धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 64

  1. [स] वातिकानां सकाशात तु शरुत्वा दुर्यॊधनं हतम हतशिष्टास ततॊ राजन कौरवाणां महारथाः ॥ 1 ॥

  2. विनिर्भिन्नाः शितैर बाणैर गदा तॊमरशक्तिभिः अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः तवरिता जवनैर अश्वैर आयॊधनम उपागमन ॥ 2 ॥

  3. तत्रापश्यन महात्मानं धार्तराष्ट्रं निपातितम परभग्नं वायुवेगेन महाशालं यथा वने ॥ 3 ॥

  4. भूमै विवेष्टमानं तं रुधिरेण समुक्षितम महागजम इवारण्ये वयाधेन विनिपातितम ॥ 4 ॥

  5. विवर्तमानं बहुशॊ रुधिरौघपरिप्लुतम यदृच्छया निपतितं चक्रम आदित्यगॊचरम ॥ 5 ॥

  6. महावातसमुत्थेन संशुष्कम इव सागरम पूर्णचन्रम इव वयॊम्नि तुषारावृत मण्डलम ॥ 6 ॥

  7. रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम वृतं भूतगणैर घॊरैः करव्यादैश च समन्ततः यथा धनं लिप्समानैर भृत्यैर नृपतिसत्तमम ॥ 7 ॥

  8. भरुकुटी कृतवक्त्रान्तं करॊधाद उद्वृत्तचक्षुषम सामर्षं तं नरव्याघ्रं वयाघ्रं निपतितं यथा ॥ 8 ॥

  9. ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम मॊहम अभ्यागमन सर्वे कृपप्रभृतयॊ रथाः ॥ 9 ॥

  10. अवतीर्य रथेभ्यस तु राद्रवन राजसंनिधौ दुर्यॊधनं च संप्रेक्ष्य सर्वे भूमाव उपाविशन ॥ 10 ॥

  11. ततॊ दरौणिर महाराज बाष्पपूर्णेक्षणः शवसन उवाच भरतश्रेष्ठं सर्वलॊकेश्वरेश्वरम ॥ 11 ॥

  12. न नूनं विद्यते ऽसह्यं मानुष्ये किं चिद एव हि यत्र तवं पुरुषव्याघ्र शेषे पांसुषु रूषितः ॥ 12 ॥

  13. भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम कथम एकॊ ऽदय राजेन्द्र तिष्ठसे निर्जने वने ॥ 13 ॥

  14. दुःशासनं न पश्यामि नापि कर्णं महारथम नापि तान सुहृदः सर्वान किम इदं भरतर्षभ ॥ 14 ॥

  15. दुःखं नूनं कृतान्तस्य गतिं जञातुं कथं चन लॊकानां च भवान यत्र शेषे पांसुषु रूषितः ॥ 15 ॥

  16. एष मूर्धावसिक्तानाम अग्रे गत्वा परंतपः सतृणं गरसते पांसुं पश्य कालस्य पर्ययम ॥ 16 ॥

  17. कव ते तद अमलं छत्त्रं वयजनं कव च पार्थिव सा च ते महती सेना कव गता पार्थिवॊत्तम ॥ 17 ॥

  18. दुर्विज्ञेया गतिर नूनं कार्याणां कारणान्तरे यद वै लॊकगुरुर भूत्वा भवान एतां दशां गतः ॥ 18 ॥

  19. अध्रुवा सर्वमर्त्येषु धरुवं शरीरु पलक्ष्यते भवतॊ वयसनं दृष्ट्वा शक्र विस्पर्धिनॊ भृशम ॥ 19 ॥

  20. तस्य तद वचनं शरुत्वा दुःखितस्य विशेषतः उवाच राजन पुत्रस ते पराप्तकालम इदं वचः ॥ 20 ॥

  21. विमृज्य नेत्रे पाणिभ्यां शॊकजं बाष्पम उत्सृजन कृपादीन स तदा वीरान सर्वान एव नराधिपः ॥ 21 ॥

  22. ईदृशॊ मर्त्यधर्मॊ ऽयं धात्रा निर्दिष्ट उच्यते विनाशः सर्वभूतानां कालपर्याय कारितः ॥ 22 ॥

  23. सॊ ऽयं मां समनुप्राप्तः परत्यक्षं भवतां हि यः पृथिवीं पालयित्वाहम एतां निष्टाम उपागतः ॥ 23 ॥

