धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 9

  1. [स] तत पराभग्नं बलं दृष्ट्वा मद्रराजः परतापवान उवाच सारथिं तूर्णं चॊदयाश्वान महाजवान ॥ 1 ॥

  2. एष तिष्ठति वै राजा पाण्डुपुत्रॊ युधिष्ठिरः छत्त्रेण धरियमाणेन पाण्डुरेण विराजता ॥ 2 ॥

  3. अत्र मां परापय कषिप्रं पश्या मे सारथे बलम न समर्था हि मे कषिप्रं पश्य मे सारथे बलम न समर्था हि मे पार्थाः सथातुम अद्य पुरॊ युधि ॥ 3 ॥

  4. एवम उक्तस ततः परायान मद्रराजस्य सारथिः यत्र राजा सत्यसंधॊ धर्मराजॊ युधिष्ठिरः ॥ 4 ॥

  5. आपतन्तं च सहसा पाण्डवानां महद बलम दधारैकॊ रणे शल्यॊ वेलेवॊद्धृतम अर्णवम ॥ 5 ॥

  6. पाण्डवानां बलौघस तु शल्यम आसाद्य मारिष वयतिष्ठत तदा युद्धे सिन्धॊर वेग इवाचलम ॥ 6 ॥

  7. मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनाम ॥ 7 ॥

  8. तेषु राजन निवृत्तेषु वयूढानीकेषु भागशः परावर्तत महारौद्रः संग्रामः शॊणितॊदकः समार्च्छच्च चित्रसेनेन नकुलॊ युद्धदुर्मदः ॥ 8 ॥

  9. तौ परस्परम आसाद्य चित्रकार्मुकधारिणौ मेघाव इव यथॊद्वृत्तौ दक्षिणॊत्तर वर्षिणौ ॥ 9 ॥

  10. शरतॊयैः सिषिचतुस तौ परस्परम आहवे नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा ॥ 10 ॥

  11. उभौ कृतास्त्रौ बलिनौ रथचर्या विशारदौ परस्परवधे यत्तौ छिद्रान वेषणतत्परौ ॥ 11 ॥

  12. चित्रसेनस तु भल्लेन पीतेना निशितेन च नकुलस्य महाराज मुष्टिदेशे ऽचछिनद धनुः ॥ 12 ॥

  13. अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः तरिभिः शरैर असंभ्रान्तॊ ललाटे वै समर्पयत ॥ 13 ॥

  14. हयांश चास्य शरैस तीक्ष्णैः परेषयाम आस मृत्यवे तथा धवजं सारथिं च तरिभिस तरिभिर अपातयत ॥ 14 ॥

  15. स शत्रुभुज निर्मुक्तैर ललाटस्थस तरिभिः शरैः नकुलः शुशुभे राजंस तरिशृङ्ग इव पर्वतः ॥ 15 ॥

  16. स छिन्नधन्वा विरथः खड्गम आदाय चर्म च रथाद अवतरद वीरः शैलाग्राद इव केसरी ॥ 16 ॥

  17. पद्भ्याम आपततस तस्य शरवृष्टिम अवासृजत नकुलॊ ऽपय अग्रसत्तां वै चर्माणा लघुविक्रमः ॥ 17 ॥

  18. चित्रसेनरथं पराप्य चित्रयॊधी जितश्रमः आरुरॊह महाबाहुः सर्वसैन्यस्य पश्यतः ॥ 18 ॥

  19. सकुण्डलं समुकुटं सुनसं सवायतेक्षणम चित्रसेनशिरः कायाद अपाहरत पाण्डवः स पपात रथॊपस्थाद दिवाकरसमप्रभः ॥ 19 ॥

  20. चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः साद्धु वादस्वनांश चक्रुः सिंहनादांश च पुष्कलान ॥ 20 ॥

  21. विशस्तं भरातरं दृष्ट्वा कर्ण पुत्रौ महारथौ सुषेणः सत्यसेनश च मुञ्चन्तौ निशिताञ शरान ॥ 21 ॥

