[वै] तस्मिन्न एव तु धर्मात्मा वसति सम तपॊधनः गार्हस्थ्यं धर्मम आस्थाय असितॊ देवलः पुरा ॥ 1 ॥
धर्मनित्यः शुचिर दान्तॊ नयस्तदण्डॊ महातपाः कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ॥ 2 ॥
अक्रॊधनॊ महाराज तुल्यनिन्दा परियाप्रियः काञ्चने लॊष्टके चैव समदर्शी महातपाः ॥ 3 ॥
देवताः पूजयन नित्यम अतिथींश च दविजैः सह बरह्मचर्य रतॊ नित्यं सदा धर्मपरायणः ॥ 4 ॥
ततॊ ऽभयेत्य महाराज यॊगम आस्थय भिक्षुकः जैगीषव्यॊ मुनिर धीमांस तस्मिंस तीर्थे समाहितः ॥ 5 ॥
देवलस्याश्रमे राजन नयवसत स महाद्युतिः यॊगनित्यॊ महाराज सिद्धिं पराप्तॊ महातपाः ॥ 6 ॥
तं तत्र वसमानं तु जैगीषव्यं महामुनिम देवलॊ दर्शयन्न एव नैवायुञ्जत धर्मतः ॥ 7 ॥
एवं तयॊर महाराज दीर्घकालॊ वयतिक्रमत जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः ॥ 8 ॥
आहारकाले मतिमान परिव्राड जनमेजय उपातिष्ठत धर्मज्ञॊ भैक्ष काले स देवलम ॥ 9 ॥
स दृष्ट्वा भिक्षुरूपेण पराप्तंतत्र महामुनिम गौरवं परमं चक्रे परीतिं च विपुलां तथा ॥ 10 ॥
देवलस तु यथाशक्ति पूजयाम आस भारत ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः ॥ 11 ॥
कदा चित तस्य नृपते देवलस्य महात्मनः चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम ॥ 12 ॥
समास तु समतिक्रान्ता बह्व्यः पूजयतॊ मम न चायम अलसॊ भिक्षुर अभ्यभाषत किं चन ॥ 13 ॥
एवं विगणयन्न एव स जगाम महॊदधिम अन्तरिक्षचरः शरीमान कलशं गृह्य देवलः ॥ 14 ॥
गच्छन्न एव स धर्मात्मा समुद्रं सरितां पतिम जैगीषव्यं ततॊ ऽपश्यद गतं पराग एव भारत ॥ 15 ॥
ततः सविस्मयश चिन्तां जगामाथासितः परभुः कथं भिक्षुर अयं पराप्तः समुद्रे सनात एव च ॥ 16 ॥
इत्य एवं चिन्तयाम आस महर्षिर असितस तदा सनात्वा समुद्रे विधिवच छुचिर जप्यं जजाप ह ॥ 17 ॥
कृतजप्याह्निकः शरीमान अश्रमं च जगाम ह कलशं जलपूर्णं वै गृहीत्वा जनमेजय ॥ 18 ॥
ततः स परविशन्न एव सवम आश्रमपदं मुनिः आसीनम आश्रमे तत्र जैगीषव्यम अपश्यत ॥ 19 ॥
न वयाहरति चैवैनं जैगीषव्यः कथं चन काष्ठभूतॊ ऽऽशरम पदे वसति सम महातपाः ॥ 20 ॥
तं दृष्ट्वा चाप्लुतं तॊये सागरे सागरॊपमम परविष्टम आश्रमं चापि पूर्वम एव ददर्श सः ॥ 21 ॥
असितॊ देवलॊ राजंश चिन्तयाम आस बुद्धिमान दृष्टः परभावं तपसॊ जैगीषव्यस्य यॊगजम ॥ 22 ॥
चिन्तयाम आस राजेन्द्र तदा स मुनिसत्तमः मया दृष्टः समुद्रे च आश्रमे च कथं तव अयम ॥ 23 ॥
