धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 8

  1. [स] तथ परववृते युद्धं कुरूणां भयवर्धनम सृञ्जयैः सह राजेन्द्र घॊरं देवासुरॊपमम ॥ 1 ॥

  2. नरा रथा गजौघाश च सादिनश च सहस्रशः वाजिनश च पराक्रान्ताः समाजग्मुः परस्परम ॥ 2 ॥

  3. नागानां भीमरूपाणां दरवतां निस्वनॊ महान अश्रूयत यथाकाले जलदानां नभस्तले ॥ 3 ॥

  4. नागैर अभ्याहताः के चित सरथा रथिनॊ ऽपतन वयद्रवन्त रणे वीरा दराव्यमाणा मदॊत्कटैः ॥ 4 ॥

  5. हयौघान पादरक्षांश च रथिनस तत्र शिक्षिताः शरैः संप्रेषयाम आसुः परलॊकाय भारत ॥ 5 ॥

  6. सादिनः शिक्षिता राजन परिवार्य महारथान विचरन्तॊ रणे ऽभयघ्नन परासशक्त्यृष्टिभिस तथा ॥ 6 ॥

  7. धन्विनः पुरुषाः के चित संनिवार्य महारथान एकं बहव आसाद्य परेषयेयुर यमक्षयम ॥ 7 ॥

  8. नागं रथवरांश चान्ये परिवार्य महारथाः सॊत्तरायुधिनं जघ्नुर दरवमाणा महारवम ॥ 8 ॥

  9. तथा च रथिनं करुद्धं विकिरन्तं शरान बहून नागा जघ्नुर महाराज परिवार्य समन्ततः ॥ 9 ॥

  10. नागॊ नागम अभिद्रुत्य रथी च रथिनं रणे शक्तॊ तॊमरनाराचैर निजघ्नुस तत्र तत्र ह ॥ 10 ॥

  11. पादातान अवमृद्नन्तॊ रथवारणवाजिनः रणमध्ये वयदृश्यन्त कुर्वन्तॊ महद आकुलम ॥ 11 ॥

  12. हयाश च पर्यधावन्त चामरैर उपशॊभिताः हंसा हिमवतः परस्थे पिबन्त इव मेदिनीम ॥ 12 ॥

  13. तेषां तु वाजिनां भूमिः खुरैश चित्रा विशां पते अशॊभत यथा नारी करज कषतविक्षता ॥ 13 ॥

  14. वाजिनां खुरशब्देन रथे नेमिस्वनेन च पत्तीनां चापि शब्देन नागानां बृह्मितेन च ॥ 14 ॥

  15. वादित्राणां च घॊषेण शङ्खानां निस्वनेन च अभवन नादिता भूमिर निर्घातिर इव भारत ॥ 15 ॥

  16. धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम कवचानां परभाभिश च न पराज्ञायत किं चन ॥ 16 ॥

  17. बहवॊ बाहवश छिन्ना नागराजकरॊपमाः उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम ॥ 17 ॥

  18. शिरसां च महाराज पततां वसुधातले चयुतानाम इव तालेभ्यः फलानां शरूयते सवनः ॥ 18 ॥

  19. शिरॊभिः पतितैर भाति रुधिरार्द्रैर वसुंधरा तपनीयनिभैः काले नलिनैर इव भारत ॥ 19 ॥

  20. उद्वृत्तनयनैस तैस तु गतसत्त्वैः सुविक्षतैः वयभ्राजत महाराज पुण्डरीकैर इवावृता ॥ 20 ॥

  21. बाहुभिश चन्दनादिग्धैः सकेयूरैर महाधनैः पतितैर भाति राजेन्द्र मही शक्रध्वजैर इव ॥ 21 ॥

  22. ऊरुभिश च नरेन्द्राणां विनिकृत्तैर महाहवे हस्तिहस्तॊपमैर अन्यैः संवृतं तद रणाङ्गणम ॥ 22 ॥

  23. कबन्ध शतसंकीर्णं छत्त्र चामरशॊभितम सेना वनं तच छुशुभे वनं पुष्पाचितं यथा ॥ 23 ॥

  24. तत्र यॊधा महाराज विचरन्तॊ हय अभीतवत दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ॥ 24 ॥

