धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 48

  1. [वै] इन्द्र तीर्थं ततॊ गत्वा यदूनां परवरॊ बली विप्रेभ्यॊ धनरत्नानि ददौ सनात्वा यथाविधि ॥ 1 ॥

  2. तत्र हय अमर राजॊ ऽसाव ईजे करतुशतेन ह बृहस्पतेश च देवेशः परददौ विपुलं धनम ॥ 2 ॥

  3. निरर्गलान सजारूथ्यान सर्वान विविधदक्षिणान आजहार करतूंस तत्र यथॊक्तान वेदपारगैः ॥ 3 ॥

  4. तान करतून भरतश्रेष्ठ शतकृत्वॊ महाद्युतिः पूरयाम आस विधिवत ततः खयातः शतक्रतुः ॥ 4 ॥

  5. तस्य नाम्ना च तत तीर्थं शिवं पुण्यं सनातनम इन्द्र तीर्थम इति खयातं सर्वपापप्रमॊचनम ॥ 5 ॥

  6. उपस्पृश्य च तत्रापि विधिवन मुसलायुधः बराह्मणान पूजयित्वा च पानाच्छादन भॊजनैः शुभं तीर्थवरं तस्माद राम तीर्थं जगाम ह ॥ 6 ॥

  7. यत्र रामॊ महाभागॊ भार्गवः सुमहातपाः असकृत पृथिवीं सर्वां हतक्षत्रिय पुंगवाम ॥ 7 ॥

  8. उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम अजयद वाजपेयेन सॊ ऽशवमेध शतेन च परददौ दक्षिणार्थं च पृथिवीं वै ससागराम ॥ 8 ॥

  9. रामॊ दत्त्वा धनं तत्र दविजेभ्यॊ जनमेजय उपस्पृश्य यथान्यायं पूजयित्वा तथा दविजान ॥ 9 ॥

  10. पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः मुनींश चैवाभिवाद्याथ यमुनातीर्थम आगमत ॥ 10 ॥

  11. यत्रानयाम आस तदा राजसूयं महीपते पुत्रॊ ऽदितेर महाभागॊ वरुणॊ वै सितप्रभः ॥ 11 ॥

  12. तत्र निर्जित्य संग्रामे मानुषान दैवतांस तथा वरं करतुं समाजह्रे वरुणः परवीरहा ॥ 12 ॥

  13. तस्मिन करतुवरे वृत्ते संग्रामः समजायत देवानां दानवानां च तरैलॊक्यस्य कषयावहः ॥ 13 ॥

  14. राजसूये करतुश्रेष्ठे निवृत्ते जनमेजय जायते सुमहाघॊरः संग्रामः कषत्रियान परति ॥ 14 ॥

  15. सीरायुधस तदा रामस तस्मिंस तीर्थवरे तदा तत्र सनात्वा च दत्त्वा च दविजेभ्यॊ वसु माधवः ॥ 15 ॥

  16. वनमाली ततॊ हृष्टः सतूयमानॊ दविजातिभिः तस्माद आदित्यतीर्थं च जगाम कमलेक्षणः ॥ 16 ॥

  17. यत्रेष्ट्वा भगवाञ जयॊतिर भास्करॊ राजसत्तम जयॊतिषाम आधिपत्यं च परभावं चाभ्यपद्यत ॥ 17 ॥

  18. तस्या नद्यास तु तीरे वै सर्वे देवाः सवासवाः विश्वे देवाः समरुतॊ गन्धर्वाप्सरसश च ह ॥ 18 ॥

  19. दवैपायनः शुकश चैव कृष्णश च मधुसूदनः यक्षाश च राक्षसाश चैव पिशाचाश च विशां पते ॥ 19 ॥

  20. एते चान्ये च बहवॊ यॊगसिद्धाः सहस्रशः तस्मिंस तीर्थे सरस्वत्याः शिवे पुण्ये परंतप ॥ 20 ॥

  21. तत्र हत्वा पुरा विष्णुर असुरौ मधु कौटभौ आप्लुतॊ भरतश्रेष्ठ तीर्थप्रवर उत्तमे ॥ 21 ॥

  22. दवैपायनश च धर्मात्मा तत्रैवाप्लुत्य भारत संप्राप्तः परमं यॊगं सिद्धिं च परमां गतः ॥ 22 ॥

  23. असितॊ देवलश चैव तस्मिन्न एव महातपाः परमं यॊगम आस्थाय ऋषिर यॊगम अवाप्तवान ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 49

Previous: अध्याय 47