[ज] किमर्थं राजशार्दूलॊ धर्मराजॊ युधिष्ठिरः गान्धार्याः परेषयाम आस वासुदेवं परंतपम ॥ 1 ॥
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान परति न च तं लब्धवान कामं ततॊ युद्धम अभूद इदम ॥ 2 ॥
निहतेषु तु यॊधेषु हते दुर्यॊधने तथा पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ॥ 3 ॥
विद्रुते शिबिरे शून्ये पराप्ते यशसि चॊत्तमे किं नु तत कारणं बरह्मन येन कृष्णॊ गतः पुनः ॥ 4 ॥
न च तत कारणं बरह्मन्न अल्पं वै परतिभाति मे यत्रागमद अमेयात्मा सवयम एव जनार्दनः ॥ 5 ॥
तत्त्वतॊ वै समाचक्ष्व सर्वम अध्वर्यु सत्तम यच चात्र कारणं बरह्मन कार्यस्यास्य विनिश्चये ॥ 6 ॥
[वै] तवद युक्तॊ ऽयम अनुप्रश्नॊ यन मां पृच्छसि पार्थिव तत ते ऽहं संप्रवक्ष्यामि यथावद भरतर्षभ ॥ 7 ॥
हतं दुर्यॊधनं दृष्ट्वा भिम सेनेन संयुगे वयुत्क्रम्य समयं राजन धार्तराष्ट्रं महाबलम ॥ 8 ॥
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत युधिष्ठिरं महाराज महद भयम अथाविशत ॥ 9 ॥
चिन्तयानॊ महाभागां गान्धारीं तपसान्विताम घॊरेण तपसा युक्तां तरैलॊक्यम अपि सा दहेत ॥ 10 ॥
तस्य चिन्तयमानस्य बुद्धिः समभवत तदा गान्धार्याः करॊधदीप्तायाः पूर्वं परशमनं भवेत ॥ 11 ॥
सा हि पुत्रवधं शरुत्वा कृतम अस्माभिर ईदृशम मानसेनाग्निना करुद्धा भस्मसान नः करिष्यति ॥ 12 ॥
कथं दुःखम इदं तीव्रं गान्धारी रप्सहिष्यति शरुत्वा विनिहतं पुत्रं छलेनाजिह्म यॊद्निनम ॥ 13 ॥
एवं विचिन्त्य बहुधा भयशॊकसमन्वितः वासुदेवम इदं वाक्यं धर्मराजॊ ऽभयभाषत ॥ 14 ॥
तव परसादाद गॊविन्द राज्यं निहतकण्टकम अप्राप्यं मनसापीह पराप्तम अस्माभिर अच्युत ॥ 15 ॥
परत्यक्षं मे महाबाहॊ संग्रामे लॊमहर्षणे विमर्दः सुमहान पराप्तस तवया यादवनन्दन ॥ 16 ॥
तवया देवासुरे युद्धे वधार्थम अमर दविषाम यथा साह्यं पुरा दत्तं हताश च विबुधद्विषः ॥ 17 ॥
साह्यं तथा महाबाहॊ दत्तम अस्माकम अच्युत सारथ्येन च वार्ष्णेय भवता यद धृता वयम ॥ 18 ॥
यदि न तवं भवेन नाथः फल्गुनस्य महारणे कथं शक्यॊ रणे जेतुं भवेद एष बलार्णवः ॥ 19 ॥
गदाप्रहारा विपुलाः परिघैश चापि ताडनम शक्तिभिर भिण्डिपालैश च तॊमरैः सपरश्वधैः ॥ 20 ॥
वाचश च परुषाः पराप्तास तवया हय अस्मद्धितैषिणा ताश च ते सफलाः सर्वा हते दुर्यॊधने ऽचयुत ॥ 21 ॥
गान्धार्या हि महाबाहॊ करॊधं बुध्यस्व माधव सा हि नित्यं महाभागा तपसॊग्रेण कर्शिता ॥ 22 ॥
पुत्रपौत्र वधं शरुत्वा धरुवं नः संप्रधक्ष्यति तस्याः परसादनं वीर पराप्तकालं मतं मम ॥ 23 ॥
कश च तां करॊधदीप्ताक्षीं पुत्रव्यसनकर्शिताम वीक्षितुं पुरुषः शक्तस तवाम ऋते पुरुषॊत्तम ॥ 24 ॥
तत्र मे गमनं पराप्तं रॊचते तव माधव गान्धार्याः करॊधदीप्तायाः परशमार्थम अरिंदम ॥ 25 ॥
