धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 61

  1. [स] ततस ते परययुः सर्वे निवासाय महीक्षितः शङ्खान परध्मापयन्तॊ वै हृष्टाः परिघबाहवः ॥ 1 ॥

  2. पाण्डवान गच्छतश चापि शिबिरं नॊ विशां पते महेष्वासॊ ऽनवगात पश्चाद युयुत्सुः सात्यकिस तथा ॥ 2 ॥

  3. धृष्टद्युम्नः शिखण्डी च दरौपदेयाश च सर्वशः सर्वे चान्ये महेष्वासा ययुः सवशिबिराण्य उत ॥ 3 ॥

  4. ततस ते पराविशन पार्था हात तविट्कं हतेश्वरम दुर्यॊधनस्य शिबिरं रङ्गवद विसृते जने ॥ 4 ॥

  5. गद उत्सवं पुरम इव हृतनागम इव हरदम सत्रीवर्षवरभूयिष्ठं वृद्धामात्यैर अधिष्ठिरम ॥ 5 ॥

  6. तत्रैतान पर्युपातिष्ठन दुर्यॊधन पुरःसराः कृताञ्जलिपुटा राजन काषायमलिनाम्बराः ॥ 6 ॥

  7. शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः अवतेरुर महाराज रथेभ्यॊ रथसत्तमाः ॥ 7 ॥

  8. ततॊ गाण्डीवधन्वानम अभ्यभाषत केशवः सथितः परिह हिते नित्यम अतीव भरतर्षभ ॥ 8 ॥

  9. अवरॊपय गाण्डीवम अक्षय्यौ च महेषुधी अथाहम अवरॊक्ष्यामि पश्चाद भरतसत्तम ॥ 9 ॥

  10. सवयं चैवावरॊह तवम एत शरेयस तवानघ तच चाकरॊत तथा वीरः पाण्डुपुत्रॊ धनंजयः ॥ 10 ॥

  11. अथ पश्चात ततः कृष्णॊ रश्मीन उत्सृज्य वाजिनाम अवारॊहत मेधावी रथाद गाण्डीवधन्वनः ॥ 11 ॥

  12. अथावतीर्णे भूतानाम ईश्वरे सुमहात्मनि कपिर अन्तर्दधे दिव्यॊ धवजॊ गाण्डीवधन्वनः ॥ 12 ॥

  13. स दग्धॊ दरॊणकर्णाभ्यां दिव्यैर अस्त्रैर महारथः अथ दीप्तॊ ऽगनिना हय आशु परजज्वाल महीपते ॥ 13 ॥

  14. सॊपासङ्गः सरश्मिश च साश्वः सयुग बन्धुरः भस्मीभूते ऽपतद भूमौ रथे गाण्डीवधन्वनः ॥ 14 ॥

  15. तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः परभॊ अभवन विस्मिता राजन्न अर्जुनश चेदम अब्रवीत ॥ 15 ॥

  16. कृताञ्जलिः सप्रणयं परणिपत्याभिवाद्य च गॊविन्द कस्माद भगवन रथॊ दग्धॊ ऽयम अग्निना ॥ 16 ॥

  17. किम एतन महद आश्चर्यम अभवद यदुनन्दन तन मे बरूहि महाबाहॊ शरॊतव्यं यदि मन्यसे ॥ 17 ॥

  18. [वा] अस्त्रैर बहुविधैर दग्धः पूर्वम एवायम अर्जुन मद अधिष्ठितत्वात समरे न विशीर्णः परंतप ॥ 18 ॥

  19. इदानीं तु विशीर्णॊ ऽयं दग्धॊ बरह्मास्त्र तेजसा मया विमुक्तः कौन्तेय तवय्य अद्य कृतकर्मणि ॥ 19 ॥

  20. [स] ईषद उत्स्मयमानश च भगवान केशवॊ ऽरिहा परिष्वज्य च राजानं युधिष्ठिरम अभाषत ॥ 20 ॥