एवं विगणयन्न एव स मुनिर मन्त्रपारगः उत्पपाताश्रमात तस्माद अन्तरिक्षं विशां पते जिज्ञासार्थं तदा भिक्षॊर जैगीषव्यस्य देवलः ॥ 24 ॥
सॊ ऽनतरिक्षचरान सिद्धान समपश्यत समाहितान जैगीषव्यं च तैः सिद्धैः पूज्यमानम अपश्यत ॥ 25 ॥
ततॊ ऽसितः सुसंरब्धॊ वयवसायी दृढव्रतः अपश्यद वै दिवं यान्तं जैगीषव्यं स देवलः ॥ 26 ॥
तस्माच च पितृलॊकं तं वरजन्तं सॊ ऽनवपश्यत पितृलॊकाच च तं यान्तं याम्यं लॊकम अपश्यत ॥ 27 ॥
तस्माद अपि समुत्पत्य सॊमलॊकम अभिष्टुतम वरजन्तम अन्वपश्यत स जैगीषव्यं महामुनिम ॥ 28 ॥
लॊकान समुत्पतन्तं च शुभान एकान्तयाजिनाम ततॊ ऽगनिहॊत्रिणां लॊकांस तेभ्यश चाप्य उत्पपात ह ॥ 29 ॥
दर्शं च पौर्णमासं च ये यजन्ति तपॊधनाः तेभ्यः स ददृशे धीमाँल लॊकेभ्यः पशुयाजिनाम वरजन्तं लॊकम अमलम अपश्यद देव पूजितम ॥ 30 ॥
चातुर्मास्यैर बहुविधैर यजन्ते ये तपॊधनाः तेषां सथानं तथा यान्तं तथाग्निष्टॊम याजिनाम ॥ 31 ॥
अग्निष्टुतेन च तथा ये यजन्ति तपॊधनाः तत सथानम अनुसंप्राप्तम अन्वपश्यत देवलः ॥ 32 ॥
वाजपेयं करतुवरं तथा बहुसुवर्णकम आहरन्ति महाप्राज्ञास तेषां लॊकेष्व अपश्यत ॥ 33 ॥
यजन्ते पुण्डरीकेण राजसूयेन चैव ये तेषां लॊकेष्व अपश्यच च जैगीषव्यं स देवलः ॥ 34 ॥
अश्वमेधं करतुवरं नरमेधं तथैव च आहरन्ति नरश्रेष्ठास तेषां लॊकेष्व अपश्यत ॥ 35 ॥
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये तेषां लॊकेष्व अपश्यच च जैगीषव्यं स देवलः ॥ 36 ॥
दवादशाहैश च सत्रैर ये यजन्ते विविधैर नृप तेषां लॊकेष्व अपश्यच च जैगीषव्यं स देवलः ॥ 37 ॥
मित्रा वरुणयॊर लॊकान आदित्यानां तथैव च सलॊकताम अनुप्राप्तम अपश्यत ततॊ ऽसितः ॥ 38 ॥
रुद्राणां च वसूनां च सथानं यच च बृहस्पतेः तानि सर्वण्य अतीतं च समपश्यत ततॊ ऽसितः ॥ 39 ॥
आरुह्य च गवां लॊकं परयान्तं बरह्म सत्रिणाम लॊकान अपश्यद गच्छन्तं जैगीषव्यं ततॊ ऽसितः ॥ 40 ॥
तरीँल लॊकान अपरान विप्रम उत्पतन्तं सवतेजसा पतिव्रतानां लॊकांश च वरजन्तं सॊ ऽनवपश्यत ॥ 41 ॥
ततॊ मुनिवरं भूयॊ जैगीषव्यम अथासितः नान्वपश्यत यॊगस्थम अन्तर्हितम अरिंदम ॥ 42 ॥
सॊ ऽचिन्तयन महाभागॊ जैगीषव्यस्य देवलः परभावं सुव्रतत्वं च सिद्धिं यॊगस्य चातुलाम ॥ 43 ॥
असितॊ ऽपृच्छत तदा सिद्धाँल लॊकेषु सत्तमान परयतः पराञ्जलिर भूत्वा धीरस तान बरह्म सत्रिणः ॥ 44 ॥
जैगीषव्यं न पश्यामि तं शंसत महौजसम एतद इच्छाम्य अहं शरॊतुं परं कौतूहलं हि मे ॥ 45 ॥
