धर्मDharmic Data

बालकाण्ड

सर्ग 57

  1. ततः त्रिशंकोः वचनम् श्रुत्वा क्रोध समन्वितम् । ऋषि पुत्र शतम् राम राजानम् इदम् अब्रवीत् ॥ 1 ॥

  2. प्रत्याख्यातो असि दुर्बुद्धे गुरुणा सत्य वादिना । तम् कथम् समतिक्रम्य शाखा अन्तरम् उपेयिवान् ॥ 2 ॥

  3. इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः । न च अतिक्रमितुम् शक्यम् वचनम् सत्य वादिनः ॥ 3 ॥

  4. अशक्यम् इति स उवाच वसिष्ठो भगवान् ऋषिः । तम् वयम् वै समाहर्तुम् क्रतुम् शक्ताः कथंचन ॥ 4 ॥

  5. बालिशः त्वम् नर श्रेष्ठ गम्यताम् स्व पुरम् पुनः । याजने भगवान् शक्तः त्रैलोक्यस्य अपि पार्थिव ॥ 5 ॥

  6. अवमानम् कथम् कर्तुम् तस्य शक्षायामहे वयम् । तेषाम् तद् वचनम् श्रुत्वा क्रोध पर्याकुल अक्षरम् ॥ 6 ॥

  7. स राजा पुनः एव एतान् इदम् वचनम् अब्रवीत् । प्रत्याख्यातो भगवता गुरु पुत्रैः तथैव हि ॥ 7 ॥

  8. अन्याम् गतिम् गमिष्यामि स्वस्ति वो अस्तु तपो धनाः । ऋषि पुत्राः तु तत् श्रुत्वा वाक्यम् घोर अभिसंहितम् ॥ 8 ॥

  9. शेपुः परम संक्रुद्धाः चण्डालत्वम् गमिष्यसि । इति उक्त्वा ते महात्मानो विविशुः स्वम् स्वम् आश्रमम् ॥ 9 ॥

  10. अथ रात्र्याम् व्यतीतायाम् राजा चण्डालताम् गतः । नील वस्त्र धरो नीलः परुषो ध्वस्त मूर्धजः ॥ 10 ॥

  11. चित्य माल्य अनुलेपः च आयस आभरणो अभवत् । तम् दृष्ट्वा मंत्रिणः सर्वे त्यज्य चण्डाल रूपिणम् ॥ 11 ॥

  12. प्राद्रवन् सहिता राम पौरा ये अस्य अनुगामिनः । एको हि राजा काकुत्स्थ जगाम परम आत्मवान् ॥ 12 ॥

  13. दह्यमानो दिवा रात्रम् विश्वामित्रम् तपो धनम् । विश्वामित्रः तु तम् दृष्ट्वा राजानम् विफली कृतम् ॥ 13 ॥

  14. चण्डाल रूपिणम् राम मुनिः कारुण्यम् आगतः । कारुण्यात् स महातेजा वाक्यम् परम धार्मिकः ॥ 14 ॥

  15. इदम् जगाद भद्रम् ते राजानम् घोर दर्शनम् । किम् आगमन कार्यम् ते राजपुत्र महाबल ॥ 15 ॥

  16. अयोध्या अधिपते वीर शापात् चण्डालताम् गतः । अथ तत् वाक्यम् आकर्ण्य राजा चण्डालताम् गतः ॥ 16 ॥

  17. अब्रवीत् प्रांजलिः वाक्यम् वाक्यज्ञो वाक्य कोविदम् । प्रत्याख्यातो अस्मि गुरुणा गुरु पुत्रैः तथा एव च ॥ 17 ॥

  18. अनवाप्य एव तम् कामम् मया प्राप्तो विपर्ययः । स शरीरो दिवम् यायामि इति मे सौम्य दर्शन ॥ 18 ॥

  19. मया च इष्टम् क्रतु शतम् तत् च न अवाप्यते फलम् । अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन ॥ 19 ॥

  20. कृच्छ्रेषु अपि गतः सौम्य क्षत्र धर्मेण ते शपे । यज्ञैः बहु विधैः इष्टम् प्रजा धर्मेण पालिताः ॥ 20 ॥

  21. गुरवः च महात्मानः शील वृत्तेन तोषिताः । धर्मे प्रयतमानस्य यज्ञम् च आहर्तुम् इच्छतः ॥ 21 ॥

  22. परितोषम् न गच्छन्ति गुरवो मुनिपुंगव । दैवम् एव परम् मन्ये पौरुषम् तु निरर्थकम् ॥ 22 ॥

  23. दैवेन आक्रम्यते सर्वम् दैवम् हि परमा गतिः । तस्य मे परम आर्तस्य प्रसादम् अभिकांक्षतः । कर्तुम् अर्हसि भद्रम् ते दैव उपहत कर्मणः ॥ 23 ॥

  24. न अन्याम् गतिम् गमिष्यामि न अन्यः शरणम् अस्ति मे । दैवम् पुरुष कारेण निवर्तयितुम् अर्हसि ॥ 24 ॥

Reach this point to mark the section finished.

Continue to सर्ग 58

Previous: सर्ग 56