  22. ततॊ ऽभयधावतां तूर्णं पाण्डवं रथिनां वरम जिघांसन्तौ यथा नागं वयाघ्रौ राजन महावने ॥ 22 ॥

  23. ताव अभ्यधावतां तीक्ष्णौ दवाव अप्य एनं महारथम शरौघान सम्यग अस्यन्तौ जीमूतौ सलिलं यथा ॥ 23 ॥

  24. स शरैः सर्वतॊ विद्धः परहृष्ट इव पाण्डवः अन्यत कार्मुकम आदाय रथम आरुह्य वीर्यवान अतिष्ठत रणे वीरः करुद्ध रूप इवान्तकः ॥ 24 ॥

  25. तस्य तौ भरातरौ राजञ शरैः संनतपर्वभिः रथं विशकलीकर्तुं समारब्धौ विशां पते ॥ 25 ॥

  26. ततः परहस्य नकुलश चतुर्भिश चतुरॊ रणे जघान निशितैस तीक्ष्णैः सत्यसेनस्य वाजिनः ॥ 26 ॥

  27. ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम धनुश चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥ 27 ॥

  28. अथान्यं रथम आस्थाय धनुर आदाय चापरम सत्यसेनः सुषेणश च पाण्डवं पर्यधावताम ॥ 28 ॥

  29. अविध्यत ताव असंभ्रान्तौ माद्रीपुत्रः परतापवान दवाभ्यां दवाभ्यां महाराज शराभ्यां रणमूर्धनि ॥ 29 ॥

  30. सुषेणस तु ततः करुद्धः पाण्डवस्य महद धनुः चिच्छेद परहसन युद्धे कषुरप्रेण महारथः ॥ 30 ॥

  31. अथान्यद धनुर आदाय नकुलः करॊधमूर्च्छितः सुषेणं पञ्चभिर विद्ध्वा धवजम एकेन चिच्छिदे ॥ 31 ॥

  32. सत्यसेनस्य च धनुर हस्तावापं च मारिष चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर जनाः ॥ 32 ॥

  33. अथान्यद धनुर आदाय वेगघ्नं भारसाधनम शरैः संछादयाम आस समन्तात पाण्डुनन्दनम ॥ 33 ॥

  34. संनिवार्य तु तान बाणान नकुलः परवीरहा सत्यसेनं सुषेणं च दवाभ्यां दवाभ्याम अविध्यत ॥ 34 ॥

  35. ताव एनं परत्यविध्येतां पृथक्पृथग अजिह्मगैः सारथिं चास्य राजेन्द्र शरैर विव्यधतुः शितैः ॥ 35 ॥

  36. सत्यसेनॊ रथेषां तु नकुलस्या धनुस तथा पृथक शराभ्यां चिच्छेद कृतहस्तः परतापवान ॥ 36 ॥

  37. स रथे ऽतिरथस तिष्ठन रथशक्तिं परामृशत सवर्णदण्डाम अकुण्ठाग्रां तैलधौतां सुनिर्मलाम ॥ 37 ॥

  38. लेलिहानाम इव विभॊ नागकन्यां महाविषाम समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ॥ 38 ॥

  39. सा तस्य हृदयं संख्ये बिभेद शतधा नृप स पपात रथाद भूमौ गतसत्त्वॊ ऽलपचेतनः ॥ 39 ॥

  40. भरातरं निहतं दृष्ट्वा सुषेणः करॊधमूर्छितः अभ्यवर्षच छरैस तूर्णं पदातिं पाण्डुनन्दनम ॥ 40 ॥

  41. नकुलं विरथं दृष्ट्वा दरौपदेयॊ महाबलः सुत सॊमॊ ऽभिदुद्राव परीप्सन पितरं रणे ॥ 41 ॥

  42. ततॊ ऽधिरुह्य नकुलः सुत सॊमस्य तं रथम शुशुभे भरतश्रेष्ठॊ गिरिस्थ इव केसरी सॊ ऽनयत कार्मुकम आदाय सुषेणं समयॊधयत ॥ 42 ॥

  43. ताव उभौ शरवर्षाभ्यां समासाद्य परस्परम परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥ 43 ॥