[सिद्धाह] शृणु देवल भूतार्थं शंसतां नॊ दृढव्रत जैगीषव्यॊ गतॊ लॊकं शाश्वतं बरह्मणॊ ऽवययम ॥ 46 ॥
स शरुत्वा वचनं तेषां सिद्धानां बरह्म सत्रिणाम असितॊ देवलस तूर्णम उत्पपात पपात च ॥ 47 ॥
ततः सिद्धास त ऊचुर हि देवलं पुनर एव ह न देवल गतिस तत्र तव गन्तुं तपॊधन बरह्मणः सदनं विप्र जैगीषव्यॊ यदाप्तवान ॥ 48 ॥
तेषां तद वचनं शरुत्वा सिद्धानां देवलः पुनः आनुपूर्व्येण लॊकांस तान सर्वान अवततार ह ॥ 49 ॥
सवम आश्रमपदं पुण्यम आजगाम पतंगवत परविशन्न एव चापश्यज जैगीषव्यं स देवलः ॥ 50 ॥
ततॊ बुद्ध्या वयगणयद देवलॊ धर्मयुक्तया दृष्ट्वा परभावं तपसॊ जैगीषव्यस्य यॊगजम ॥ 51 ॥
ततॊ ऽबरवीन महात्मानं जैगीषव्यं स देवलः विनयावनतॊ राजन्न उपसर्प्य महामुनिम मॊक्षधर्मं समास्थातुम इच्छेयं भगवन्न अहम ॥ 52 ॥
तस्य तद वचनं शरुत्वा उपदेशं चकार सः विधिं च यॊगस्य परं कार्याकार्यं च शास्त्रतः ॥ 53 ॥
संन्यासकृतबुद्धिं तं ततॊ दृष्ट्वा महातपाः सर्वाश चास्य करियाश चक्रे विधिदृष्टेन कर्मणा ॥ 54 ॥
संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह ततॊ दृष्ट्वा पररुरुदुः कॊ ऽसमान संविभजिष्यति ॥ 55 ॥
देवलस तु वचः शरुत्वा भूतानां करुणं तथा दिशॊ दशव्याहरतां मॊक्षं तयक्तुं मनॊ दधे ॥ 56 ॥
ततस तु फलमूलानि पवित्राणि च भारत पुष्पाण्य ओषधयश चैव रॊरूयन्ते सहस्रशः ॥ 57 ॥
पुनर नॊ देवलः कषुद्रॊ नूनं छेत्स्यति दुर्मतिः अभयं सर्वभूतेभ्यॊ यॊ दत्ता नावबुध्यते ॥ 58 ॥
ततॊ भूयॊ वयगणयत सवबुद्ध्या मुनिसत्तमः मॊक्षे गार्हस्थ्य धर्मे वा किं नु शरेयः करं भवेत ॥ 59 ॥
इति निश्चित्य मनसा देवलॊ राजसत्तम तयक्त्वा गार्हस्थ्य धर्मं स मॊक्षधर्मम अरॊचयत ॥ 60 ॥
एवमादीनि संचिन्त्य देवलॊ निश्चयात ततः पराप्तवान परमां सिद्धिम्परं यॊगं च भारत ॥ 61 ॥
ततॊ देवाः समागम्य बृहस्पतिपुरॊगमाः जैगीषव्यं तपश चास्य परशंसन्ति तपस्विनः ॥ 62 ॥
अथाब्रवीद ऋषिवरॊ देवान वै नारदस तदा जैगीषव्ये तपॊ नास्ति विस्मापयति यॊ ऽसितम ॥ 63 ॥
तम एवं वादिनं धीरं परत्यूचुस ते दिवौकसः मैवम इत्य एव शंसन्तॊ जैगीषव्यं महामुनिम ॥ 64 ॥
तत्राप्य उपस्पृश्य ततॊ महात्मा; दत्त्वा च वित्तं हलभृद दविजेभ्यः अवाप्य धर्मं परमार्य कर्मा; जगाम सॊमस्य महत स तीर्थम ॥ 65 ॥
शल्यपर्व · Shalya Parva
अध्याय 49
Reach this point to mark the section finished.
Continue to अध्याय 50