धर्मDharmic Data

सौप्तिकपर्व · Sauptika Parva

अध्याय 1

  1. [सम्जय] ततस ते सहिता वीराः परयाता दक्षिणामुखाः उपास्तमय वेलायां शिबिराभ्याशम आगताः ॥ 1 ॥

  2. विमुच्य वाहांस तवरिता भीताः समभवंस तदा गहनं देशम आसाद्य परच्छन्ना नयविशन्त ते ॥ 2 ॥

  3. सेनानिवेशम अभितॊ नातिदूरम अवस्थिताः निवृत्ता निशितैः शस्त्रैः समन्तात कषतविक्षताः ॥ 3 ॥

  4. दीर्घम उष्णं च निःश्वस्य पाण्डवान अन्वचिन्तयन शरुत्वा च निनदं घॊरं पाण्डवानां जयैषिणाम ॥ 4 ॥

  5. अनुसार भराद भीताः पराङ्मुखा पराद्रवन पुनः ते मुहूर्तं ततॊ गत्वा शरान्तवाहाः पिपासिताः ॥ 5 ॥

  6. नामृष्यन्त महेष्वासाः करॊधामर्षवशं गताः राज्ञॊ वधेन संतप्ता मुहूर्तं समवस्थिताः ॥ 6 ॥

  7. [धृ] अश्रद्धेयम इदं कर्मकृतं भीमेन संजय यत स नागायुत पराणः पुत्रॊ मम निपातितः ॥ 7 ॥

  8. अवध्यः सर्वभूतानां वज्रसंहननॊ युवा पाण्डवैः समरे पुत्रॊ निहतॊ मम संजय ॥ 8 ॥

  9. न दिष्टम अभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः यत समेत्य रणे पार्थैः पुत्रॊ मम निपातितः ॥ 9 ॥

  10. अद्रिसारमयं नूनं हृदयं मम संजय हतं पुत्रशतं शरुत्वा यन न दीर्णं सहस्रधा ॥ 10 ॥

  11. कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति न हय अहं पाण्डवेयस्य विषये वस्तुम उत्सहे ॥ 11 ॥

  12. कथं राज्ञः पिता भूत्वा सवयं राजा च संजय परेष्यभूतः परवर्तेयं पाण्डवेयस्य शासनात ॥ 12 ॥

  13. आज्ञाप्य पृथिवीं सर्वां सथित्वा मूर्ध्नि च संजय कथम अद्य भविष्यामि परेष्यभूतॊ दुरन्त कृत ॥ 13 ॥

  14. कथं भीमस्य वाक्यानि शरॊतुं शक्ष्यामि संजय येन पुत्रशतं पूर्णम एकेन निहतं मम ॥ 14 ॥

  15. कृतं सत्यं वचस तस्य विदुरस्य महात्मनः अकुर्वता वचस तेन मम पुत्रेण संजय ॥ 15 ॥

  16. अधर्मेण हते तात पुत्रे दुर्यॊधने मम कृतवर्मा कृपॊ दरौणिः किम अकुर्वत संजय ॥ 16 ॥

  17. [स] गत्वा तु तावका राजन नातिदूरम अवस्थिताः अपश्यन्त वनं घॊरं नानाद्रुमलताकुलम ॥ 17 ॥

  18. ते मुहूर्तं तु विश्रम्य लब्धतॊयैर हयॊत्तमैः सूर्यास्तमय वेलायाम आसेदुः सुमहद वनम ॥ 18 ॥

  19. नानामृगगणैर जुष्टं नानापक्षिसमाकुलम नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम ॥ 19 ॥

  20. नाना तॊयसमाकीर्णं तडागैर उपशॊभितम पद्मिनी शतसंछन्नं नीलॊत्पलसमायुतम ॥ 20 ॥

  21. परविश्य तद वनं घॊरं वीक्षमाणाः समन्ततः शाखा सहस्रसंछन्नं नयग्रॊधं ददृशुस ततः ॥ 21 ॥

  22. उपेत्य तु तदा राजन नयग्रॊधं ते महारथाः ददृशुर दविपदां शरेष्ठाः शरेष्ठं तं वै वनस्पतिम ॥ 22 ॥

  23. ते ऽवतीर्य रथेभ्यस तु विप्रमुच्य च वाजिनः उपस्पृश्य यथान्यायं संध्याम अन्वासत परभॊ ॥ 23 ॥

