[स] एतच छरुत्वा वचॊ राज्ञॊ मद्रराजः परतापवान दुर्यॊधनं तदा राजन वाक्यम एतद उवाच ह ॥ 1 ॥
दुर्यॊधन महाबाहॊ शृणु वाक्यविदां वर याव एतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ न मे तुल्याव उभाव एतौ बाहुवीर्ये कथं चन ॥ 2 ॥
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम यॊधयेयं रणमुखे संक्रुद्धः किम उ पाण्डवान विजेष्ये च रणे पार्थान सॊमकांश च समागतान ॥ 3 ॥
अहं सेना परणेता ते भविष्यामि न संशयः तं च वयूहं विधास्यामि न तरिष्यन्ति यं परे इति सत्यं बरवीम्य एष दुर्यॊधन न संशयः ॥ 4 ॥
एवम उक्तस ततॊ राजा मद्राधिपतिम अञ्जसा अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम विधिना शस्त्रदृष्टेन हृष्टरूपॊ विशां पते ॥ 5 ॥
अभिषिक्ते ततस तस्मिन सिंहनादॊ महान अभूत तव सैन्येष्व अवाद्यन्त वादित्राणि च भारत ॥ 6 ॥
हृष्टाश चासंस तदा यॊधा मद्रकाश च महारथाः तुष्टुवुश चैव राजानं शल्यम आहवशॊभिनम ॥ 7 ॥
जय राजंश चिरं जीव जहि शत्रून समागतान तव बाहुबलं पराप्य धार्तराष्ट्रामहा बलाः निखिलां पृथिवीं सर्वां परशासन्तु हतद्विषः ॥ 8 ॥
तवं हि शक्तॊ रणे जेतुं ससुरासुरमानवान मर्त्यधर्माण इह तु किम उ सॊमक सृञ्जयान ॥ 9 ॥
एवं संस्तूयमानस तु मद्राणाम अधिपॊ बली हर्षं पराप तदा वीरॊ दुरापम अकृतात्मभिः ॥ 10 ॥
[षल्य] अद्यैवाहं रणे सर्वान पाञ्चालान सह पाण्डवैः निहनिष्यामि राजेन्द्र सवर्गं यास्यामि वा हतः ॥ 11 ॥
अद्य पश्यन्तु मां लॊका विचरन्तम अभीतवत अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः ॥ 12 ॥
पाञ्चालाश चेदयश चैव दरौपदेयाश च सर्वशः धृष्टद्युम्नः शिखण्डी च सर्वे चापि परभद्रकाः ॥ 13 ॥
विक्रमं मम पश्यन्तु धनुषश च महद बलम लाघवं चास्त्रवीर्यं च भुजयॊश च बलं युधि ॥ 14 ॥
अद्य पश्यन्तु मे पार्थाः सिद्धाश च सहचारणैः यादृशं मे बलं बाह्वॊः साम्पद अस्त्रेषु या च मे ॥ 15 ॥
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः परतीकार परा भूत्वा चेष्टन्तां विविधाः करियाः ॥ 16 ॥
अद्य सैन्यानि पाण्डूनां दरावयिष्ये समन्ततः दरॊण भीष्माव अति विभॊ सूतपुत्रं च संयुगे विचरिष्ये रणे युध्यन परियार्थं तव कौरव ॥ 17 ॥
[स] अभिषिक्ते तदा शल्ये तव सैन्येषु मानद न कर्ण वयसनं किं चिन मेनिरे तत्र भारत ॥ 18 ॥
हृष्टाः सुमनसश चैव बभूवुस तत्र सैनिकाः मेनिरे निहतान पार्थान मद्रराजवशं गतान ॥ 19 ॥
परहर्षं पराप्य सेना तु तावकी भरतर्षभ तां रात्रिं सुखिनी सुप्ता सवस्थचित्तेव साभवत ॥ 20 ॥