  24. दिष्ट्या नाहं परावृत्तॊ युद्धे कस्यां चिद आपदि दिष्ट्याहं निहतः पापैश छलेनैव विशेषतः ॥ 24 ॥

  25. उत्साहश च कृतॊ नित्यं मया दिष्ट्या युयुत्सता दिष्ट्या चास्मि हतॊ युद्धे निहतज्ञातिबान्धवः ॥ 25 ॥

  26. दिष्ट्या च वॊ ऽहं पश्यामि मुक्तान अस्माञ जनक्षयात सवस्ति युक्तांश च कल्यांश च तन मे परियम अनुत्तमम ॥ 26 ॥

  27. मा भवन्तॊ ऽनुतप्यन्तां सौहृदान निधनेन मे यदि वेदाः परमाणं वॊ जिता लॊका मयाक्षयाः ॥ 27 ॥

  28. मन्यमानः परभावं च कृष्णस्यामित तेजसः तेन न चयावितश चाहं कषत्रधर्मात सवनुष्ठितात ॥ 28 ॥

  29. स मया समनुप्राप्तॊ नास्मि शॊच्यः कथं चन कृतं भवद्भिः सदृशम अनुरूपम इवात्मनः यतितं विजये नित्यं दैवं तु दुरतिक्रमम ॥ 29 ॥

  30. एतावद उक्त्वा वचनं बाष्पव्याकुललॊचनः तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलॊ भृशम ॥ 30 ॥

  31. तथा तु दृष्ट्वा राजानं बाष्पशॊकसमन्वितम दरौणिः करॊधेन जज्वाल यथा वह्निर जगत कषये ॥ 31 ॥

  32. स तु करॊधसमाविष्टः पाणौ पाणिं निपीड्य च बाष्पविह्वलया वाचा राजानम इदम अब्रवीत ॥ 32 ॥

  33. पिता मे निहतः कषुद्रौः सुनृशंसेन कर्मणा न तथा तेन तप्यामि यथा राजंस तवयाद्य वै ॥ 33 ॥

  34. शृणु चेदं वचॊ मह्यं सत्येन वदतः परभॊ इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ॥ 34 ॥

  35. अद्याहं सर्वपाञ्चालान वासुदेवस्य पश्यतः सर्वॊपायैर हि नेष्यामि परेतराजनिवेशनम अनुज्ञां तु महाराज भवान मे दातुम अर्हति ॥ 35 ॥

  36. इति शरुत्वा तु वचनं दरॊणपुत्रस्य कौरवः मनसः परीतिजननं कृपं वचनम अब्रवीत आचार्य शीघ्रं कलशं जलपूर्णं समानय ॥ 36 ॥

  37. स तद वचनम आज्ञाय राज्ञॊ बराह्मणसत्तमः कलशं पूर्णम आदाय राज्ञॊ ऽनतिकम उपागमत ॥ 37 ॥

  38. तम अब्रवीन महाराज पुत्रस तव विशां पते ममाज्ञया दविजश्रेष्ठ दरॊणपुत्रॊ ऽभिषिच्यताम सेनापत्येन भद्रं ते मम चेद इच्छसि परियम ॥ 38 ॥

  39. राज्ञॊ नियॊगाद यॊद्धव्यं बराह्मणेन विशेषतः वर्तता कषत्रधर्मेण हय एवं धर्मविदॊ विदुः ॥ 39 ॥

  40. राज्ञस तु वचनं शरुत्वा कृपः शारद्वतस ततः दरौणिं राज्ञॊ नियॊगेन सेनापत्ये ऽभयषेचयत ॥ 40 ॥

  41. सॊ ऽभिषिक्तॊ महाराज परिष्वज्य नृपॊत्तमम परययौ सिंहनादेन दिशः सर्वा विनादयन ॥ 41 ॥

  42. दुर्यॊधनॊ ऽपि राजेन्द्र शॊणितौघपरिप्लुतः तां निशां परतिपेदे ऽथ सर्वभूतभयावहाम ॥ 42 ॥

  43. अपक्रम्य तु ते तूर्णं तस्माद आयॊधनान नृप शॊकसंविग्नमनसश चिन्ता धयानपराभवन ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 1

Previous: अध्याय 63