  24. ततॊ ऽसतं पर्वतश्रेष्ठम अनुप्राप्ते दिवाकरे सर्वस्य जगतॊ धात्री शर्वरी समपद्यत ॥ 24 ॥

  25. गरहनक्षत्रताराभिः परकीर्णाभिर अलंकृतम नभॊऽंशुकम इवाभाति परेक्षणीयं समन्ततः ॥ 25 ॥

  26. ईषच चापि परवल्गन्ति ये सत्त्वा रात्रिचारिणः दिवा चराश च ये सत्त्वास ते निद्रावशम आगताः ॥ 26 ॥

  27. रात्रिंचराणां सत्त्वानां निनादॊ ऽभूत सुदारुणः करव्यादाश च परमुदिता घॊरा पराप्ता च शर्वरी ॥ 27 ॥

  28. तस्मिन रात्रिमुखे घॊरे दुःखशॊकसमन्विताः कृतवर्मा कृपॊ दरौणिर उपॊपविविशुः समम ॥ 28 ॥

  29. तत्रॊपविष्टाः शॊचन्तॊ नयग्रॊधस्य समन्ततः तम एवार्थम अतिक्रान्तं कुरुपाण्डवयॊः कषयम ॥ 29 ॥

  30. निद्रया च परीताङ्गा निषेदुर धरणीतले शरमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥ 30 ॥

  31. ततॊ निद्रावशं पराप्तौ कृप भॊजौ महारथौ सुखॊचिताव अदुःखार्हौ निषण्णौ धरणीतले तौ तु सुप्तौ महाराज शरमशॊकसमन्वितौ ॥ 31 ॥

  32. करॊधामर्षवशं पराप्तॊ दरॊणपुत्रस तु भारत नैव सम स जगामाथ निद्रां सर्प इव शवसन ॥ 32 ॥

  33. न लेभे स तु निद्रां वै दह्यमानॊ ऽतिमन्युना वीक्षां चक्रे महाबाहुस तद वनं घॊरदर्शनम ॥ 33 ॥

  34. वीक्षमाणॊ वनॊद्देशं नाना सत्त्वैर निषेवितम अपश्यत महाबाहुर नयग्रॊधं वायसायुतम ॥ 34 ॥

  35. तत्र काकसहस्राणि तां निशां पर्यणामयन सुखं सवपन्तः कौरव्य पृथक्पृथग अपाश्रयाः ॥ 35 ॥

  36. सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः सॊ ऽपश्यत सहसायान्तम उलूकं घॊरदर्शनम ॥ 36 ॥

  37. महास्वनं महाकायं हर्यक्षं बभ्रु पिङ्गलम सुदीर्घघॊणा नखरं सुपर्णम इव वेगिनम ॥ 37 ॥

  38. सॊ ऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः नयग्रॊधस्य ततः शाखां परार्थयाम आस भारत ॥ 38 ॥

  39. संनिपत्य तु शाखायां नयग्रॊधस्य विहंगमः सुप्ताञ जघान सुबहून वायसान वायसान्तकः ॥ 39 ॥

  40. केषां चिद अच्छिनत पक्षाञ शिरांसि च चकर्त ह चरणांश चैव केषां चिद बभञ्ज चरणायुधः ॥ 40 ॥

  41. कषणेनाहन सबलवान ये ऽसय दृष्टिपथे सथिताः तेषां शरीरावयवैः शरीरैश च विशां पते नयग्रॊधमण्डलं सर्वं संछन्नं सर्वतॊ ऽभवत ॥ 41 ॥

  42. तांस तु हत्वा ततः काकान कौशिकॊ मुदितॊ ऽभवत परतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥ 42 ॥

  43. तद दृष्ट्वा सॊपधं कर्म कौशिकेन कृतं निशि तद्भावकृतसंकल्पॊ दरौणिर एकॊ वयचिन्तयत ॥ 43 ॥

  44. उपदेशः कृतॊ ऽनेन पक्षिणा मम संयुगे शत्रुणां कषपणे युक्तः पराप्तकालश च मे मतः ॥ 44 ॥

  45. नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः बलवन्तः कृतॊत्साहा लब्धलक्षाः परहारिणः राज्ञः सकाशे तेषां च परतिज्ञातॊ वधॊ मया ॥ 45 ॥

