिःश्वस्य विनिःश्वस्य कृत वैरो महात्मना ॥ 1 ॥
स दक्षिणाम् दिशम् गत्वा महिष्या सह राघव । तताप परमम् घोरम् विश्वामित्रो महातपाः ॥ 2 ॥
फल मूल अशनो दान्तैः चचार महत् तपः । अथ अस्य जज्ञिरे पुत्राः सत्य धर्म परायणाः ॥ 3 ॥
हविष्पन्दो मधुष्यन्दो दृढनेत्रो महारथः । पूर्णे वर्ष सहस्रे तु ब्रह्मा लोक पितामहः ॥ 4 ॥
अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् । जिता राजर्षि लोकाः ते तपसा कुशिक आत्मज ॥ 5 ॥
अनेन तपसा त्वाम् हि राज ऋषिर् इति विद्महे । एवम् उक्त्वा महातेजा जगाम सह दैवतैः ॥ 6 ॥
त्रिविष्टपम् ब्रह्म लोकम् लोकानाम् परम ईश्वरः । विश्वामित्रो अपि तत् श्रुत्वा ह्रिया किंचित् अवाङ्मुखः ॥ 7 ॥
दुःखेन महता आविष्टः स मन्युः इदम् अब्रवीत् । तपः च सुमहत् तप्तम् राज ऋषिर् इति माम् विदुः ॥ 8 ॥
देवाः स ऋषि गणाः सर्वे न अस्ति मन्ये तपः फलम् । एवम् निश्चित्य मनसा भूय एव महातपाः ॥ 9 ॥
तपः चचार काकुत्स्थ परमम् परम आत्मवान् । एतस्मिन् एव काले तु सत्य वादी जित इन्द्रियः ॥ 10 ॥
त्रिशंकुः इति विख्यात इक्ष्वाकु कुल वर्धनः । तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव ॥ 11 ॥
गच्छेयम् स्व शरीरेण देवानाम् परमाम् गतिम् । वसिष्ठम् स समाहूय कथयामास चिन्तितम् ॥ 12 ॥
अशक्यम् इति च अपि उक्तो वसिष्ठेन महात्मना । प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणाम् दिशम् ॥ 13 ॥
ततः तत् कर्म सिद्धि अर्थम् पुत्रान् तस्य गतो नृपः । वासिष्ठा दीर्घ तपसः तपो यत्र हि तेपिरे ॥ 14 ॥
त्रिशंकुः सुमहातेजाः शतम् परम भास्वरम् । वसिष्ठ पुत्रान् ददृशे तप्यमानान् यशस्विनः ॥ 15 ॥
सो अभिगम्य महात्मानः सर्वान् एव गुरोः सुतान् । अभिवाद्य आनुपूर्व्येण ह्रिया किंचित् अवाङ्मुखः ॥ 16 ॥
अब्रवीत् स महात्मनः सर्वान् एव कृतांजलिः । शरणम् वः प्रपद्ये अहम् शरण्यान् शरणागतः ॥ 17 ॥
प्रत्याख्यातो अस्मि भद्रम् वो वसिष्ठेन महात्मना । यष्टु कामो महायज्ञम् तत् अनुज्ञातुम् अर्थथ ॥ 18 ॥
गुरु पुत्रान् अहम् सर्वान् नमस् कृत्य प्रसादये । शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ॥ 19 ॥
ते माम् भवन्तः सिद्धि अर्थम् याजयंतु समाहिताः । स शरीरो यथा अहम् वै देव लोकम् अवाप्नुयाम् ॥ 20 ॥
प्रत्याख्यातो वसिष्ठेन गतिम् अन्याम् तपो धनाः । गुरु पुत्रान् ऋते सर्वान् न अहम् पश्यामि कांचन ॥ 21 ॥
इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः । तस्मात् अनंतरम् सर्वे भवन्तो दैवतम् मम ॥ 22 ॥
बालकाण्ड
सर्ग 58
Reach this point to mark the section finished.
Continue to सर्ग 59