  44. सुषेणस तु ततः करुद्धः पाण्डवं विशिखैस तरिभिः सुत सॊमं च विंशत्या बाह्वॊर उरसि चार्पयत ॥ 44 ॥

  45. ततः करुद्धॊ महाराज नकुलः परवीरहा शरैस तस्य दिशः सर्वाश छादयाम आस वीर्यवान ॥ 45 ॥

  46. ततॊ गृहीत्वा तीक्ष्णाग्रम अर्धचन्द्रं सुतेजनम स वेगयुक्तं चिक्षेप कर्ण पुत्रस्य संयुगे ॥ 46 ॥

  47. तस्य तेना शिरः कायाज जहार नृपसत्तम पश्यतां सर्वसैन्यानां तद अद्भुतम इवाभवत ॥ 47 ॥

  48. स हतः परापतद राजन नकुलेन महात्मना नदीवेगाद इवारुग्णस तीरजः पादपॊ महान ॥ 48 ॥

  49. कर्ण पुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम परदुद्राव भयात सेना तावकी भरतर्षभ ॥ 49 ॥

  50. तां तु सेनां महाराज मद्रराजः परतापवान अपालयद रणे शूरः सेनापतिर अरिंदमः ॥ 50 ॥

  51. विभीस तस्थौ महाराज वयवस्थाप्य च वाहिनीम सिंहनादं भृशं कृत्वा धनुः शब्दं च दारुणम ॥ 51 ॥

  52. तावकाः समरे राजन रक्षितादृढ धन्वना परत्युद्ययुर अरातींस ते समन्ताद विगतव्यथाः ॥ 52 ॥

  53. मद्रराजं महेष्वासं परिवार्य समन्ततः सथिता राजन महासेना यॊद्धुकामाः समन्ततः ॥ 53 ॥

  54. सात्यकिर भिम सेनश च माद्रीपुत्रौ च पाण्डवौ युधिष्ठिरं पुरस्कृत्य हरीनेषेधम अरिंदमम ॥ 54 ॥

  55. परिवार्य रणे वीराः सिंहनादं परचक्रिरे बाणशब्दरवांश चॊग्रान कष्वेडां च विविधान दधुः ॥ 55 ॥

  56. तथैव तावकाः सर्वे मद्राधिपतिम अञ्जसा परिवार्य सुसंरब्धाः पुनर युद्धाम अरॊच्चयन ॥ 56 ॥

  57. ततः परववृते युद्धं भीरूणां भयवर्धनम तावकानां परेषां च मृत्युं कृत्वा निवर्तनम ॥ 57 ॥

  58. यथा देवासुरं युद्धं पूर्वम आसीद विशां पते अभीतानां तथा राजन यम राष्ट्रविवर्धनम ॥ 58 ॥

  59. ततः कपिध्वजॊ राजन हत्वा संशप्तकान रणे अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ॥ 59 ॥

  60. तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरॊगमाः अभ्यधावन्त तां सेनां विसृजन्तः शिताञ शरान ॥ 60 ॥

  61. पाण्डवैर अवकीर्णानां सांमॊहः समजायत न च जाज्ञुर अनीकानि दिशॊ वा परदिशस तथा ॥ 61 ॥

  62. आपूर्यमाणा निशितैः शरैः पाण्डव चॊदितैः हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः कौरव्य अवध्यत चमूः पाण्डुपुत्रैर महारथैः ॥ 62 ॥

  63. तथैव पाण्डवी सेना शरै राजन समन्ततः रणे ऽहन्यत पुत्रैस ते शतशॊ ऽथ सहस्रशः ॥ 63 ॥

  64. ते सेने भृशसंतप्ते वध्यमाने परस्परम वयाकुले समपद्येतां वर्षासु सरिताव इव ॥ 64 ॥

  65. आविवेश ततस तीव्रं तावकानां महद भयम पाण्डवानां च राजेन्द्र तथा भूते महाहवे ॥ 65 ॥

Reach this point to mark the section finished.

Continue to अध्याय 10

Previous: अध्याय 8