[स] समुदीर्णं ततॊ दृष्ट्वा सांग्रामं कुरुमुख्ययॊः अथाब्रवीद अर्जुनस तु वासुदेवं यशस्विनम ॥ 1 ॥
अनयॊर वीरयॊर युद्धे कॊ जयायान भवतॊ मतः कस्य वा कॊ गुणॊ भूयान एतद वद जनार्दन ॥ 2 ॥
[वा] उपदेशॊ ऽनयॊस तुल्यॊ भीमस तु बलवत्तरः कृतयत्नतरस तव एष धार्तराष्ट्रॊ वृकॊदरात ॥ 3 ॥
भीमसेनस तु धर्मेण युध्यमानॊ न जेष्यति अन्यायेन तु युध्यन वै हन्याद एष सुयॊधनम ॥ 4 ॥
मायया निर्जिता देवैर असुरा इति नः शरुतम विरॊचनश च शक्रेण मायया निर्जितः सखे मायया चाक्षिपत तेजॊ वृत्रस्य बलसूदनः ॥ 5 ॥
परतिज्ञातं तु भीमेन दयूतकाले धनंजय ऊरू भेत्स्यामि ते संख्ये गदयेति सुयॊधनम ॥ 6 ॥
सॊ ऽयं परतिज्ञां तां चापि पारयित्वारि कर्शनः मायाविनं च राजानं माययैव निकृन्ततु ॥ 7 ॥
यद्य एष बलम आस्थाय नयायेन परहरिष्यति विषामस्थस ततॊ राजा भविष्यति युधिष्ठिरः ॥ 8 ॥
पुनर एव च वक्ष्यामि पाण्डवेदं निबॊध मे धर्मराजापराधेन भयं नः पुनरागतम ॥ 9 ॥
कृत्वा हि सुमहत कर्महत्वा भीष्म मुखान कुरून जयः पराप्तॊ यशश चाग्र्यं वैरं च परतियातितम तद एवं विजयः पराप्तः पुनः संशयितः कृतः ॥ 10 ॥
अबुद्धिर एषा महती धर्मराजस्य पाण्डव यद एकविजये युद्धे पणितं कृतम ईदृशम सुयॊधनः कृती वीर एकायनगतस तथा ॥ 11 ॥
अपि चॊशनसा गीतः शरूयते ऽयं पुरातनः शलॊकस तत्त्वार्थ सहितस तन मे निगदतः शृणु ॥ 12 ॥
पुनरावर्तमानानां भग्नानां जीवितैषिणाम भतव्यम अरिशेषाणाम एकायनगता हि ते ॥ 13 ॥
सुयॊधनम इमं भग्नं हतसैन्यं हरदं गतम पराजितं वनप्रेप्सुं निराशं राज्यलम्भने ॥ 14 ॥
कॊ नव एष समयुगे पराज्ञः पुनर दवंद्वे समाह्वयेत अपि वॊ निर्जितं राज्यं न हरेत सुयॊधनः ॥ 15 ॥
यस तरयॊदश वर्षाणि गदया कृतनिश्रमः चरत्य ऊर्ध्वं च तिर्यक च भीमसेनजिघांसया ॥ 16 ॥
एवं चेन न महाबाहुर अन्यायेन हनिष्यति एष वः कौरवॊ राजा धार्तराष्ट्रॊ भविष्यति ॥ 17 ॥
धनंजयस तु शरुत्वैतत केशवस्य महात्मनः परेक्षतॊ भीमसेनस्य हस्तेनॊरुम अताडयत ॥ 18 ॥
गृह्य संज्ञां ततॊ भीमॊ गदया वयचरद रणे मण्डलानि विचित्राणि यमकानीतराणि च ॥ 19 ॥
दक्षिणं मण्डलं सव्यं गॊमूत्रकम अथापि च वयचरत पाण्डवॊ राजन्न अरिं संमॊहयन्न इव ॥ 20 ॥
तथैव तव पुत्रॊ ऽपि गदा मार्गविशारदः वयचरल लघुचित्रं च भीमसेनजिघांसया ॥ 21 ॥
आधुन्वन्तौ गदे घॊरे चन्दनागरुरूषिते वैरस्यान्तं परीप्सन्तौ रणे करुद्धाव इवान्तकौ ॥ 22 ॥
अन्यॊन्यं तौ जिघांसन्तौ परवीरौ पुरुषर्षभौ युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ॥ 23 ॥
मण्डलानि विचित्राणि चरतॊर नृप भीमयॊः गदा संपातजास तत्र परजज्ञुः पावकार्चिषः ॥ 24 ॥
समं परहरतॊस तत्र शूरयॊर बलिनॊर मृधे कषुब्धयॊर वायुना राजन दवयॊर इव समौद्रयॊः ॥ 25 ॥
तयॊः परहरतॊस तुल्यं मत्तकुञ्जरयॊर इव गदा निर्घातसंह्रादः परहाराणाम अजायत ॥ 26 ॥
तस्मिंस तदा संप्रहारे दारुणे संकुले भृशम उभाव अपि परिश्रान्तौ युध्यमानाव अरिंदमौ ॥ 27 ॥
तौ मुहूर्तं समाश्वस्य पुनर एव परंतपौ अभ्यहारयतां करुद्धौ परगृह्य महती गदे ॥ 28 ॥
तयॊः समभवद युद्धं घॊररूपम असंवृतम गदा निपातै राजेन्द्र तक्षतॊर वै परस्परम ॥ 29 ॥
वयायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ अन्यॊन्यं जघ्नतुर वीरौ पङ्कस्थौ महिषाव इव ॥ 30 ॥
जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ ददृशाते हिमवति पुष्पिताव इव किंशुकौ ॥ 31 ॥
दुर्यॊधनेन पार्थस तु विवरे संप्रदर्शिते ईषद उत्स्मयमानस तु सहसा परससाह ह ॥ 32 ॥
तम अभ्याशगतं पराज्ञॊ रणे परेक्ष्य वृकॊदरः अवाक्षिपद गदां तस्मै वेगेन महता बली ॥ 33 ॥
अवक्षेपं तु तं दृष्ट्वा पुत्रस तव विशां पते अपासर्पत ततः सथानात सा मॊघा नयपतद भुवि ॥ 34 ॥
मॊक्षयित्वा परहारं तं सुतस तव स संभ्रमात भीमसेनं च गदया पराहरत कुरुसत्तमः ॥ 35 ॥
तस्य विष्यन्दमानेन रुधिरेणामितौजसः परहार गुरु पाताच च मूर्छेव समजायत ॥ 36 ॥
दुर्यॊधनस तं च वेद पीडितं पाण्डवं रणे धारयाम आस भीमॊ ऽपि शरीरम अतिपीडितम ॥ 37 ॥
अमन्यत सथितं हय एनं परहरिष्यन्तम आहवे अतॊ न पराहरत तस्मै पुनर एव तवात्मजः ॥ 38 ॥
ततॊ मुहूर्तम आश्वस्य दुर्यॊधनम अवस्थितम वेगेनाभ्यद्रवद राजन भीमसेनः परतापवान ॥ 39 ॥
तम आपतन्तं संप्रेक्ष्य संरब्धम अमितौजसम मॊघम अस्य परहारं तं चिकीर्षुर भरतर्षभ ॥ 40 ॥
अवस्थाने मतिं कृत्वा पुत्रस तव महामनाः इयेषॊत्पतितुं राजंश छलयिष्यन वृकॊदरम ॥ 41 ॥
अबुध्यद भीमसेनस तद राज्ञस तस्य चिकीर्षितम अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत ॥ 42 ॥
सृत्या वञ्चयतॊ राजन पुनर एवॊत्पतिष्यतः ऊरुभ्यां पराहिणॊद राजङ्गदां वेगेन पाण्डवः ॥ 43 ॥
सा वज्रनिष्पेष समा परहिता भीमकर्मणा ऊरू दुर्यॊधनस्याथ बभञ्जे परियदर्शनौ ॥ 44 ॥
स पपात नरव्याघ्रॊ वसुधाम अनुनादयन भग्नॊरुर भीमसेनेन पुत्रस तव महीपते ॥ 45 ॥
ववुर वाताः सनिर्घाताः पांसुवर्षं पपात च चचाल पृथिवी चापि सवृक्षक्षुप पर्वता ॥ 46 ॥
तस्मिन निपतिते वीरे पत्यौ सर्वमहीक्षिताम महास्वना पुनर दीप्ता सनिर्घाता भयंकरी पपात चॊल्का महती पतिते पृथिवीपतौ ॥ 47 ॥
तथा शॊणितवर्षं च पांसुवर्षं च भारत ववर्ष मघवांस तत्र तव पुत्रे निपातिते ॥ 48 ॥
यक्षाणां राक्षसानां च पिशाचानां तथैव च अन्तरिक्षे महानादः शरूयते भरतर्षभ ॥ 49 ॥
तेन शब्देन घॊरेण मृगाणाम अथ पक्षिणाम जज्ञे घॊरतमः शब्दॊ बहूनां सर्वतॊदिशम ॥ 50 ॥
ये तत्र वाजिनः शेषा गजाश च मनुजैः सह मुमुचुस ते महानादं तव पुत्रे निपातिते ॥ 51 ॥
भेरीशङ्खमृदङ्गानाम अभवच च सवनॊ महान अन्तर्भूमि गतश चैव तव पुत्रे निपातिते ॥ 52 ॥
बहु पादैर बहु भुजैः कबन्धैर घॊरदर्शनैः नृत्यद्भिर भयदैर वयाप्ता दिशस तत्राभवन नृप ॥ 53 ॥
धवजवन्तॊ ऽसत्रवन्तश च शस्त्रवन्तस तथैव च पराकम्पन्त ततॊ राजंस तव पुत्रे निपातिते ॥ 54 ॥
हरदाः कूपाश च रुधिरम उद्वेमुर नृपसत्तम नद्यश च सुमहावेगाः परतिस्रॊतॊ वहाभवन ॥ 55 ॥
पुल्लिङ्गा इव नार्यस तु सत्रीलिङ्गाः पुरुषाभवन दुर्यॊधने तदा राजन पतिते तनये तव ॥ 56 ॥
दृष्ट्वा तान अद्भुतॊत्पातान पाञ्चालाः पाण्डवैः सह आविग्नमनसः सर्वे बभूवुर भरतर्षभ ॥ 57 ॥
ययुर देवा यथाकामं गन्धर्वाप्सरसस तथा कथयन्तॊ ऽदभुतं युद्धं सुतयॊस तव भारत ॥ 58 ॥
तथैव सिद्धा राजेन्द्र तथा वातिक चारणाः नरसिंहौ परशंसन्तौ विप्रजग्मुर यथागतम ॥ 59 ॥
शल्यपर्व · Shalya Parva
अध्याय 57
Reach this point to mark the section finished.
Continue to अध्याय 58