धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 60

  1. [धृ] हतं दुर्यॊधनं दृष्ट्वा भीमसेनेन संयुगे पाण्डवाः सृञ्जयाश चैव किम अकुर्वत संजय ॥ 1 ॥

  2. [स] हातं दुर्यॊधनं दृष्ट्वा भीमसेनेन संयुगे सिंहेनेव महाराज मत्तं वनगजं वने ॥ 2 ॥

  3. परहृष्टमनसस तत्र कृष्णेन सह पाण्डवाः पाञ्चालाः सृञ्जयाश चैव निहते कुरुनन्दने ॥ 3 ॥

  4. आविध्यन्न उत्तरीयाणि सिंहनादांश च नेदिरे नैतान हर्षसमाविष्टान इयं सेहे वसुंधरा ॥ 4 ॥

  5. धनूंष्य अन्ये वयाक्षिपन्त जयाश चाप्य अन्ये तथाक्षिपन दध्मुर अन्ये महाशङ्खान अन्ये जघ्नुश च दुन्दुभीः ॥ 5 ॥

  6. चिक्रीडुश च तथैवान्ये जहसुश च तवाहिताः अब्रुवंश चासकृद वीरा भीमसेनम इदं वचः ॥ 6 ॥

  7. दुष्करं भवता कर्म रणे ऽदय सुमहत कृतम कौरवेन्द्रं रणे हत्वा गदयातिकृत शरमम ॥ 7 ॥

  8. इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे तवया कृतम अमन्यन्त शत्रॊर वधम इमं जनाः ॥ 8 ॥

  9. चरन्तं विविधान मार्गान मण्डलानि च सर्वशः दुर्यॊधनम इमं शूरं कॊ ऽनयॊ हन्याद वृकॊदरात ॥ 9 ॥

  10. वैरस्य च गतः पारं तवम इहान्यैः सुदुर्गमम अशक्यम एतद अन्येन संपादयितुम ईदृशम ॥ 10 ॥

  11. कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनि दुर्यॊधन शिरॊ दिष्ट्या पादेन मृदितं तवया ॥ 11 ॥

  12. सिंहेन महिषस्येव कृत्वा संगरम अद्भुतम दुःशासनस्य रुधिरं दिष्ट्या पीतं तवयानघ ॥ 12 ॥

  13. ये विप्रकुर्वन राजानं धर्मात्मानं युधिष्ठिरम मूर्ध्नि तेषां कृतः पादॊ दिष्ट्या ते सवेन कर्मणा ॥ 13 ॥

  14. अमित्राणाम अधिष्ठानाद वधाद दुर्यॊधनस्य च भीम दिष्ट्या पृथिव्यां ते परथितं सुमहद यशः ॥ 14 ॥

  15. एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः तथा तवां निहतामित्रं वयं नन्दाम भारत ॥ 15 ॥

  16. दुर्यॊधन वधे यानि रॊमाणि हृषितानि नः अद्यापि न विहृष्यन्ति तानि तद विद्धि भारत इत्य अब्रुवन भीमसेनं वातिकास तत्र सांगताः ॥ 16 ॥

  17. तान हृष्टान पुरुषव्याघ्रान पाञ्चालान पाण्डवैः सह बरुवतः सदृशं तत्र परॊवाच मधुसूदनः ॥ 17 ॥

  18. न नयाय्यं निहतः शत्रुर भूयॊ हन्तुं जनाधिपाः असकृद वाग्भिर उग्राभिर निहतॊ हय एष मन्दधीः ॥ 18 ॥

  19. तदैवैष हतः पापॊ यदैव निरपत्रपः लुब्धः पापसहायश च सुहृदां शासनातिगः ॥ 19 ॥

  20. बहुशॊ विदुर दरॊण कृप गाङ्गेय सृञ्जयैः पाण्डुभ्यः परॊच्यमानॊ ऽपि पित्र्यम अंशं न दत्तवान ॥ 20 ॥

  21. नैष यॊग्यॊ ऽदय मित्रं वा शत्रुर वा पुरुषाधमः किम अनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा ॥ 21 ॥

  22. रथेष्व आरॊहत कषिप्रं गच्छामॊ वसुधाधिपाः दिष्ट्या हतॊ ऽयं पापात्मा सामात्यज्ञाति बान्धवः ॥ 22 ॥