तवं हि कर्ता विकर्ता च लॊकानां परभवाप्ययः हेतुकारण संयुक्तैर वाक्यैः कालसमीरितैः ॥ 26 ॥
कषिप्रम एव महाप्राज्ञ गान्धारीं शमयिष्यसि पितामहश च भगवान कृष्णस तत्र भविष्यति ॥ 27 ॥
सर्वथा ते महाबाहॊ गान्धार्याः करॊधनाशनम कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा ॥ 28 ॥
धर्मराजस्य वचनं शरुत्वा यदुकुलॊद्वहः आमन्त्र्य दारुकं पराह रथः सज्जॊ विधीयताम ॥ 29 ॥
केशवस्य वचः शरुत्वा तवरमाणॊ ऽथ दारुकः नयवेदयद रथं सज्जं केशवाय महात्मने ॥ 30 ॥
तं रथं यादव शरेष्ठः समारुह्य परंतपः जगाम हास्तिनपुरं तवरितः केशवॊ विभुः ॥ 31 ॥
तथ परायान महाराज माधवॊ भगवान रथी नागसाह्वयम आसाद्य परविवेश च वीर्यवान ॥ 32 ॥
परविश्य नगरं वीरॊ रथघॊषेण नादयन विदितॊ धृतराष्ट्रस्य सॊ ऽवतीर्य रथॊत्तमात ॥ 33 ॥
अभ्यगच्छद अदीनात्मा धृतराष्ट्र निवेशनम पूर्वं चाभिगतं तत्र सॊ ऽपश्यद ऋषिसत्तमम ॥ 34 ॥
पादौ परपीड्य कृष्णस्य राज्ञश चापि जनार्दनः अभ्यवादयद अव्यग्रॊ गान्धारीं चापि केशवः ॥ 35 ॥
ततस तु यादव शरेष्ठॊ धृतराष्ट्रम अधॊक्षजः पाणिम आलम्ब्य राज्ञः स सस्वनं पररुरॊद ह ॥ 36 ॥
स मुहूर्तम इवॊत्सृज्य बाष्पं शॊकसमुद्भवम परक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि उवाच परश्रितं वाक्यं धृतराष्ट्रम अरिंदमः ॥ 37 ॥
न ते ऽसत्य अविदितं किं चिद भूतभव्यस्य भारत कालस्य च यथावृत्तं तत ते सुविदितं परभॊ ॥ 38 ॥
यद इदं पाण्डवैः सर्वैस तव चित्तानुरॊधिभिः कथं कुलक्षयॊ न सयात तथा कषत्रस्य भारत ॥ 39 ॥
भरातृभिः समयं कृत्वा कषान्तवान धर्मवत्सलः दयूतच छल जितैः शक्तैर वनवासॊ ऽभयुपागतः ॥ 40 ॥
अज्ञातवास चर्या च नाना वेश समावृतैः अन्ये च बहवः कलेशास तव अशक्तैर इव नित्यदा ॥ 41 ॥
मया च सवयम आगम्य युद्धकाल उपस्थिते सर्वलॊकस्य सांनिध्ये गरामांस तवं पञ्च याचितः ॥ 42 ॥
तवया कालॊपसृष्टेन लॊभतॊ नापवर्जिताः तवापराधान नृपते सर्वं कषत्रं कषयं गतम ॥ 43 ॥
भीष्मेण सॊमदत्तेन बाह्लिकेन कृपेण च दरॊणेन च सपुत्रेण विदुरेण च धीमता याचितस तवं शमं नित्यं न च तत कृतवान असि ॥ 44 ॥
कालॊपहतचित्तॊ हि सर्वॊ मुह्यति भारत यथा मूढॊ भवान पूर्वम अस्मिन्न अर्थे समुद्यते ॥ 45 ॥
किम अन्यत कालयॊगाद धि दिष्टम एव परायणम मा च दॊषं महाराज पाण्डवेषु निवेशय ॥ 46 ॥
अल्पॊ ऽपय अतिक्रमॊ नास्ति पाण्डवानां महात्मनाम धर्मतॊ नयायतश चैव सनेहतश च परंतप ॥ 47 ॥
एतत सर्वं तु विज्ञाय आत्मदॊषकृतं फलम असूयां पाण्डुपुत्रेषु न भवान कर्तुम अर्हति ॥ 48 ॥
कुलं वंशश च पिण्डश च यच च पुत्रकृतं फलम गान्धार्यास तव चैवाद्य पाण्डवेषु परतिष्ठितम ॥ 49 ॥
एतत सर्वम अनुध्यात्वा आत्मनश च वयतिक्रमम शिवेन पाण्डवान धयाहि नमस ते भरतर्षभ ॥ 50 ॥
