[वै] ततॊ वाग युद्धम अभवत तुमुलं जनमेजय यत्र दुःखान्वितॊ राजा धृतराष्ट्रॊ ऽबरवीद इदम ॥ 1 ॥
धिग अस्तु खलु मानुष्यं यस्य निष्ठेयम ईदृशी एकादश चमू भर्ता यत्र पुत्रॊ ममाभिभूः ॥ 2 ॥
आज्ञाप्य सर्वान नृपतीन भुक्त्वा चेमां वसुंधराम गदाम आदाय वेगेन पदातिः परथितॊ रणम ॥ 3 ॥
भूत्वा हि जगतॊ नाथॊ हय अनाथ इव मे सुतः गदाम उद्यम्य यॊ याति किम अन्यद भागधेयतः ॥ 4 ॥
अहॊ दुःखं महत पराप्तं पुत्रेण मम संजय एवम उक्त्वा स दुःखार्तॊ विरराम जनाधिपः ॥ 5 ॥
[स] स मेघनिनदॊ हर्षाद विनदन्न इव गॊवृषः आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान ॥ 6 ॥
भीमम आह्वयमाने तु कुरुराजे महात्मनि परादुरासन सुघॊराणि रूपाणि विविधान्य उत ॥ 7 ॥
ववुर वाताः सनिर्घाताः पांसुवर्षं पपात च बभूवुश च दिशः सर्वास तिमिरेण समावृताः ॥ 8 ॥
महास्वनाः सनिर्घातास तुमुला लॊमहर्षणाः पेतुस तथॊल्काः शतशः सफॊटयन्त्यॊ नभस्तलम ॥ 9 ॥
राहुश चाग्रसद आदित्यम अपर्वणि विशां पते चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ॥ 10 ॥
रूक्षाश च वाताः परववुर नीचैः शर्कर वर्षिणः गिरीणां शिखराण्य एव नयपतन्त महीतले ॥ 11 ॥
मृगा बहुविधाकाराः संपतन्ति दिशॊ दश दीप्ताः शिवाश चाप्य अनदन घॊररूपाः सुदारुणाः ॥ 12 ॥
निर्घाताश च महाघॊरा बभूवुर लॊमहर्षणाः दीप्तायां दिशि राजेन्द्र मृगाश चाशुभ वादिनः ॥ 13 ॥
उदपानगताश चापॊ वयवर्धन्त समन्ततः अशरीरा महानादाः शरूयन्ते सम तदा नृप ॥ 14 ॥
एवमादीनि दृष्ट्वाथ निमित्तानि वृकॊदरः उवाच भरातरं जयेष्ठं धर्मराजं युधिष्ठिरम ॥ 15 ॥
नैष शक्तॊ रणे जेतुं मन्दात्मा मां सुयॊधनः अद्य करॊधं विमॊक्ष्यामि निगूढं हृदये चिरम सुयॊधने कौरवेन्द्रे खाण्डवे पावकॊ यथा ॥ 16 ॥
शल्यम अद्यॊद्धरिष्यामि तव पाण्डव हृच्छयम निहत्य गदया पापम इमं कुरु कुलाधमम ॥ 17 ॥
अद्य कीर्तिमयीं मालां परतिमॊक्ष्याम्य अहं तवयि हत्वेमं पापकर्माणं गदया रणमूर्धनि ॥ 18 ॥
अद्यास्य शतधा देहं भिनद्मि गदयानया नायं परवेष्टा नगरं पुनर वारणसाह्वयम ॥ 19 ॥
सर्पॊत्सर्गस्य शयने विषदानस्य भॊजने परमाण कॊट्यां पातस्या दाहस्य जतु वेश्मनि ॥ 20 ॥
सभायाम अवहासस्य सर्वस्वहरणस्य च वर्षम अज्ञातवासस्य वनवासस्य चानघ ॥ 21 ॥
अद्यान्तम एषां दुःखानां गन्ता भरतसत्तम एकाह्ना विनिहत्येमं भविष्याम्य आत्मनॊ ऽनृणः ॥ 22 ॥
अद्यायुर धार्तराष्ट्रस्य दुर्मतेर अकृतात्मनः समाप्तं भरतश्रेष्ठ मातापित्रॊश च दर्शनम ॥ 23 ॥