  23. इति शरुत्वा तव अधिक्षेपं कृष्णाद दुर्यॊधनॊ नृपः अमर्षवशम आपन्न उदतिष्ठद विशां पते ॥ 23 ॥

  24. सफिग देशेनॊपविष्टः स दॊर्भ्यां विष्टभ्य मेदिनीम दृष्टिं भरू संकटां कृत्वा वासुदेवे नयपातयत ॥ 24 ॥

  25. अर्धॊन्नत शरीरस्य रूपम आसीन नृपस्य तत करुद्धस्याशीविषस्येवच छिन्नपुच्छस्य भारत ॥ 25 ॥

  26. पराणान्त करणीं घॊरां वेदनाम अविचिन्तयन दुर्यॊधनॊ वासुदेवं वाग्भिर उग्राभिर आर्दयत ॥ 26 ॥

  27. कंस दासस्य दायाद न ते लज्जास्त्य अनेन वै अधर्मेण गदायुद्धे यद अहं विनिपातितः ॥ 27 ॥

  28. ऊरू भिन्धीति भीमस्य समृतिं मिथ्या परयच्छता किं न विज्ञातम एतन मे यद अर्जुनम अवॊचथाः ॥ 28 ॥

  29. घातयित्वा महीपालान ऋजु युद्धान सहस्रशः जिह्मैर उपायैर बहुभिर न ते लज्जा न ते घृणा ॥ 29 ॥

  30. अहन्य अहनि शूराणां कुर्वाणः कदनं महत शिखण्डिनं पुरस्कृत्य घातितस ते पितामहः ॥ 30 ॥

  31. अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते आचार्यॊ नयासितः शस्त्रं किं तन न विदितं मम ॥ 31 ॥

  32. स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान पात्यमानस तवया दृष्टॊ न चैनं तवम अवारयः ॥ 32 ॥

  33. वधार्थं पाण्डुपुत्रस्य याचितां शक्तिम एव च घटॊत्कचे वयंसयथाः कस तवत्तः पापकृत्तमः ॥ 33 ॥

  34. छिन्नबाहुः परायगतस तथा भूरिश्रवा बली तवया निसृष्टेन हतः शैनेयेन दुरात्मना ॥ 34 ॥

  35. कुर्वाणश चॊत्तमं कर्म कर्णः पार्थ जिगीषया वयंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै ॥ 35 ॥

  36. पुनश च पतिते चक्रे वयसनार्तः पराजितः पातितः समरे कर्णश चक्रव्यग्रॊ ऽगरणीर नृणाम ॥ 36 ॥

  37. यदि मां चापि कर्णं च भीष्मद्रॊणौ च संयुगे ऋजुना परतियुध्येथा न ते सयाद विजयॊ धरुवम ॥ 37 ॥

  38. तवया पुनर अनार्येण जिह्ममार्गेण पार्थिवाः सवधर्मम अनुतिष्ठन्तॊ वयं चान्ये च घातिताः ॥ 38 ॥

  39. [वा] हतस तवम असि गान्धारे सभ्रातृसुतबान्धवः सगणः ससुहृच चैव पापमार्गम अनुष्ठितः ॥ 39 ॥

  40. तवैव दुष्कृतैर वीरौ भीष्मद्रॊणौ निपातितौ कर्णश च निहतः संख्ये तव शीलानुवर्तकः ॥ 40 ॥

  41. याच्यमानॊ मया मूढ पित्र्यम अंशं न दित्ससि पाण्डवेभ्यः सवराज्यार्धं लॊभाच छकुनि निश्चयात ॥ 41 ॥

  42. विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः परदीपिता जतु गृहे मात्रा सह सुदुर्मते ॥ 42 ॥

  43. सभायां याज्ञसेनी च कृष्टा दयूते रजस्वला तदैव तावद दुष्टात्मन वध्यस तवं निरपत्रपः ॥ 43 ॥

  44. अनक्षज्ञं च धर्मज्ञं सौबलेनाक्ष वेदिना निकृत्या यत पराजैषीस तस्स्माद असि हतॊ रणे ॥ 44 ॥

  45. जयद्रथेन पापेन यत कृष्णा कलेशिता वने यातेषु मृगयां तेषु तृणबिन्दॊर अथाश्रमे ॥ 45 ॥

