[स] वयतीतायां रजन्यां तु राजा दुर्यॊधनस तदा अब्रवीत तावकान सर्वान संनह्यन्तां महारथाः ॥ 1 ॥
राज्ञस तु मतम आज्ञाय सामनह्यत सा चमूः अयॊजयन रथांस तूर्णं पर्यधावंस तथापरे ॥ 2 ॥
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः हयान आस्तरणॊपेतांश चक्रुर अन्ये सहास्रशः ॥ 3 ॥
वादित्राणां च निनदः परादुरासीद विशां पते बॊधनार्थं हि यॊधानां सैन्यानां चाप्य उदीर्यताम ॥ 4 ॥
ततॊ बलानि सर्वाणि सेना शिष्टानि भारत संनद्धान्य एव ददृशुर मृत्युं कृत्वा निवर्तनम ॥ 5 ॥
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः परविभज्य बलं सर्वम अनीकेषु वयवस्थिताः ॥ 6 ॥
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः कृपश च कृतवर्मा च दरौणिः शल्यॊ ऽथ सौबलः ॥ 7 ॥
अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा न न एकेन यॊद्धव्यं कथं चिद अपि पाण्डवैः ॥ 8 ॥
यॊ हय एकः पाण्डवैर युध्येद यॊ वा युध्यन्तम उत्सृजेत स पञ्चभिर भवेद युक्तः पातकैः सॊपपातकैः अन्यॊन्यं परिरक्षद्भिर यॊद्धव्यं सहितैश च नः ॥ 9 ॥
एवं ते समयं कृत्वा सर्वे तत्र महारथाः मद्रराजं पुरस्कृत्य तूर्णम अभ्यद्रवन परान ॥ 10 ॥
तथैव पाण्डवा राजन वयूह्य सैन्यं महारणे अभ्ययुः कौरवान सर्वान यॊत्स्यमानाः समन्ततः ॥ 11 ॥
तद बलं भरतश्रेष्ठ कषुब्ब्धार्णव समस्वनम समुद्धूतार्णवाकारम उद्धूत रथकुञ्जरम ॥ 12 ॥
[धृ] दरॊणस्य भीष्मस्य च वै राधेयस्य च मे शरुतम पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ॥ 13 ॥
कथं रणे हतः शल्यॊ धर्मराजेन संजय भीमेन च महाबाहुः पुत्रॊ दुर्यॊधनॊ मम ॥ 14 ॥
[स] कषयं मनुष्यदेहानां रथनागाश्वसंक्षयम शृणु राजन सथिरॊ भूत्वा संग्रामं शंसतॊ मम ॥ 15 ॥
आशा बलवती राजन पुत्राणां ते ऽभवत तदा हते भीष्मे च दरॊणे च सूतपुत्रे च पातिते शल्यः पार्थान रणे सर्वान निहनिष्यति मारिष ॥ 16 ॥
ताम आशां हृदये कृत्वा समाश्वास्य च भारत मद्रराजं च समरे समाश्रित्य महारथम नाथवन्तम अथात्मानम अमन्यत सुतस तव ॥ 17 ॥
यदा कर्णे हते पार्थाः सिंहनादं परचक्रिरे तदा राजन धार्तराष्ट्रान आविवेश महद भयम ॥ 18 ॥
तान समाश्वास्यतु तदा मद्रराजः परतापवान वयूह्य वयूहं महाराज सर्वतॊभद्रम ऋद्धिमत ॥ 19 ॥
परत्युद्यातॊ रणे पार्थान मद्रराजः परतापवान विधुन्वन कार्मुकं चित्रं भारघ्नं वेगवत्तरम ॥ 20 ॥
रथप्रवरम आस्थाय सैन्धवाश्वं महारथः तस्य सीता महाराज रथस्थाशॊभयद रथम ॥ 21 ॥