सैन्यस्य तव तं शब्दं शरुत्वा राजा युधिष्ठिरः वार्ष्णेयम अब्रवीद वाक्यं सर्व कषत्रस्य शृण्वतः ॥ 21 ॥
मद्रराजः कृतः शल्यॊ धार्तराष्ट्रेण माधव सेनापतिर महेष्वासः सर्वसैन्येषु पूजितः ॥ 22 ॥
एतच छरुत्वा यथा भूतं कुरु माधव यत कषमम भवान नेताच गॊप्ता च विधत्स्व यद अनन्तरम ॥ 23 ॥
तम अब्रवीन महाराज वासुदेवॊ जनाधिपम आर्तायनिम अहं जाने यथातत्त्वेन भारत ॥ 24 ॥
वीर्यवांश च महातेजा महात्मा च विशेषतः कृती च चित्रयॊधी च समयुक्तॊ लाघवेन च ॥ 25 ॥
यादृग भीष्मस तथा दरॊणॊ यादृक कर्णश च संयुगे तादृशस तद विशिष्टॊ वा मद्रराजॊ मतॊ मम ॥ 26 ॥
युध्यमानस्य तस्याजौ चिन्तयन्न एव भारत यॊद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ॥ 27 ॥
शिखण्ड्यर्जुन भीमानां सात्वतस्य च भारत धृष्टद्युम्नस्य च तथा बलेनाभ्यधिकॊ रणे ॥ 28 ॥
मद्रराजॊ महाराज सिंहद्विरदविक्रमः विचरिष्यत्य अभीः काले कालः करुद्धः परजास्व इव ॥ 29 ॥
तस्याद्य न परपश्यामि परतियॊद्धारम आहवे तवाम ऋते पुरुषव्याघ्र शार्दूलसमविक्रमम ॥ 30 ॥
सदेवलॊके कृत्स्ने ऽसमिन नान्यस तवत्तः पुमान भवेत मद्रराजं रणे करुद्धं यॊ हन्यात कुरुनन्दन अहन्य अहनि युध्यन्तं कषॊभयन्तं बलं तव ॥ 31 ॥
तस्माज जहि रणे शल्यं मघवान इव शम्बरम अतिपश्चाद असौ वीरॊ धार्तराष्ट्रेण सत्कृतः ॥ 32 ॥
तवैव हि जयॊ नूनं हते मद्रेश्वरे युधि तस्मिन हते हतं सर्वं धार्तराष्ट्र बलं महत ॥ 33 ॥
एतच छरुत्वा महाराज वचनं मम सांप्रतम परत्युद्याहि रणे पार्थ मद्रराजं महाबलम जहि चैनं महाबाहॊ वासवॊ नमुचिं यथा ॥ 34 ॥
न चैव अत्र दया कार्या मातुलॊ ऽयं ममेति वै कषत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम ॥ 35 ॥
भीष्मद्रॊणार्णवं तीर्त्वा कर्ण पातालसंभवम मा निमज्जस्व सगणः शल्यम आसाद्य गॊष्पदम ॥ 36 ॥
यच च ते तपसॊ वीर्यं यच च कषात्रं बलं तव तद दर्शय रणे सर्वं जहि चैनं महारथम ॥ 37 ॥
एतावद उक्त्वा वचनं केशवः परवीरहा जगाम शिबिरं सायं पूज्यमानॊ ऽथ पाण्डवैः ॥ 38 ॥
केशवे तु तदा याते धर्मराजॊ युधिष्ठिरः विसृज्य सर्वान भरातॄंश च पाञ्चालान अथ सॊमकान सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ॥ 39 ॥
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास तथा कर्णस्य निधने हृष्टाः सुषुपुस तां निशां तदा ॥ 40 ॥
गतज्वरं महेष्वासं तीर्णपारं महारथम बभूव पाण्डवेयानां सैन्यं परमुदितं निशि सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष ॥ 41 ॥
शल्यपर्व · Shalya Parva
अध्याय 6
Reach this point to mark the section finished.
Continue to अध्याय 7