[ज] कथं कुमारी भगवंस तपॊ युक्ता हय अभूत पुरा किम अर्तहं च तपस तेपे कॊ वास्या नियमॊ ऽभवत ॥ 1 ॥
सुदुष्करम इदं बरह्मंस तवत्तः शरुतम अनुत्तमम आख्याहि तत्त्वम अखिलं यथा तपसि सा सथिता ॥ 2 ॥
[वै] ऋषिर आसीन महावीर्यः कुणिर गार्ग्यॊ महायशाः स तप्त्वा विपुलं राजंस तपॊ वै तपतां वरः मानसीं स सुतां सुभ्रूं समुत्पादितवान विभुः ॥ 3 ॥
तां च दृष्ट्वा भृशं परीतः कुणिर गार्ग्यॊ महायशाः जगाम तरिदिवं राजन संत्यज्येह कलेवरम ॥ 4 ॥
सुभ्रूः सा हय अथ कल्याणी पुण्डरीकनिभेक्षणा महता तपसॊग्रेण कृत्वाश्रमम अनिन्दिता ॥ 5 ॥
उपवासैः पूजयन्ती पितॄन देवंश च सा पुरा तस्यास तु तपसॊग्रेण महान कातॊ ऽतयगान नृप ॥ 6 ॥
सा पित्रा दीयमानापि भर्त्रे नैच्छद अनिन्दिता आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ॥ 7 ॥
ततः सा तपसॊग्रेण पीडयित्वात्मनस तनुम पितृदेवार्चन परा बभूव विजने वने ॥ 8 ॥
सात्मानं मन्यमानापि कृतकृत्यं शरमान्विता वार्धकेन च राजेन्द्र तपसा चैव कर्शिता ॥ 9 ॥
सा नाशकद यदा गन्तुं पदात पदम अपि सवयम चकार गमने बुद्धिं परलॊकाय वै तदा ॥ 10 ॥
मॊक्तु कामां तु तां दृष्ट्वा शरीरं नारदॊ ऽबरवीत असंस्कृतायाः कन्यायाः कुतॊ लॊकास तवानघे ॥ 11 ॥
एवं हि शरुतम अस्माभिर देवलॊके महाव्रते तपः परमकं पराप्तं न तु लॊकास तवया जिताः ॥ 12 ॥
तन नारद वचः शरुत्वा साब्रवीद ऋषिसंसदि तपसॊ ऽरधं परयच्छामि पाणिग्राहस्य सत्तमाः ॥ 13 ॥
इत्य उक्ते चास्या जग्राह पाणिं गालव संभवः ऋषिः पराक शृङ्गवान नाम समयं चेदम अब्रवीत ॥ 14 ॥
समयेन तवाद्याहं पाणिं सप्रक्ष्यामि शॊभने यद्य एकरात्रं वस्तव्यं तवया सह मयेति ह ॥ 15 ॥
तथेति सा परतिश्रुत्य तस्मै पाणिं ददौ तदा चक्रे च पाणिग्रहणं तस्यॊद्वाहं च गालविः ॥ 16 ॥
सा रात्राव अभवद राजंस तरुणी देववर्णिनी दिव्याभरणवस्त्रा च दिव्यस्रग अनुलेपना ॥ 17 ॥
तां दृष्ट्वा गालविः परीतॊ दीपयन्तीम इवात्मना उवास च कषपाम एकां परब्भाते साब्रवीच च तम ॥ 18 ॥
यस तवया समयॊ विप्र कृतॊ मे तपतां वर तेनॊषितास्मि भद्रं ते सवस्ति ते ऽसतु वरजाम्य अहम ॥ 19 ॥
सानुज्ञाताब्रवीद भूयॊ यॊ ऽसमिंस तीर्थे समाहितः वत्स्यते रजनीम एकां तर्पयित्वा दिवौकसः ॥ 20 ॥
चत्वारिंशतम अष्टौ च दवे चाष्टौ सम्यग आचरेत यॊ बरह्मचर्यं वर्षाणि फलं तस्य लभेत सः एवम उक्त्वा ततः साध्वी देहं तयक्त्वा दिवं गता ॥ 21 ॥
ऋषिर अप्य अभवद दीनस तस्या रूपं विचिन्तयन समयेन तपॊ ऽरधं च कृच्छ्रात परतिगृहीतवान ॥ 22 ॥
साधयित्वा तदात्मानं तस्याः स गतिम अन्वयात दुःखितॊ भरतश्रेष्ठ तस्या रूपबलात कृतः एतत ते वृद्धकन्याया वयाख्यातं चरितं महत ॥ 23 ॥
तत्रस्थश चापि शुश्राव हतं शल्यं हलायुधः तत्रापि दत्त्वा दानानि दविजातिभ्यः परंतप शुशॊच शल्यं संग्रामे निहतं पाण्डवैस तदा ॥ 24 ॥
समन्तपञ्चक दवारात ततॊ निष्क्रम्य माधवः पप्रच्छर्षिगणान रामः कुरुक्षेत्रस्य यत फलम ॥ 25 ॥
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभॊ समाचख्युर महात्मानस तस्मै सर्वं यथातथम ॥ 26 ॥
शल्यपर्व · Shalya Parva
अध्याय 51
Reach this point to mark the section finished.
Continue to अध्याय 52