स तेन संवृतॊ वीरॊ रथेनामित्रकर्शनः तस्थौ शूरॊ महाराज पुत्राणां ते भयप्रणुत ॥ 22 ॥
परयाणे मद्रराजॊ ऽभून मुखं वयूहस्य दंशितः मद्रकैः सहितॊ वीरैः कर्ण पुत्रैश च दुर्जयैः ॥ 23 ॥
सव्ये ऽभूत कृतवर्मा च तरिगर्तैः परिवारितः गौतमॊ दक्षिणे पार्श्वे शकैश च यवनैः सह ॥ 24 ॥
अश्वत्थामा पृष्ठतॊ ऽभूत काम्बॊजैः परिवारितः दुर्यॊधनॊ ऽभवन मध्ये रक्षितः कुरुपुंगवैः ॥ 25 ॥
हयानीकेन महता सौबलश चापि संवृतः परययौ सर्वसैन्येन कैतव्यश च महारथः ॥ 26 ॥
पाण्डवाश च महेष्वासा वयूह्य सैन्यम अरिंदमाः तरिधा भूत्वा महाराज तव सैन्यम उपाद्रवन ॥ 27 ॥
धृष्टद्युम्नः शिखण्डी च सत्यकिश च महारथः शलयस्य वाहिनीं तूर्णम अभिदुद्रुवुर आहवे ॥ 28 ॥
ततॊ युधिष्ठिरॊ राजा सवेनानीकेन संवृतः शल्यम एवाभिदुद्राव जिघांसुर भरतर्षभ ॥ 29 ॥
हार्दिक्यं तु महेष्वासम अर्जुनः शत्रुपूगहा संशप्तक गणांश चैव वेगतॊ ऽभिविदुद्रुवे ॥ 30 ॥
गौतमं भीमसेनॊ वै सॊमकाश च महारथाः अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान युधि ॥ 31 ॥
माद्रीपुत्रौ तु शकुनिम उलूकं च महारथौ ससैन्यौ सहसेनौ ताव उपतस्थतुर आहवे ॥ 32 ॥
तथैवायुतशॊ यॊधास तावकाः पाण्डवान रणे अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः ॥ 33 ॥
[धृ] हते भीष्मे महेष्वासे दरॊणे कर्णे महारथे कुरु षवल्पावशिष्टेषु पाण्डवेषु च संयुगे ॥ 34 ॥
सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय मामकानां परेषां च किं शिष्टम अभवद बलम ॥ 35 ॥
[स] यथा वयं परे राजन युद्धाय समवस्थिताः यावच चासीद बलं शिष्टं संग्रामे तन निबॊध मे ॥ 36 ॥
एकादश सहस्राणि रथानां भरतर्षभ दश दन्ति सहस्राणि सप्त चैव शतानि च ॥ 37 ॥
पूर्णे शतसहस्रे दवे हयानां भरतर्षभ नरकॊट्यस तथा तिस्रॊ बलम एतत तवाभवत ॥ 38 ॥
रथानां षट सहस्राणि षट सहस्राश च कुञ्जराः दश चाश्वसहस्राणि पत्तिकॊटी च भारत ॥ 39 ॥
एतद बलं पाण्डवानाम अभवच छेषम आहवे एत एव समाजग्मुर युद्धाय भरतर्षभ ॥ 40 ॥
एवं विभज्य राजेन्द्र मद्रराजमते सथिताः पाण्डवान परत्युदीयाम जय गृद्धाः परमन्यवः ॥ 41 ॥
तथैव पाण्डवाः शूराः समरे जितकाशिनः उपयाता नरव्याघ्राः पाञ्चालाश च यशस्विनः ॥ 42 ॥
एवम एते बलौघेन परस्परवधैषिणः उपयाता नरव्याघ्राः पूर्वां संध्यां परति परभॊ ॥ 43 ॥
ततः परववृते युद्धं घॊररूपं भयानकम तावकानां परेषां च निघ्नताम इतरेतरम ॥ 44 ॥
शल्यपर्व · Shalya Parva
अध्याय 7
Reach this point to mark the section finished.
Continue to अध्याय 8