[वै] ततॊ ऽभिषेका संभारान सर्वान संभृत्य शास्त्रतः बृहस्पतिः समिद्धे ऽगनौ जुहावाज्यं यथाविधि ॥ 1 ॥
ततॊ हिमवता दत्ते मणिप्रवर शॊभिते दीव्य रत्नाचिते दिव्ये निषण्णः परमासने ॥ 2 ॥
सर्वमङ्गल संभारैर विधिमन्त्रपुरस्कृतम आभिषेचनिकं दरव्यं गृहीत्वा देवता गणाः ॥ 3 ॥
इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा धाता चैव विधाता च तथा चैवानिलानलौ ॥ 4 ॥
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता रुद्रश च सहितॊ धीमान मित्रेण वरुणेन च ॥ 5 ॥
रुद्रैर वसुभिर आदित्यैर अश्विभ्यां च वृतः परभुः विश्वे देवैर मरुद्भिश च साध्यैश च पितृभिः सह ॥ 6 ॥
गन्धर्वैर अप्सरॊभिश च यक्षराक्षस पन्नगैः देवर्षिभिर असंख्येयैस तथा बरह्मर्षिभिर वरैः ॥ 7 ॥
वैखानसैर वालखिल्यैर वाय्वाहारैर मरीचिपैः भृगुभिश चाङ्गिरॊभिश च यतिभिश च महात्मभिः सर्वैर विद्याधरैः पुण्यैर यॊगसिद्धैस तथा वृतः ॥ 8 ॥
पितामहः पुलस्त्यश च पुलहश च महातपाः अङ्गिराः कश्यपॊ ऽतरिश च मरीचिर भृगुर एव च ॥ 9 ॥
ऋतुर हरः परचेताश च मनुर दक्षस तथैव च ऋतवश च गरहाश चैव जयॊतींषि च विशां पते ॥ 10 ॥
मूर्तिमत्यश च सरितॊ वेदाश चैव सनातनाः समुद्राश च हरदाश चैव तीर्थानि विविधानि च पृथिवी दयौर दिशश चैव पादपाश च जनाधिप ॥ 11 ॥
अदितिर देव माता च हरीः शरीः सवाहा सरस्वती उमा शची सिनीवाली तथा चानुमतिः कुहूः राका च धिषणा चैव पत्न्यश चान्या दिवौकसाम ॥ 12 ॥
हिमवांश चैव विन्ध्यश च मेरुश चानेक शृङ्गवान ऐरावतः सानुचरः कलाः काष्टास तथैव च मासार्ध मासा ऋतवस तथा रात्र्यहनी नृप ॥ 13 ॥
उच्चैःश्रवा हयश्रेष्ठॊ नागराजश च वामनः अरुणॊ गरुडश चैव वृक्षाश चौषधिभिः सह ॥ 14 ॥
धर्मश च भगवान देवः समाजग्मुर हि संगताः कालॊ यमश च मृत्युश च यमस्यानुचराश च ये ॥ 15 ॥
बहुलत्वाच च नॊक्ता ये विविधा देवता गणाः ते कुमाराभिषेकार्थं समाजग्मुस ततस ततः ॥ 16 ॥
जगृहुस ते तदा राजन सर्व एव दिवौकसः आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ॥ 17 ॥
दिव्यसंभार संयुक्तैः कलशैः काञ्चनैर नृप सरस्वतीभिः पुण्याभिर दिव्यतॊयभिर एव तु ॥ 18 ॥
अभ्यषिञ्चन कुमारं वै संप्रहृष्टा दिवौकसः सेनापतिं महात्मानम असुराणां भयावहम ॥ 19 ॥
पुरा यथा महाराज वरुणं वै जलेश्वरम तथाभ्यषिञ्चद भगवान बरह्मा लॊकपितामहः कश्यपश च महातेजा ये चान्ये नानुकीर्तिताः ॥ 20 ॥
तस्मै बरह्मा ददौ परीतॊ बलिनॊ वातरंहसः कामवीर्यधरान सिद्धान महापारिषदान परभुः ॥ 21 ॥
नन्दिषेणं लॊहिताक्षं घण्डा कर्णं च संमतम चतुर्थम अस्यानुचरं खयातं कुमुदमालिनम ॥ 22 ॥
ततः सथाणुं महावेगं महापारिषडं करतुम माया शतधरं कामं कामवीर्यबलान्वितम ददौ सकन्दाय राजेन्द्र सुरारिविनिबर्हणम ॥ 23 ॥
