[वै] शृणु मातृगणान राजन कुमारानुचरान इमान कीर्त्यमानान मया वीर सपत्नगणसूदनान ॥ 1 ॥
यशस्विनीनां मातॄणां शृणु नामानि भारत याभिर वयाप्तास तरयॊ लॊकाः कल्याणीभिश चराचराः ॥ 2 ॥
परभावती विशालाक्षी पलिता गॊनसी तथा शरीमती बहुला चैव तथैव बहुपुत्रिका ॥ 3 ॥
अप्सु जाता च गॊपाली बृहद अम्बालिका तथा जयावती मालतिका धरुवरत्ना भयंकरी ॥ 4 ॥
वसु दामा सुदामा च विशॊका नन्दिनी तथा एकचूडा महाचूडा चक्रनेमिश च भारत ॥ 5 ॥
उत्तेजनी जयत्सेना कमलाक्ष्य अथ शॊभना शत्रुंजया तथा चैव करॊधना शलभी खरी ॥ 6 ॥
माधवी शुभवक्त्रा च तीर्थनेमिश च भारत गीतप्रिया च कल्याणी कद्रुला चामिताशना ॥ 7 ॥
मेघस्वना भॊगवती सुभ्रूश च कनकावती अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ॥ 8 ॥
पद्मावती सुनक्षत्रा कन्दरा बहुयॊजना संतानिका च कौरव्य कमला च महाबला ॥ 9 ॥
सुदामा बहु दामा च सुप्रभा च यशस्विनी नृत्यप्रिया च राजेन्द्र शतॊलूखल मेखला ॥ 10 ॥
शतघण्टा शतानन्दा भग नन्दा च भागिनी वपुष्मती चन्द्र शीता भद्र काली च भारत ॥ 11 ॥
संकारिका निष्कुटिका भरमा चत्वरवासिनी सुमङ्गला सवस्तिमती वृद्धिकामा जय परिया ॥ 12 ॥
धनदा सुप्रसादा च भवदा च जलेश्वरी एडी भेडी सुमेडी च वेताल जननी तथा कण्डूतिः कालिका चैव देव मित्रा च भारत ॥ 13 ॥
लम्बसी केतकी चैव चित्रसेना तहा बला कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप ॥ 14 ॥
कुण्डारिका कॊकलिका कण्डरा च शतॊदरी उत्क्राथिनी जरेणा च महावेगा च कङ्कणा ॥ 15 ॥
मनॊजवा कण्टकिनी परघसा पूतना तथा खशया चुर्व्युटिर वामा करॊशनाथ तडित परभा ॥ 16 ॥
मण्डॊदरी च तुण्डा च कॊटरा मेघवासिनी सुभगा लम्बिनी लम्बा वसु चूडा विकत्थनी ॥ 17 ॥
ऊर्ध्ववेणी धरा चैव पिङ्गाक्षी लॊहमेखला पृथु वक्त्रा मधुरिका मधु कुम्भा तथैव च ॥ 18 ॥
पक्षालिका मन्थनिका जरायुर जर्जरानना खयाता दहदहा चैव तथा धमधमा नृप ॥ 19 ॥
खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला अमॊचा चैव कौरव्य तथा लम्बपयॊधरा ॥ 20 ॥
वेणुवीणा धरा चैव पिङ्गाक्षी लॊहमेखला शशॊलूक मुखी कृष्णा खरजङ्घा महाजवा ॥ 21 ॥
शिशुमार मुखी शवेता लॊहिताक्षी विभीषणा जटालिका कामचरी दीर्घजिह्वा बलॊत्कटा ॥ 22 ॥
कालेडिका वामनिका मुकुटा चैव भारत लॊहिताक्षी महाकाया हरि पिण्डी च भूमिप ॥ 23 ॥
एकाक्षरा सुकुसुमा कृष्ण कर्णी च भारत कषुर कर्णी चतुष्कर्णी कर्णप्रावरणा तथा ॥ 24 ॥
चतुष्पथ निकेता च गॊकर्णी महिषानना खरकर्णी महाकर्णी भेरी सवनमहास्वना ॥ 25 ॥
शङ्खकुम्भ सवना चैव भङ्गदा च महाबला गणा च सुगणा चैव तथाभीत्य अथ कामदा ॥ 26 ॥
