[धृ] अधर्मेण हतं दृष्टा राजानं माधवॊत्तमः किम अब्रवीत तदा सूत बलदेवॊ महाबलः ॥ 1 ॥
गदायुद्धविशेषज्ञॊ गदायुद्धविशारदः कृतवान रौहिणेयॊ यत तन ममाचक्ष्व संजय ॥ 2 ॥
[स] शिरस्य अभिहतं दृष्ट्वा भीमसेनेन ते सुतम रामः परहरतां शरेष्ठश चुक्रॊध बलवद बली ॥ 3 ॥
ततॊ मध्ये नरेन्द्राणाम ऊर्ध्वबाहुर हलायुधः कुर्वन आर्तस्वरं घॊरं धिग धिग भीमेत्य उवाच ह ॥ 4 ॥
अहॊ धॊग यद अधॊ नाभेः परहृतं शुद्धविक्रमे नैतद दृष्ट्वं गदायुद्धे कृतवान यद वृकॊदरः ॥ 5 ॥
अधॊ नाभ्या न हन्तव्यम इति शास्त्रस्य निश्चयः अयं तव अशास्त्रविन मूढः सवच्छन्दात संप्रवर्तते ॥ 6 ॥
तस्य तत तद बरुवाणस्य रॊषः समभवन महान ततॊ लाङ्गलम उद्यम्य भीमम अभ्यद्रवद बली ॥ 7 ॥
तस्यॊर्ध्व बाहॊः सदृशं रूपम आसीन महात्मनः बहुधातुविचित्रस्य शवेतस्येव महागिरेः ॥ 8 ॥
तम उत्पतन्तं जग्राह केशवॊ विनयानतः बाहुभ्यां पीनवृत्ताभ्यां परयत्नाद बलवद बली ॥ 9 ॥
सितासितौ यदुवरौ शुशुभाते ऽधिकं ततः नभॊगतौ यथा राजंश चन्द्रसूर्यौ दिनक्षये ॥ 10 ॥
उवाच चैनं संरब्धं शमयन्न इव केशवः आत्मवृद्धिर मित्र वृद्धिर मित्र मित्रॊदयस तथा विपरीतं दविषत्स्व एतत षड विधा वृद्धिर आत्मनः ॥ 11 ॥
आत्मन्य अपि च मित्रेषु विपरीतं यदा भवेत तदा विद्यान मनॊ जयानिम आशु शान्ति करॊ भवेत ॥ 12 ॥
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः सवकाः पितृष्वसुः पुत्रास ते परैर निकृता भृशम ॥ 13 ॥
परतिज्ञा पारणं धर्मः कषत्रियस्येति वेत्थ ह सुयॊधनस्य गदया भङ्क्तास्म्य ऊरू महाहवे इति पूर्वं परतिज्ञातं भीमेन हि सभा तले ॥ 14 ॥
मैत्रेयेणाभिशप्तश च पूर्वम एव महर्षिणा ऊरू भेत्स्यति ते भीमॊ गदयेति परंतप अतॊ दॊषं न पश्यामि मा करुधस तवं परलम्बहन ॥ 15 ॥
यौनैर हार्दैर्श च संबन्धैः संबद्धा समेह पाण्डवैः तेषां वृद्ध्याभिवृद्धिर नॊ मा करुधः पुरुषर्षभ ॥ 16 ॥
[राम] धर्मः सुचरितः सद्भिः सह दवाभ्यां नियच्छति अर्थश चात्यर्थ लुब्धस्य कामश चातिप्रसङ्गिनः ॥ 17 ॥
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्य अपीडयन धर्मार्थकामान यॊ ऽभयेति सॊ ऽतयन्तं सुखम अश्नुते ॥ 18 ॥
तद इदं वयाकुलं सर्वं कृतं धर्मस्य पीडनात भीमसेनेन गॊविन्द कामं तवं तु यथात्थ माम ॥ 19 ॥
[वा] अरॊषणॊ हि धर्मात्मा सततं धर्मवत्सलः भवान परख्यायते लॊके तस्मात संशाम्य मा करुधः ॥ 20 ॥
पराप्तं कलियुगं विद्धि परतिज्ञां पराण्डवस्य च आनृण्यं यातु वैरस्य परतिज्ञायाश च पाण्डवः ॥ 21 ॥
[स] धर्मच छलम अपि शरुत्वा केशवात सा विशां पते नैव परीतमना रामॊ वचनं पराह संसदि ॥ 22 ॥