  21. दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवॊ जिताः दिष्ट्या गाण्डीवधन्वा च भीमसेनश च पाण्डवौ ॥ 21 ॥

  22. मुक्ता वीर कषयाद अस्मात संग्रामान निहतद्विषः कषिप्रम उत्तरकालानि कुरु कार्याणि भारत ॥ 22 ॥

  23. उपयातम उपप्लव्यं सह गाण्डीवधन्वना आनीय मधुपर्कं मां यत पुरा तवम अवॊचथाः ॥ 23 ॥

  24. एष भराता सखा चैव तव कृष्ण धनंजयः रक्षितव्यॊ महाबाहॊ सर्वास्व आपत्स्व इति परभॊ तव चैवं बरुवाणस्य तथेत्य एवाहम अब्रुवम ॥ 24 ॥

  25. स सव्यसाची गुप्तस ते विजयी च नरेश्वर भरातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः मुक्तॊ वीर कषयाद अस्मात संग्रामाल लॊमहर्षणात ॥ 25 ॥

  26. एवम उक्तस तु कृष्णेन धर्मराजॊ युधिष्ठिरः हृष्टरॊमा महाराज परत्युवाच जनार्दनम ॥ 26 ॥

  27. परमुक्तं दरॊणकर्णाभ्यां बरह्मास्त्रम अरिमर्दन ॥ 27 ॥

  28. कस तवदन्यः सहेत साक्षाद अपि वज्री पुरंदरः ॥ 28 ॥

  29. भवतस तु परसादेन संग्रामे बहवॊ जिताः महारणगतः पार्थॊ यच च नासीत पराङ्मुखः तथैव च महाबाहॊ पर्यायैर बहुभिर मया कर्मणाम अनुसंतानं तेजसश च गतिः शुभा ॥ 29 ॥

  30. उपप्लव्ये महर्षिर मे कृष्णद्वैपायनॊ ऽबरवीत यतॊ धर्मस ततः कृष्णॊ यथ कृष्णस ततॊ जयः ॥ 30 ॥

  31. इत्य एवम उक्ते ते वीराः शिबिरं तव भारत परविश्य परत्यपद्यन्त कॊशरत्नर्द्धि संचयान ॥ 31 ॥

  32. रजतं जातरूपं च मणीन अथ च मौक्तिकान भूषणान्य अथ मुख्यानि कम्बलान्य अजिनानि च दासीदासम असंख्येयं राज्यॊपकरणानि च ॥ 32 ॥

  33. ते पराप्य धनम अक्षय्यं तवदीयं भरतर्षभ उदक्रॊशन महेष्वासा नरेन्द्र विजितारयः ॥ 33 ॥

  34. ते तु वीराः समाश्वस्य वाहनान्य अवमुच्य च अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस तथा ॥ 34 ॥

  35. अथाब्रवीन महाराज वासुदेवॊ महायशाः अस्माभिर मङ्गलार्थाय वस्तव्यं शिबिराद बहिः ॥ 35 ॥

  36. तथेत्य उक्त्वा च ते सर्वे पाण्डवाः सात्यकिस तथा वासुदेवेन सहिता मङ्गलार्थं ययुर बहिः ॥ 36 ॥

  37. ते समासाद्य सरितं पुण्यामॊघवतीं नृप नयवसन्न अथ तां रात्रिं पाण्डवा हतशत्रवः ॥ 37 ॥

  38. ततः संप्रेषयाम आसुर यादवं नागसाह्वयम स च परायाज जवेनाशु वासुदेवः परतापवान दारुकं रथम आरॊप्य येन राजाम्बिका सुतः ॥ 38 ॥

  39. तम ऊचुः संप्रयास्यन्तं सैन्यसुग्रीव वाहनम परत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम ॥ 39 ॥

  40. स परायात पाण्डवैर उक्तस तत पुरं सात्वतां वरः आससादयिषुः कषिप्रं गान्धारीं निहतात्मजाम ॥ 40 ॥

Reach this point to mark the section finished.

Continue to अध्याय 62

Previous: अध्याय 60