धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 63

  1. [धृ] अधिष्ठितः पदा मूर्ध्नि भग्नसक्थॊ महीं गतः शौटीरमानी पुत्रॊ मे कान्य अभाषत संजय ॥ 1 ॥

  2. अत्यर्थं कॊपनॊ राजा जातवैरश च पाण्डुषु वयसनं परमं पराप्तः किम आह परमाहवे ॥ 2 ॥

  3. [स] शृणु राजन परवक्ष्यामि यथावृत्तं नराधिप राज्ञा यद उक्तं भग्नेन तस्मिन वयसन आगते ॥ 3 ॥

  4. भग्नसक्थॊ नृपॊ राजन पांसुना सॊ ऽवगुण्ठितः यमयन पूर्धजांस तत्र वीक्ष्य चैव दिशॊ दश ॥ 4 ॥

  5. केशान नियम्य यत्नेन निःश्वसन्न उरगॊ यथा संरम्भाश्रु परीताभ्यां नेत्राभ्याम अभिवीक्ष्य माम ॥ 5 ॥

  6. बाहू धरण्यां निष्पिष्य मुहुर मत्त इव दविपः परकीर्णान मूर्धजान धुन्वन दन्तैर दन्तान उपस्पृशन गर्हयन पाण्डवं जयेष्ठं निःश्वस्येदम अथाब्रवीत ॥ 6 ॥

  7. भीष्मे शांतनवे नाथे कर्णे चास्त्रभृतां वरे गौतमे शकुनौ चापि दरॊणे चास्त्रभृतां वरे ॥ 7 ॥

  8. अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि इमाम अवस्थां पराप्तॊ ऽसमि कालॊ हि दुरित करमः ॥ 8 ॥

  9. एकादश चमू भर्ता सॊ ऽहम एतां दशां गतः कालं पराप्य महाबाहॊ न कश चिद अतिवर्तते ॥ 9 ॥

  10. आख्यातव्यं मदीयानां ये ऽसमिञ जीवन्ति संगरे यथाहं भीमसेनेन वयुत्क्रम्य समयं हतः ॥ 10 ॥

  11. बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः भूरिश्रवसि कर्णे च भीष्मे दरॊणे च शरीमति ॥ 11 ॥

  12. इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः ॥ 12 ॥

  13. का परीतिः सत्त्वयुक्तस्य कृत्वॊपधि कृतं जयम कॊ वा समयभेत्तारं बुधः संमन्तुम अर्हति ॥ 13 ॥

  14. अधर्मेण जयं लब्ध्वा कॊ नु हृष्येत पण्डितः यथा संहृष्यते पापः पाण्डुपुत्रॊ वृकॊदरः ॥ 14 ॥

  15. किं नु चित्रम अतस तव अद्य भग्नसक्थस्य यन मम करुद्धेन भीमसेनेन पादेन मृदितं शिरः ॥ 15 ॥

  16. परतपन्तं शरिया जुष्टं वर्तमानं च बन्धुषु एवं कुर्यान नरॊ यॊ हि स वै संजय पूजितः ॥ 16 ॥

  17. अभिज्ञौ कषत्रधर्मस्य मम माता पिता च मे तौ हि संजय दुःखार्तौ विज्ञाप्यौ वचनान मम ॥ 17 ॥

  18. इष्टं भृत्या भृताः सम्यग भूः परशास्ता ससागरा मूर्ध्नि सथितम अमित्राणां जीवताम एव संजय ॥ 18 ॥

  19. दत्ता दाया यथाशक्ति मित्राणां च परियं कृतम अमित्रा बाधिताः सर्वे कॊ नु सवन्ततरॊ मया ॥ 19 ॥

  20. यातानि परराष्ट्राणि नृपा भुक्ताश च दासवत परियेभ्यः परकृतं साधु कॊ नु सवन्ततरॊ मया ॥ 20 ॥

  21. मानिता बान्धवाः सर्वे मान्यः संपूजितॊ जनः तरितयं सेवितं सर्वं कॊ नु सवन्ततरॊ मया ॥ 21 ॥