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम जघान दॊर्भ्यां संक्रुद्धः परयुतानि चतुर्दश ॥ 24 ॥
तथा देव ददुस तस्मै सेनां नैरृतसांकुलाम देवशत्रुक्षयकरीम अजय्यां विश्वरूपिणीम ॥ 25 ॥
जयशब्दं ततश चक्रुर देवाः सर्वे सवासवाः गन्धर्वयक्षा रक्षांसि मुनयः पितरस तथा ॥ 26 ॥
यमः परादाद अनुचरौ यम कालॊपमाव उभौ उन्माथं च परमाथं च महावीर्यौ महाद्युती ॥ 27 ॥
सुभ्राजॊ भास्करश चैव यौ तौ सूर्यानुयायिनौ तौ सूर्यः कार्त्तिकेयाय ददौ परीतः परतापवान ॥ 28 ॥
कैलासशृङ्गसंकाशौ शवेतमाल्यानुलेपनौ सॊमॊ ऽपय अनुचरौ परादान मणिं सुमणिम एव च ॥ 29 ॥
जवाला जिह्वं तथा जयॊतिर आत्मजाय हुताशनः ददाव अनुचरौ शूरौ परसैन्यप्रमाथिनौ ॥ 30 ॥
परिघं च वटं चैव भीमं च सुमहाबलम दहतिं दहनं चैव परचण्डौ वीर्यसंमतौ अंशॊ ऽपय अनुचरान पञ्च ददौ सकन्दाय धीमते ॥ 31 ॥
उत्क्रॊशं पङ्कजं चैव वज्रदण्डधराव उभौ ददाव अनल पुत्राय वासवः परवीरहा तौ हि शत्रून महेन्द्रस्य जघ्नतुः समरे बहून ॥ 32 ॥
चक्रं विक्रमकं चैव संक्रमं च महाबलम सकन्दाय तरीन अनुचरान ददौ विष्णुर महायशाः ॥ 33 ॥
वर्धनं नन्दनं चैव सर्वविद्या विशारदौ सकन्दाय ददतुः परीताव अश्विनौ भरतर्षभ ॥ 34 ॥
कुन्दनं कुसुमं चैव कुमुदं च महायशाः डम्बराडम्बरौ चैव ददौ धाता महात्मने ॥ 35 ॥
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलॊत्कटौ ददौ तवष्टा महामायौ सकन्दायानुचरौ वरौ ॥ 36 ॥
सुव्रतं सत्यसंधं च ददौ मित्रॊ महात्मने कुमाराय महात्मानौ तपॊ विद्याधरौ परभुः ॥ 37 ॥
सुदर्शनीयौ वरदौ तरिषु लॊकेषु विश्रुतौ सुप्रभं च महात्मानं शुभकर्माणम एव च कार्त्तिकेयाय संप्रादाद विधाता लॊकविश्रुतौ ॥ 38 ॥
पालितकं कालिकं च महामायाविनाव उभौ पूषा च पार्षदौ परादात कार्त्तिकेयाय भारत ॥ 39 ॥
बलं चातिबलं चैव महावक्त्रौ महाबलौ परददौ कार्त्तिकेयाय वायुर भरतसत्तम ॥ 40 ॥
घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ परददौ कार्त्तिकेयाय वरुणः सत्यसंगरः ॥ 41 ॥
सुवर्च्चसं महात्मानं तथैवाप्य अतिवर्चसाम हिमवान परददौ राजन हुताशनसुताय वै ॥ 42 ॥
काञ्चनं च महात्मानं मेघमालिनम एव च ददाव आनुचरौ मेरुर अग्निपुत्राय भारत ॥ 43 ॥
सथिरं चातिस्थिरं चैव मेरुर एवापरौ ददौ महात्मने ऽगनिपुत्राय महाबलपराक्रमौ ॥ 44 ॥
उच्छ्रितं चातिशृङ्गं च महापाषाण यॊधनौ परददाव अग्निपुत्राय विन्ध्यः पारिषदाव उभौ ॥ 45 ॥
संग्रहं विग्रहं चैव समुद्रॊ ऽपि गदाधरौ परददाव अग्निपुत्राय महापारिषदाव उभौ ॥ 46 ॥
उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च परददाव अग्निपुत्राय पार्वती शुभदर्शना ॥ 47 ॥
जयं महाजयं चैव नागौ जवलनसूनवे परददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः ॥ 48 ॥