जानासि च महाबाहॊ धर्मराजस्य या तवयि भक्तिर भरतशार्दूल सनेहश चापि सवभावतः ॥ 51 ॥
एतच च कदनं कृत्वा शत्रूणाम अपकारिणाम दह्यते सम दिवारात्रं न च शर्माधिगच्छति ॥ 52 ॥
तवां चैव नरशार्दूल गान्धारीं च यशस्विनीम स शॊचन भरतश्रेष्ठ न शान्तिम अधिगच्छति ॥ 53 ॥
हरिया च परयाविष्टॊ भवन्तं नाधिगच्छति पुत्रशॊकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम ॥ 54 ॥
एवम उक्त्वा महाराज धृतराष्ट्रं यदूत्तमः उवाच परमं वाक्यं गान्धारीं शॊककर्शिताम ॥ 55 ॥
सौबलेयि निबॊध तवं यत तवां वक्ष्यामि सुव्रते तवत्समा नास्ति लॊके ऽसमिन्न अद्य सीमन्तिनी शुभे ॥ 56 ॥
जानामि च यथा राज्ञि सभाय्यां मम संनिधौ धर्मार्थसहितं वाक्यम उभयॊः पक्षयॊर हितम उक्तवत्य असि कल्याणि न च ते तनयैः शरुतम ॥ 57 ॥
दुर्यॊधनस तवया चॊक्तॊ जयार्थी परुषं वचः शृणु मूढ वचॊ मह्यं यतॊ धर्मस ततॊ जयः ॥ 58 ॥
तद इदं समनुप्राप्तं तव वाक्यं नृपात्मजे एवं विदित्वा कल्याणि मा सम शॊके मनः कृथाः पाण्डवानां विनाशाय मा ते बुद्धिः कदा चन ॥ 59 ॥
शक्ता चासि महाभागे पृथिवीं सचराचराम चक्षुषा करॊधदीप्तेन निर्दग्धुं तपसॊ बलात ॥ 60 ॥
वासुदेव वचः शरुत्वा गान्धारी वाक्यम अब्रवीत एवम एतन महाबाहॊ यथा वदसि केशव ॥ 61 ॥
आधिभिर दह्यमानाया मतिः संचलिता मम सा मे वयवस्थिता शरुत्वा तव वयाक्यं जनार्दन ॥ 62 ॥
राज्ञस तव अन्धस्य वृद्धस्य हतपुत्रस्य केशव तवं गतिः सह तैर वीरैः पाण्डवैर दविपदां वर ॥ 63 ॥
एतावद उक्त्वा वचनं मुखं परच्छाद्य वाससा पुत्रशॊकाभिसंतप्ता गान्धारी पररुरॊद ह ॥ 64 ॥
तत एनां महाबाहुः केशवः शॊककर्शिताम हेतुकारण संयुक्तैर वाक्यैर आश्वासयत परभुः ॥ 65 ॥
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः दरौणेः संकल्पितं भावम अन्वबुध्यत केशवः ॥ 66 ॥
ततस तवरित उत्थाय पादौ मूर्ध्ना परणम्य च दवैपायनस्य राजेन्द्र तथ कौरवम अब्रवीत ॥ 67 ॥
आपृच्छे तवां कुरुश्रेष्ठ मा च शॊके मनः कृथाः दरौणेः पापॊ ऽसत्य अभिप्रायस तेनास्मि सहसॊत्थितः पाण्डवानां वधे रात्रौ बुद्धिस तेन परदर्शिता ॥ 68 ॥
एतच छरुत्वा तु वचनं गान्धार्या सहितॊ ऽबरवीत धृतराष्ट्रॊ महाबाहुः केशवं केशि सूदनम ॥ 69 ॥
शीघ्रं गच्छ महाबाहॊ पाण्डवान परिपालय भूयस तवया समेष्यामि कषिप्रम एव जनार्दन परायात ततस तु तवरितॊ दारुकेण सहाच्युतः ॥ 70 ॥
वासुदेवे गते राजन घृतराष्ट्रं जनेश्वरम आश्वासयद अमेयात्मा वयासॊ लॊकनमस्कृतः ॥ 71 ॥
वासुदेवॊ ऽपि धर्मात्मा कृतकृत्यॊ जगाम ह शिबिरं हास्तिनपुराद दिदृक्षुः पाण्डवान नृप ॥ 72 ॥
आगम्य शिबिरं रत्रौ सॊ ऽभयगच्छत पाण्डवान तच च तेभ्यः समाख्याय सहितस तैः समाविशत ॥ 73 ॥
शल्यपर्व · Shalya Parva
अध्याय 62
Reach this point to mark the section finished.
Continue to अध्याय 63