हत्वाधर्मेण राजानं धर्मात्मानं सुयॊधनम जिह्मयॊधीति लॊके ऽसमिन खयातिं यास्यति पाण्डवः ॥ 23 ॥
दुर्यॊधनॊ ऽपि धर्मात्मा गतिं यास्यति शाश्वतीम ऋजु यॊधी हतॊ राजा धार्तराष्ट्रॊ नराधिपः ॥ 24 ॥
युद्धदीक्षां परविश्याजौ रणयज्ञं वितत्य च हुत्वात्मानम अमित्राग्नौ पराप चावभृथं यशः ॥ 25 ॥
इत्य उक्त्वा रथम आस्थाय रौहिणेयः परतापवान शवेताभ्रशिखराकारः परययौ दवारकां परति ॥ 26 ॥
पाञ्चालाश च सवार्ष्णेयाः पाण्डवाश च विशां पते रामे दवारवतीं याते नातिप्रमनसॊ ऽभवन ॥ 27 ॥
ततॊ युधिष्ठिरं दीनं चिन्तापरम अधॊमुखम शॊकॊपहतसंकल्पं वासुदेवॊ ऽबरवीद इदम ॥ 28 ॥
धर्मराज किमर्थं तवम अधर्मम अनुमन्यसे हतबन्धॊर यद एतस्य पतितस्य विचेतसः ॥ 29 ॥
दुर्यॊधनस्य भीमेन मृद्यमानं शिरः पदा उपप्रेक्षसि कस्मात तवं धर्मज्ञः सन नराधिप ॥ 30 ॥
[य] न ममैत परियं कृष्ण यद राजानं वृकॊदरः पदा मूर्ध्न्य अस्पृशत करॊधान न च हृष्ये कुलक्षये ॥ 31 ॥
निकृत्या निकृता नित्यं धृतराष्ट्र सुतैर वयम बहूनि परुषाण्य उक्त्वा वनं परस्थापिताः सम ह ॥ 32 ॥
भीमसेनस्य तद्दुःखम अतीव हृदि वर्तते इति संचिन्त्य वार्ष्णेय मयैतत समुपेक्षितम ॥ 33 ॥
तस्माद धत्वाकृत परज्ञं लुब्धं कामवशानुगम लभतां पाण्डवः कामं धर्मे ऽधर्मे ऽपि वा कृते ॥ 34 ॥
[स] इत्य उक्ते धर्मराजेन वासुदेवॊ ऽबरवीद इदम कामम अस्त्व एवम इति वै कृच्छ्राद यदुकुलॊद्वहः ॥ 35 ॥
इत्य उक्तॊ वासुदेवेन भीम परियहितैषिणा अन्वमॊदत तत सर्वं यद भीमेन कृतं युधि ॥ 36 ॥
भीमसेनॊ ऽपि हत्वाजौ तव पुत्रम अमर्षणः अभिवाद्याग्रतः सथित्वा संप्रहृष्टः कृताञ्जलिः ॥ 37 ॥
परॊवाच सुमहातेजा धर्मराजं युधिष्ठिरम हर्षाद उत्फुल्लनयनॊ जितकाशी विशां पते ॥ 38 ॥
तवाद्य पृथिवी राजन कषेमा निहतकण्टका तां परशाधि महाराज सवधर्मम अनुपालयन ॥ 39 ॥
यस तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः सॊ ऽयं विनिहतः शेते पृथिव्यां पृथिवीपते ॥ 40 ॥
दुःशासनप्रभृतयः सर्वे ते चॊग्रवादिनः राधेयः शकुनिश चापि निहतास तव शत्रवः ॥ 41 ॥
सेयं रत्नसमाकीर्णा मही सवनपर्वता उपावृत्ता महाराज तवाम अद्य निहतद्विषम ॥ 42 ॥
[य] गतं वैरस्य निधनं हतॊ राजा सुयॊधनः कृष्णस्य मतम आस्थाय विजितेयं वसुंधरा ॥ 43 ॥
दिष्ट्या गतस तवम आनृण्यं मातुः कॊपस्य चॊभयॊः दिष्ट्या जयसि दुर्धर्षं दिष्ट्या शत्रुर निपातितः ॥ 44 ॥
शल्यपर्व · Shalya Parva
अध्याय 59
Reach this point to mark the section finished.
Continue to अध्याय 60