  22. आज्ञप्तं नृप मुख्येषु मानः पराप्तः सुदुर्लभः आजानेयैस तथा यातं कॊ नु सवन्ततरॊ मया ॥ 22 ॥

  23. अधीतं विधिवद दत्तं पराप्तम आयुर निरामयम सवधर्मेण जिता लॊक्काः कॊ नु सवन्ततरॊ मया ॥ 23 ॥

  24. दिष्ट्या नाहं जितः संख्ये परान परेष्यवद आश्रितः दिष्ट्या मे विपुला लक्ष्मीर मृते तव अन्यं गता विभॊ ॥ 24 ॥

  25. यद इष्टं कषत्रबन्धूनां सवधर्मम अनुतिष्ठताम निधनं तन मया पराप्तं कॊ नु सवन्ततरॊ मया ॥ 25 ॥

  26. दिष्ट्या नाहं परावृत्तॊ वैरात पराकृतवज जितः दिष्ट्या न विमतिं कां चिद भजित्वा तु पराजितः ॥ 26 ॥

  27. सुप्तं वाथ परमत्तं वा यथा हन्याद विषेण वा एवं वयुत्क्रान्त धर्मेण वयुत्क्रम्य समयं हतः ॥ 27 ॥

  28. अश्वत्थामा महाभागः कृतवर्मा च सात्वतः कृपः शारद्वतश चैव वक्तव्या वचनान मम ॥ 28 ॥

  29. अधर्मेण परवृत्तानां पाण्डवानाम अनेकशः विश्वासं समयघ्नानां न यूयं गन्तुम अर्हथ ॥ 29 ॥

  30. वातिकांश चाब्रवीद राजा पुत्रस ते सत्यविक्रमः अधर्माद भीमसेनेन निहतॊ ऽहं यथा रणे ॥ 30 ॥

  31. सॊ ऽहं दरॊणं सवर्गगतं शल्य कर्णाव उभौ तथा वृषसेनं महावीर्यं शकुनिं चापि सौबलम ॥ 31 ॥

  32. जलसंधं महावीर्यं भगदत्तं च पार्थिवम सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम ॥ 32 ॥

  33. दुःशासन पुरॊगांश च भरातॄन आत्मसमांस तथा दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजाव उभौ ॥ 33 ॥

  34. एतांश चान्यांश च सुबहून मदीयांश च सहस्रशः पृष्ठतॊ ऽनुगमिष्यामि सार्थहीन इवाध्वगः ॥ 34 ॥

  35. कथं भरातॄन हताञ शरुत्वा भर्तारं च सवसा मम रॊरूयमाणा दुःखार्ता दुःशला सा भविष्यति ॥ 35 ॥

  36. सनुषाभिः परसुणाभिश च वृद्धॊ राजा पिता मम गान्धारी सहितः करॊशन कां गतिं परतिपत्स्यते ॥ 36 ॥

  37. नूनं लक्ष्मण मातापि हतपुत्रा हतेश्वरा विनाशं यास्यति कषिप्रं कल्याणी पृथुलॊचना ॥ 37 ॥

  38. यदि जानाति चार्वाकः परिव्राड वाग विशारदः करिष्यति महाभागॊ धरुवं सॊ ऽपचितिं मम ॥ 38 ॥

  39. समन्तपञ्चके पुण्ये तरिषु लॊकेषु विश्रुते अहं निधनम आसाद्य लॊकान पराप्स्यामि शाश्वतान ॥ 39 ॥

  40. ततॊ जनसहस्राणि बाष्पपूर्णानि मारिष परलापं नृपतेः शरुत्वा विद्रवन्ति दिशॊ दश ॥ 40 ॥

  41. ससागरवना घॊरा पृथिवी सचराचरा चचालाथ सनिर्ह्रादा दिशश चैवाविलाभवन ॥ 41 ॥

  42. ते दरॊणपुत्रम आसाद्य यथावृत्तं नयवेदयन वयवहारं गदायुद्धे पार्थिवस्य च घातनम ॥ 42 ॥

  43. तद आख्याय ततः सर्वे दरॊणपुत्रस्य भारत धयात्वा च सुचिरं कालं जग्मुर आर्ता यथागतम ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 64

Previous: अध्याय 62