चतुष्पथ रता चैव भूरि तीर्था अन्यगॊचरा पशुदा वित्तदा चैव सुखदा च महायशाः पयॊदा गॊमहिषदा सुविषाणा च भारत ॥ 27 ॥
परतिष्ठा सुप्रतिष्ठा च रॊचमाना सुरॊचना गॊकर्णी च सुकर्णीच ससिरा सथेरिका तथा एकचक्रा मेघरवा मेघमाला विरॊचना ॥ 28 ॥
एताश चान्याश च बहवॊ मातरॊ भरतर्षभ कार्त्तिकेयानुयायिन्यॊ नानारूपाः सहस्रशः ॥ 29 ॥
दीर्घनख्यॊ दीर्घदन्त्यॊ दीर्घतुण्ड्यश च भारत सरला मधुराश चैव यौवनस्थाः सवलंकृताः ॥ 30 ॥
माहात्म्येन च संयुक्ताः कामरूपधरास तथा निर्मांस गात्र्यः शवेताश च तथा काञ्चनसंनिभाः ॥ 31 ॥
कृष्णमेघनिभाश चान्या धूम्राश च भरतर्षभ अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः ॥ 32 ॥
ऊर्ध्ववेणी धराश चैव पिङ्गाक्ष्यॊ लम्बमेखलाः लम्बॊदर्यॊ लम्बकर्णास तथा लम्बपरॊ धराः ॥ 33 ॥
ताम्राक्ष्यस ताम्रवर्णाश च हर्यक्ष्यश च तथापरे वरदाः कामचारिण्यॊ नित्यप्रमुदितास तथा ॥ 34 ॥
याम्यॊ रौद्र्यस तथा सौम्याः कौबेर्यॊ ऽथ महाबलाः वारुण्यॊ ऽथ च माहेन्द्र्यस तथाग्नेय्यः परंतप ॥ 35 ॥
वायव्यश चाथ कौमार्यॊ बराह्म्यश च भरतर्षबः रूपेणाप्सरसां तुल्या जवे वायुसमास तथा ॥ 36 ॥
परपुष्टॊपमा वाक्ये तथर्द्ध्या धनदॊपमाः शक्र वीर्यॊपमाश चैव दीप्त्या वह्नि समास तथा ॥ 37 ॥
वृक्षचत्वरवासिन्यश चतुष्पथ निकेतनाः गुहा शमशानवासिन्यः शैलप्रस्रवणालयाः ॥ 38 ॥
नानाभरणधारिण्यॊ नाना माल्याम्बरास तथा नाना विच्चित्र वेषाश च नाना भाषास तथैव च ॥ 39 ॥
एते चान्ये च बहवॊ गणाः शत्रुभयं कराः अनुजग्मुर महात्मानं तरिदशेन्द्रस्य संमते ॥ 40 ॥
ततः शक्त्यस्त्रम अददद भगवान पाकशासनः गुहाय राजशार्दूल विनाशाय सुरद्विषाम ॥ 41 ॥
महास्वनां महाघण्टां दयॊतमानां सितप्रभाम तरुणादित्यवर्णां च पताकां भरतर्षभ ॥ 42 ॥
ददौ पशुपतिस तस्मै सर्वभूतमहाचमूम उग्रां नानाप्रहरणां तपॊ वीर्यबलान्विताम ॥ 43 ॥
विष्णुर ददौ वैजयन्तीं मालां बलविवर्धिनीम उमा ददौ चारजसी वाससी सूर्यसप्रभे ॥ 44 ॥
गङ्गां कमण्डलुं दिव्यम अमृतॊद्भवम उत्तमम ददौ परीत्या कुमाराय दण्डं चैव बृहस्पतिः ॥ 45 ॥
गरुडॊ दयितं पुत्रं मयूरं चित्रबर्हिणम अरुणस ताम्रचूडं च परददौ चरणायुधम ॥ 46 ॥
पशं तु वरुणॊ राजा बलवीर्यसमन्वितम कृष्णाजिनं तथा बरह्मा बरह्मण्याय ददौ परभुः समरेषु जयं चैव परददौ लॊकभावनः ॥ 47 ॥
सेनापत्यम अनुप्राप्य सकान्दॊ देवगणस्य ह शुशुभे जवलितॊ ऽरचिष्मान दवितीया इव पावकः ततः पारिषदैश चैव मातृभिश च समन्वितः ॥ 48 ॥
सा सेना नैरृती भीमा सघण्टॊच्छ्रितकेतना सभेरी शङ्खमुरजा सायुधा सपताकिनी शारदी दयौर इवाभाति जयॊतिर्भिर उपशॊभिता ॥ 49 ॥