  46. पतंगाग्निसमां वृत्तिम आस्थायात्म विनाशिनीम नयायतॊ युध्यमानस्य पराणत्यागॊ न संशयः छद्मना तु भवेत सिद्धिः शत्रूणां च कषयॊ महान ॥ 46 ॥

  47. तत्र संशयिताद अर्थाद यॊ ऽरथॊ निःसंशयॊ भवेत तं जना बहु मन्यन्ते ये ऽरथशास्त्रविशारदाः ॥ 47 ॥

  48. यच चाप्य अत्र भवेद वाच्यं गर्हितं लॊकनिन्दितम कर्तव्यं तन मनुष्येण कषत्रधर्मेण वर्तता ॥ 48 ॥

  49. निन्दितानि च सर्वाणि कुत्सितानि पदे पदे सॊपधानि कृतान्य एव पाण्डवैर अकृतात्मभिः ॥ 49 ॥

  50. अस्मिन्न अर्थे पुरा गीतौ शरूयेते धर्मचिन्तकैः शलॊकौ नयायम अवेक्षद्भिस तत्त्वार्थं तत्त्वदर्शिभिः ॥ 50 ॥

  51. परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः परस्थाने च परवेशे च परहर्तव्यं रिपॊर बलम ॥ 51 ॥

  52. निद्रार्तम अर्धरात्रे च तथा नष्टप्रणायकम भिन्नयॊधं बलं यच च दविधा युक्तं च यद भवेत ॥ 52 ॥

  53. इत्य एवं निश्चयं चक्रे सुप्तानां युधि मारणे पाण्डूनां सह पाञ्चालैर दरॊणपुत्रः परतापवान ॥ 53 ॥

  54. स करूरां मतिम आस्थाय विनिश्चित्य मुहुर मुहुः सुप्तौ पराबॊधयत तौ तु मातुलं भॊजम एव च ॥ 54 ॥

  55. नॊत्तरं परतिपेदे च तत्र युक्तं हरिया वृतः स मुहूर्तम इव धयात्वा बाष्पविह्वलम अब्रवीत ॥ 55 ॥

  56. हतॊ दुर्यॊधनॊ राजा एकवीरॊ महाबलः यस्यार्थे वैरम अस्माभिर आसक्तं पाण्डवैः सह ॥ 56 ॥

  57. एकाकी बहुभिः कषुद्रैर आहवे शुद्धविक्रमः पातितॊ भीमसेनेन एकादश चमूपतिः ॥ 57 ॥

  58. वृकॊदरेण कषुद्रेण सुनृशंसम इदं कृतम मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ॥ 58 ॥

  59. विनर्दन्ति सम पाञ्चालाः कष्वेडन्ति च हसन्ति च धमन्ति शङ्खाञ शतशॊ हृष्टा घनन्ति च दुन्दुभीन ॥ 59 ॥

  60. वादित्रघॊषस तुमुलॊ विमिश्रः शङ्खनिस्वनैः अनिलेनेरितॊ घॊरॊ दिशः पूरयतीव हि ॥ 60 ॥

  61. अश्वानां हेषमाणानां गजानां चैव बृंहताम सिंहनादश च शूराणां शरूयते सुमहान अयम ॥ 61 ॥

  62. दिशं पराचीं समाश्रित्य हृष्टानां गर्जतां भृशम रथनेमि सवनाश चैव शरूयन्ते लॊमहर्षणाः ॥ 62 ॥

  63. पाण्डवैर धार्तराष्ट्राणां यद इदं कदनं कृतम वयम एव तरयः शिष्टास तस्मिन महति वैशसे ॥ 63 ॥

  64. के चिन नागशतप्राणाः के चित सर्वास्त्रकॊविदाः निहताः पाण्डवेयैः सम मन्ये कालस्य पर्ययम ॥ 64 ॥

  65. एवम एतेन भाव्यं हि नूनं कार्येण तत्त्वतः यथा हय अस्येदृशी निष्ठा कृते कार्ये ऽपि दुष्करे ॥ 65 ॥

  66. भवतॊस तु यदि परज्ञा न मॊहाद अपचीयते वयापन्ने ऽसमिन महत्य अर्थे यन नः शरेयस तद उच्यताम ॥ 66 ॥

Reach this point to mark the section finished.

Continue to अध्याय 2

Previous: अध्याय 64