धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 58

  1. [स] तं पातितं ततॊ दृष्ट्वा महाशालम इवॊद्गतम परहृष्टमनसः सर्वे बभूवुस तत्र पाण्डवाः ॥ 1 ॥

  2. उन्मत्तम इव मातङ्गं सिंहेन विनिपातितम ददृशुर हृष्टरॊमाणः सर्वे ते चापि सॊमकाः ॥ 2 ॥

  3. ततॊ दुर्यॊधनं हत्वां भीमसेनः परतापवान पतितं कौरवेन्द्रं तम उपगम्येदम अब्रवीत ॥ 3 ॥

  4. गौर गौर इति पुरा मन्दद्रौपदीम एकवाससाम यत सभायां हसन्न अस्मांस तदा वदसि दुर्मते तस्यावहासस्य फलम अद्य तवं समवाप्नुहि ॥ 4 ॥

  5. एवम उक्त्वा स वामेन पदा मौलिम उपास्पृशत शिरश च राजसिंहस्य पादेन समलॊडयत ॥ 5 ॥

  6. तथैव करॊधसंरक्तॊ भीमः परबलार्दनः पुनर एवाब्रवीद वाक्यं यत तच छृणु नराधिप ॥ 6 ॥

  7. ये ऽसमान पुरॊ ऽपनृत्यन्त पुनर गौर इति गौर इति तान वयं परतिनृत्यामः पुनर गौर इति गौर इति ॥ 7 ॥

  8. नास्माकं निकृतिर वह्निर नाक्ष दयूतं न वञ्चना सवबाहुबलम आश्रित्य परबाधामॊ वयं रिपून ॥ 8 ॥

  9. सॊ ऽवाप्य वैरस्य परस्य पारं; वृकॊदरः पराह शनैः परहस्य युधिष्ठिरं केशव सृञ्जयांश च; धनंजयं माद्रवतीसुतौ च ॥ 9 ॥

  10. रजस्वलां दरौपदीम आनयन ये; ये चाप्य अकुर्वन्त सदस्य वस्त्राम तान पश्यध्वं पाण्डवैर धार्तराष्ट्रान; रणे हतांस तपसा याज्ञसेन्याः ॥ 10 ॥

  11. ये नः पुरा षण्ढतिलान अवॊचन; करूरा राज्ञॊ धृतराष्ट्रस्य पुत्राः ते नॊ हताः सगणाः सानुबन्धाः; कामं सवर्गं नरकं वा वरजामः ॥ 11 ॥

  12. पुनश च राज्ञः पतितस्त्य भूमौ; स तां गदां सकन्धगतां निरीक्ष्य वामेन पादेन शिरः परमृद्य; दुर्यॊधनं नैकृतिकेत्य अवॊचत ॥ 12 ॥

  13. हृष्टेन राजन कुरु पार्थिवस्य; कषुद्रात्मना भीमसेनेन पादम दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन; धर्मात्मानः सॊमकानां परबर्हाः ॥ 13 ॥

  14. तव पुत्रं तथा हत्वा कत्थमानं वृकॊदरम नृत्यमानं च बहुशॊ धर्मराजॊ ऽबरवीद इदम ॥ 14 ॥

  15. मा शिरॊ ऽसय पदा मर्दीर मा धर्मस ते ऽतयगान महान राजा जञातिर हतश चायं नैतन नयाय्यं तवानघ ॥ 15 ॥

  16. विध्वस्तॊ ऽयं हतामात्यॊ हतभ्राता हतप्रजः उत्सन्नपिण्डॊ भराता च नैतन नयाय्यं कृतं तवया ॥ 16 ॥

  17. धार्मिकॊ भीमसेनॊ ऽसाव इत्य आहुस तवां पुरा जनाः स कस्माद भीमसेन तवं राजानम अधितिष्ठसि ॥ 17 ॥

  18. दृष्ट्वा दुर्यॊधनं राजा कुन्तीपुत्रस तथागतम नेत्राभ्याम अश्रुपूर्णाभ्याम इदं वचनम अब्रवीत ॥ 18 ॥

  19. नूनम एतद बलवता धात्रादिष्टं महात्मना यद वयं तवां जिघांसामस तवं चास्मान कुरुसत्तम ॥ 19 ॥

  20. आत्मनॊ हय अपराधेन महद वयसनम ईदृशम पराप्तवान असि यल लॊभान मदाद बाल्याच च भारत ॥ 20 ॥

  21. घातयित्वा वयस्यांश च भरातॄन अथ पितॄंस तथा पुत्रान पौत्रांस तथाचार्यांस ततॊ ऽसि निधनं गतः ॥ 21 ॥

  22. तवापराधाद अस्माभिर भरातरस ते महारथाः निहता जञातयश चान्ये दिष्टं मन्ये दुरत्ययम ॥ 22 ॥

  23. सनुषाश च परस्नुषाश चैव धृतराष्ट्रस्य विह्वलाः गर्हयिष्यन्ति नॊ नूनं विधवाः शॊककर्शिताः ॥ 23 ॥

  24. एवम उक्त्वा सुदुःखार्तॊ निशश्वास स पार्थिवः विललाप चिरं चापि धर्मपुत्रॊ युधिष्ठिरः ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 59

Previous: अध्याय 57