ततॊ देव निकायास ते भूतसेना गणास तथा वादयाम आसुर अव्यग्रा भेरीशङ्खांश च पुष्कलान ॥ 50 ॥
पटहाञ झर्झरांश चैव कृकचान गॊविषाणिकान आडम्बरान गॊमुखांश चडिडिमांश च महास्वनान ॥ 51 ॥
तुष्टुवुस ते कुमारं च सर्वे देवाः सवासवाः जगुश च देवगन्धर्वा ननृतुश चाप्सरॊगणाः ॥ 52 ॥
ततः परीतॊ महासेनस तरिदशेभ्यॊ वरं ददौ रिपून हन्तास्मि समरे ये वॊ वधचिकीर्षवः ॥ 53 ॥
परतिगृह्य वरं देवास तस्माद विबुधसत्तमात परीतात्मानॊ महात्मानॊ मेनिरे निहतान रिपून ॥ 54 ॥
सर्वेषां भूतसांघानां हर्षान नादः समुत्थितः अपूरयत लॊकांस तरीन वरे दत्ते महात्मना ॥ 55 ॥
स निर्ययौ महासेनॊ महत्या सेनया वृतः वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम ॥ 56 ॥
वयवसायॊ जयॊ धर्मः सिद्धिर लक्ष्मीर धृतिः समृतिः महासेनस्य सैन्यानाम अग्रे जग्मुर नराधिप ॥ 57 ॥
स तया भीमया देवः शूलमुद्गर हस्तया गदामुसलनाराचशक्तितॊमर हस्तया दृप्तसिंहनिनादिन्या विनद्य परययौ गुहः ॥ 58 ॥
तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास तथा वयद्रवन्त दिशः सर्वा भयॊद्विग्नाः समन्ततः अभ्यद्रवन्त देवास तान विविधायुधपाणयः ॥ 59 ॥
दृष्ट्वा च स ततः करुद्धः सकन्दस तेजॊबलान्वितः शक्त्यस्त्रं भगवान भीमं पुनः पुनर अवासृजत आदधच चात्मनस तेजॊ हविषेद्ध इवानलः ॥ 60 ॥
अभ्यस्यमाने शक्त्यस्त्रे सकन्देनामित तेजसा उल्का जवाला महाराज पपात वसुधातले ॥ 61 ॥
संह्रादयन्तश च तथा निर्घाताश चापतन कषितौ यथान्त कालसमये सुघॊराः सयुस तथा नृप ॥ 62 ॥
कषिप्ता हय एका तथा शक्तिः सुघॊरानल सूनुना ततः कॊट्यॊ विनिष्पेतुः शक्तीनां भरतर्षभ ॥ 63 ॥
स शक्त्यस्त्रेण संग्रामे जघान भगवान परभुः दैत्येन्द्रं तारकं नाम महाबलपराक्रमम वृतं दैत्यायुतैर वीरैर बलिभिर दशभिर नृप ॥ 64 ॥
महिषं चाष्टभिः पद्मैर वृतं संख्ये निजघ्निवान तरिपादं चायुत शतैर जघान दशभिर वृतम ॥ 65 ॥
हरदॊदरं निखर्वैश च वृतं दशभिर ईश्वरः जघानानुचरैः सार्धं विविधायुधपाणिभिः ॥ 66 ॥
तत्राकुर्वन्त विपुलं नाद्दं वध्यत्सु शत्रुषु कुमारानुचरा राजन पूरयन्तॊ दिशॊ दश ॥ 67 ॥
शक्त्यस्त्रस्य तु राजेन्द्र ततॊ ऽरचिर्भिः समन्ततः दग्धाः सहस्रशॊ दैत्या नादैः सकन्दस्य चापरे ॥ 68 ॥
पताकयावधूताश च हताः के चित सुरद्विषः केच्चीद घण्टा रव तरस्ता निपेतुर वसुधातले के चित परहरणैश छिन्ना विनिपेतुर गतासवः ॥ 69 ॥
एवं सुरद्विषॊ ऽनेकान बलवान आततायिनः जघान समरे वीरः कार्त्तिकेयॊ महाबलः ॥ 70 ॥
बाणॊ नामाथ दैतेयॊ बलेः पुत्रॊ महाबलः करौञ्चं पर्वतम आसाद्य देवसंघान अबाधत ॥ 71 ॥
तम अभ्ययान महासेनः सुरशत्रुम उदारधीः स कार्त्तिकेयस्य भयात करौञ्चं शरणम एयिवान ॥ 72 ॥