अद्यायं कुरुराजस्य शंतनॊः कुलपांसनः पराणाञ शरियं च राज्यं च तयक्त्वा शेष्यति भूतले ॥ 24 ॥
राजा च धृतराष्ट्रॊ ऽदय शरुत्वा पुत्रं मया हतम समरिष्यत्य अशुभं कर्म यत तच छकुनि बुद्धिजम ॥ 25 ॥
इत्य उक्त्वा राजशार्दूल गदाम आदाय वीर्यवान अवातिष्ठत युद्धाय शक्रॊ वृत्रम इवाह्वयन ॥ 26 ॥
तम उद्यतगदां दृष्ट्वा कैलासम इव शृङ्गिणम भीमसेनः पुनः करुद्धॊ दुर्यॊधनम उवाच ह ॥ 27 ॥
राज्ञश च धृतराष्ट्रस्य तथा तवम अपि चात्मनः समर तद दुष्कृतं कर्म यद्वृत्तं वारणावते ॥ 28 ॥
दरौपदी च परिक्लिष्टा सभायां यद रजस्वला दयूते च वञ्चितॊ राजा यत तवया सौबलेन च ॥ 29 ॥
वने दुःखं च यत पराप्तम अस्माभिस तवत्कृतं महत विराटनगरे चैव यॊन्यन्तरगतैर इव तत सर्वं यातयाम्य अद्य दिष्ट्या दृष्टॊ ऽसि दुर्मते ॥ 30 ॥
तवत्कृते ऽसौ हतः शेते शरतल्पे परतापवान गाङ्गेयॊ रथिनां शरेष्ठॊ निहतॊ याज्ञसेनिना ॥ 31 ॥
हतॊ दरॊणश च कर्णश च तथा शल्यः परतापवान वैराग्नेर आदिकर्ता च शकुनिः सौबलॊ हतः ॥ 32 ॥
परातिकामी तथा पापॊ दरौपद्याः कलेशकृद धतः भरातरस ते हताः सर्वे शूरा विक्रान्तयॊधिनः ॥ 33 ॥
एते चान्ये च बहवॊ निहतास तवत्कृते नृपाः तवाम अद्य निहनिष्यामि गदया नात्र संशयः ॥ 34 ॥
इत्य एवम उच्चै राजेन्द्र भाषमाणं वृकॊदरम उवाच वीतभी राजन पुत्रस ते सत्यविक्रमः ॥ 35 ॥
किं कत्थितेन बहुधा युध्यस्व तवं वृकॊदर अद्य ते ऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ॥ 36 ॥
नैव दुर्यॊधनः कषुद्र केन चित तवद्विधेन वै शक्त्यस तरासयितुं वाचा यथान्यः पराकृतॊ नरः ॥ 37 ॥
चिरकालेप्सितं दिष्ट्या हृदयस्थम इदं मम तवया सह गदायुद्धं तरिदशैर उपपादितम ॥ 38 ॥
किं वाचा बहुनॊक्तेन कत्थितेन च दुर्मते वाणी संपद्यताम एषा कर्मणा माचिरं कृथाः ॥ 39 ॥
तस्या तद वचनं शरुत्वा सर्व एवाभ्यपूजयन राजानः सॊमकाश चैव ये तत्रासन समागताः ॥ 40 ॥
ततः संपूजितः सर्वैः संप्रहृष्टतनू रुहः भूयॊ धीरं मनश चक्रे युद्धाय कुरुनन्दनः ॥ 41 ॥
तं मत्तम इव मातङ्गं तलतालैर नराधिपाः भूयः संहर्षयां चक्रुर दुर्यॊधनम अमर्षणम ॥ 42 ॥
तं महात्मा महात्मानं गदाम उद्यम्य पाण्डवः अभिदुद्राव वेगेन धार्तराष्ट्रं वृकॊदरः ॥ 43 ॥
बृंहन्ति कुञ्जरास तत्र हया हेषन्ति चासकृत शस्त्राणि चाप्य अदीप्यन्त पाण्डवानां जयैषिणाम ॥ 44 ॥
शल्यपर्व · Shalya Parva
अध्याय 55
Reach this point to mark the section finished.
Continue to अध्याय 56