  46. अभिमन्युश च यद बाल एकॊ बहुभिर आहवे तवद दॊषैर निहतः पापतस्माद असि हतॊ रणे ॥ 46 ॥

  47. [दुर] अधीतं विधिवद दत्तं भूः परशास्ता ससागरा मूर्ध्नि सथितम अमित्राणां कॊ नु सवन्ततरॊ मया ॥ 47 ॥

  48. यद इष्टं कषत्रबन्धूनां सवधर्मम अनुपश्यताम तद इदं निधनं पराप्तं कॊ नु सवन्ततरॊ मया ॥ 48 ॥

  49. देवार्हा मानुषा भॊगाः पराप्ता असुलभा नृपैः ऐश्वर्यं चॊत्तमं पराप्तं कॊ नु सवन्ततरॊ मया ॥ 49 ॥

  50. ससुहृत सानुबन्धश च सवर्गं गन्ताहम अच्युत यूयं विहतसंकल्पाः शॊचन्तॊ वर्तयिष्यथ ॥ 50 ॥

  51. [स] अस्य वाक्यस्य निधने कुरुराजस्य भारत अपतत सुमहद वर्षं पुष्पाणां पुण्यगन्धिनाम ॥ 51 ॥

  52. अवादयन्त गन्धर्वा जगुश चाप्सरसां गणाः सिद्धाश च मुमुचुर वाचः साधु साध्व इति भारत ॥ 52 ॥

  53. ववौ च सुरभिर वायुः पुण्यगन्धॊ मृदुः सुखः वयराजतामलं चैव नभॊ वैडूर्य संनिभम ॥ 53 ॥

  54. अत्यद्भुतानि ते दृष्ट्वा वासुदेव पुरॊगमाः दुर्यॊधनस्य पूजां च दृष्ट्वा वरीडाम उपागमन ॥ 54 ॥

  55. हतांश चाधर्मतः शरुत्वा शॊकार्ताः शुशुचुर हि ते भीष्मं दरॊणं तथा कर्णं भूरिश्रवसम एव च ॥ 55 ॥

  56. तांस तु चिन्तापरान दृष्ट्वा पाण्डवान दीनचेतसः परॊवाचेदं वचः कृष्णॊ मेघदुन्दुभिनिस्वनः ॥ 56 ॥

  57. नैष शक्यॊ ऽतिशीघ्रास्त्रस ते च सर्वे महारथाः ऋजु युद्धेन विक्रान्ता हन्तुं युष्माभिर आहवे ॥ 57 ॥

  58. उपाया विहिता हय एते मया तस्मान नराधिपाः अन्यथा पाण्डवेयानां नाभविष्यज जयः कव चित ॥ 58 ॥

  59. ते हि सर्वे महात्मानश चत्वारॊ ऽतिरथा भुवि न शक्या धर्मतॊ हन्तुं लॊकपालैर अपि सवयम ॥ 59 ॥

  60. तथैवायं गदापाणिर धार्तराष्ट्रॊ गतक्लमः न शक्यॊ धर्मतॊ हन्तुं कालेनापीह दण्डिना ॥ 60 ॥

  61. न च वॊ हृदि कर्तव्यं यद अयं घातितॊ नृपः मिथ्या वध्यास तथॊपायैर बहवः शत्रवॊ ऽधिकाः ॥ 61 ॥

  62. पूर्वैर अनुगतॊ मार्गॊ देवैर असुरघातिभिः सद्भिश चानुगतः पन्थाः स सर्वैर अनुगम्यते ॥ 62 ॥

  63. कृतकृत्याः सम सायाह्ने निवासं रॊचयामहे साश्वनागरथाः सर्वे विश्रमामॊ नराधिपाः ॥ 63 ॥

  64. वासुदेव वचः शरुत्वा तदानीं पाण्डवैः सह पाञ्चाला भृशसंहृष्टा विनेदुः समिह संघवत ॥ 64 ॥

  65. ततः पराध्मापयञ शङ्खान पाञ्चजन्यं च माधवः हृष्टा दुर्यॊधनं दृष्ट्वा निहतं पुरुषर्षभाः ॥ 65 ॥

Reach this point to mark the section finished.

Continue to अध्याय 61

Previous: अध्याय 59