ततः करौञ्चं महामन्युः करौञ्चनाद निनादितम शक्त्या बिभेद भगवान कार्त्तिकेयॊ ऽगनिदत्तया ॥ 73 ॥
सशाल सकन्धसरलं तरस्तवानरवारणम पुलिनत्रस्त विहगं विनिष्पतित पन्नगम ॥ 74 ॥
गॊलाङ्गूरर्क्ष संघैश च दरवद्भिर अनुनादितम कुरङ्ग गतिनिर्घॊषम उद्भ्रान्तसृमराचितम ॥ 75 ॥
विनिष्पतद्भिः शरभैः सिंहैश च सहसा दरुतैः शॊच्याम अपि दशां पराप्तॊ रराजैव स पर्वतः ॥ 76 ॥
विद्याधराः समुत्पेतुस तस्य शृङ्गनिवासिनः किंनराश च समुद्विग्नाः शक्तिपात रवॊद्धताः ॥ 77 ॥
ततॊ दैत्या विनिष्पेतुः शतशॊ ऽथ सहस्रशः परदीप्तात पर्वतश्रेष्ठाद विचित्राभरण सरजः ॥ 78 ॥
तान निजघ्नुर अतिक्रम्य कुमारानुचरा मृधे बिभेद शक्त्या करौञ्चं च पावकिः परवीरहा ॥ 79 ॥
बहुधा चैकधा चैव कृत्वात्मानं महात्मना शक्तिः कषिप्ता रणे तस्य पाणिम एति पुनः पुनः ॥ 80 ॥
एवं परभावॊ भगवान अतॊ भूयश च पावकिः करौञ्चस तेन विनिर्भिन्नॊ दैत्याश च शतशॊ हताः ॥ 81 ॥
ततः स भगवान देवॊ निहत्य विबुधद्विषः सभाज्यमानॊ विबुधैः परं हर्षम अवाप ह ॥ 82 ॥
ततॊ दुन्दुभयॊ राजन नेदुः शङ्खाश च भारत मुमुचुर देव यॊषाश च पुष्पवर्षम अनुत्तमम ॥ 83 ॥
दिव्यगन्धम उपादाय ववौ पुण्यश च मारुतः गन्धर्वास तुष्टुवुश चैनं यज्वानश च महर्षयः ॥ 84 ॥
के चिद एनं वयवस्यन्ति पितामहसुतं परभुम सनत्कुमारं सर्वेषां बरह्मयॊनिं तम अग्रजम ॥ 85 ॥
के चिन महेश्वर सुतं के चित पुत्रं विभावसॊः उमायाः कृत्तिकानां च गङ्गायाश च वदन्त्य उत ॥ 86 ॥
एकधा च दविधा चैव चतुर्धा च महाबलम यॊगिनाम ईश्वरं देवं शतशॊ ऽथ सहस्रशः ॥ 87 ॥
एतत ते कथितं राजन कार्त्तिकेयाभिषेचनम शृणु चैव सरस्वत्यास तीर्थवंशस्य पुण्यताम ॥ 88 ॥
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु कुमारेण महाराज तरिविष्टपम इवापरम ॥ 89 ॥
ऐश्वर्याणि च तत्रस्थॊ ददाव ईशः पृथक पृथक तदा नैरृतमुख्येभ्यस तरैलॊक्ये पावकात्मजः ॥ 90 ॥
एवं स भगवांस तस्मिंस तीर्थे दैत्य कुलान्तकः अभिषिक्तॊ महाराज देव सेनापतिः सुरैः ॥ 91 ॥
औजसं नाम तत तीर्थं यत्र पूर्वम अपां पतिः अभिषिक्तः सुरगणैर वरुणॊ भरतर्षभ ॥ 92 ॥
तस्मिंस तीर्थवरे सनात्वा सकन्दं चाभ्यर्च्य लाङ्गली बराह्मणेभ्यॊ ददौ रुक्मं वासांस्य आभरणानि च ॥ 93 ॥
उषित्वा रजनीं तत्र माधवः परवीरहा पूज्य तीर्थवरं तच च सपृष्ट्वा तॊयं च लाङ्गली हृष्टः परीतमनाश चैव हय अभवन माधवॊत्तमः ॥ 94 ॥
एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि यथाभिषिक्तॊ भगवान सकन्दॊ देवैः समागतैः ॥ 95 ॥
शल्यपर्व · Shalya Parva
अध्याय 45
Reach this point to mark the section finished.
Continue to अध्याय 46