  25. मातङ्गाश चाप्य अदृश्यन्त शरतॊमर पीडिताः पतन्तस तत्र तत्रैव छिन्नाभ्र सदृशा रणे ॥ 25 ॥

  26. गजानीकं महाराज वध्यमानं महात्मभिः वयदीर्यत दिशः सर्वा वातनुन्ना घना इव ॥ 26 ॥

  27. ते गजा घनसंकाशाः पेतुर उव्यां समन्ततः वज्ररुग्णा इव बभुः पर्वता युगसंक्षये ॥ 27 ॥

  28. हयानां सादिभिः सार्धं पतितानां महीतले राशयः संप्रदृश्यन्ते गिरिमात्रास ततस ततः ॥ 28 ॥

  29. संजज्ञे रणभूमौ तु परलॊकवहा नदी शॊणितॊदा रथावर्ता धवजवृक्षास्थि शर्करा ॥ 29 ॥

  30. भुजनक्रा धनुः सरॊता हस्तिशैला हयॊपला मेदॊ मज्जा कर्दमिनी छत्त्र हंसा गदॊडुपा ॥ 30 ॥

  31. कवचॊष्णीष संछन्ना पताका रुचिरद्रुमा चक्रचक्रावली जुष्टा तरिवेणू दण्डकावृता ॥ 31 ॥

  32. शूराणां हर्षजननी भीरूणां भयवर्धिनी परावर्तत नदी रौरा कुरुसृञ्जयसंकुला ॥ 32 ॥

  33. तां नदीं पितृलॊकाय वहन्तीम अतिभैरवाम तेरुर वाहन नौभिस ते शूराः परिघबाहवः ॥ 33 ॥

  34. वर्तमाने तथा युद्धे निर्मर्यादे विशां पते चतुरङ्गक्षये घॊरे पूर्वं देवासुरॊपमे ॥ 34 ॥

  35. अक्रॊशन बान्धवान अन्ये तत्र तत्र परंतप करॊशद्भिर बान्धवैश चान्ये भयार्ता न निवर्तिरे ॥ 35 ॥

  36. निर्मर्यादे तथा युद्धे वर्तमाने भयानके अर्जुनॊ भीमसेनश च मॊहयां चक्रतुः परान ॥ 36 ॥

  37. सा वध्यमाना महती सेना तव जनाधिप अमुह्यत तत्र तत्रैव यॊषिन मदवशाद इव ॥ 37 ॥

  38. मॊहयित्वाच तां सेनां भिम सेनधनंजयौ दध्मतुर वारिजौ तत्र सिंहनादं च नेदतुः ॥ 38 ॥

  39. शरुत्वैव तु महाशब्दं धृष्टद्युम्न शिखण्डिनौ धर्मराजं पुरस्कृत्य मद्रराजम अभिद्रुतौ ॥ 39 ॥

  40. तत्राश्चर्यम अपश्याम घॊररूपं विशां पते शल्येन संगताः शूरा यद अयुध्यन्त भागशः ॥ 40 ॥

  41. माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ अभ्ययातां तवरायुक्तौ जिगीषन्तौ बलं तव ॥ 41 ॥

  42. ततॊ नयवर्तत बलं तावकं भरतर्षभ शरैः परणुन्नं बहुधा पाण्डवैर जितकाशिभिः ॥ 42 ॥

  43. वद्यमाना चमूः सा तु पुत्राणां परेक्षतां तव भेजे दिशॊ महाराज परणुन्ना दृढधन्विभिः हाहाकारॊ महाञ जज्ञे यॊधानां तव भारत ॥ 43 ॥

  44. तिष्ठ तिष्ठेति वाग आसीद दरावितानां महात्मनाम कषत्रियाणां तदान्यॊन्यं संयुगे जयम इच्छताम आद्रवन्न एव भग्नास ते पाण्डवस तव सैनिकाः ॥ 44 ॥

  45. तयक्त्वा युद्धि परियान पुत्रान भरातॄन अथ पितामहान मातुलान भागिनेयांश च तथा संबन्धिबान्धवान ॥ 45 ॥

  46. हयान दविपांस तवरयन्तॊ यॊधा जग्मुः समन्ततः आत्मत्राण कृतॊत्साहास तावका भरतर्षभ ॥ 46 ॥

Reach this point to mark the section finished.

Continue to अध्याय 9

Previous: अध्याय 7