एवं साख्याश च रुद्राश च वसवः पितरस तथा सागराः सरितश चैव गिरयश च महाबलाः ॥ 49 ॥
ददुः सेनागणाध्यक्षाञ शूलपट्टिशधारिणः दिव्यप्रहरणॊपेतान नानावेषविभूषितान ॥ 50 ॥
शृणु नामानि चान्येषां ये ऽनये सकन्दस्य सैनिकाः विविधायुधसंपन्नाश चित्राभरण वर्मिणः ॥ 51 ॥
शङ्कुकर्णॊ निकुम्भश च पद्मः कुमुद एव च अनन्तॊ दवादश भुजस तथा कृष्णॊपकृष्णकौ ॥ 52 ॥
दरॊण शरवाः कपिस्कन्धः काञ्चनाक्षॊ जलं धमः अक्षसंतर्जनॊ राजन कुनदीकस तमॊ ऽभरकृत ॥ 53 ॥
एकाक्षॊ दवादशाक्षश च तथैवैक जटः परभुः सहस्रबाहुर विकटॊ वयाघ्राक्षः कषितिकम्पनः ॥ 54 ॥
पुण्यनामा सुनामा च सुवक्त्रः परियदर्शनः परिश्रुतः कॊक नदः परिय माल्यानुलेपनः ॥ 55 ॥
अजॊदरॊ गजशिराः सकन्धाक्षः शतलॊचनः जवाला जिह्वः करालश च सितकेशॊ जटी हरिः ॥ 56 ॥
चतुर्दंष्ट्रॊ ऽषट जिह्वश च मेघनादः पृथुश्रवाः विद्युद अक्षॊ धनुर वक्त्रॊ जठरॊ मारुताशनः ॥ 57 ॥
उदराक्षॊ झषाक्षश च वज्रनाभॊ वसु परभः समुद्रवेगॊ राजेन्द्र शैलकम्पी तथैव च ॥ 58 ॥
पुत्र मेषः परवाहश च तथा नन्दॊपनन्दकौ धूम्रः शवेतः कलिङ्गश च सिद्धार्थॊ वरदस तथा ॥ 59 ॥
परियकश चैव नन्दश च गॊनन्दश च परतापवान आनन्दश च परमॊदश च सवस्तिकॊ धरुवकस तथा ॥ 60 ॥
कषेमवापः सुजातश च सिद्धयात्रश च भारत गॊव्रजः कनकापीडॊ महापारिषदेश्वरः ॥ 61 ॥
गायनॊ हसनश चैव बाणः खड्गश च वीर्यवान वैताली चातिताली च तथा कतिक वातिकौ ॥ 62 ॥
हंसजः पङ्कदिग्धाङ्गः समुद्रॊन्मादनश च ह रणॊत्कटः परहासश च शवेतशीर्षश च नन्दकः ॥ 63 ॥
कालकण्ठः परभासश च तथा कुम्भाण्डकॊ ऽपरः कालकाक्षः सितश चैव भूतलॊन्मथनस तथा ॥ 64 ॥
यज्ञवाहः परवाहश च देव याजी च सॊमपः सजालश च महातेजाः करथ कराथौ च भारत ॥ 65 ॥
तुहनश च तुहानश च चित्रदेवश च वीर्यवान मधुरः सुप्रसादश च किरीटी च महाबलः ॥ 66 ॥
वसवॊ मधुवर्णश च कलशॊदर एव च धमन्तॊ मन्मथकरः सूचीवक्त्रश च वीर्यवान ॥ 67 ॥
शवेतवक्त्रः सुवक्त्रश च चारु वक्त्रश च पाण्डुरः दण्डबाहुः सुबाहुश च रजः कॊकिलकस तथा ॥ 68 ॥
अचलः कनकाक्षश च बालानाम अयिकः परभुः संचारकः कॊक नदॊ गृध्रवक्त्रश च जम्बुकः ॥ 69 ॥
लॊहाश वक्त्रॊ जठरः कुम्भवक्त्रश च कुण्डकः मद्गुग्रीवश च कृष्णौजा हंसवक्त्रश च चन्द्र भाः ॥ 70 ॥
पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश च शिक्षकः चाष वक्त्रश च जम्बूकः शाकवक्त्रश च कुण्डकः ॥ 71 ॥
यॊगयुक्ता महात्मानः सततं बराह्मण परियाः पैतामहा महात्मानॊ महापारिषदाश च ह यौवनस्थाश च बालाश च वृद्धाश च जनमेजय ॥ 72 ॥
सहस्रशः पारिषदाः कुमारम उपतस्थिरे वक्त्रैर नानाविधैर ये तु शृणु ताञ जनमेजय ॥ 73 ॥
कूर्मकुक्कुटवक्त्राश च शशॊलूक मुखास तथा खरॊष्ट्रवदनाश चैव वराहवदनास तथा ॥ 74 ॥
मनुष्यमेष वक्त्राश च सृगालवदनास तथा भीमा मकर वक्त्राश च शिशुमार मुखास तथा ॥ 75 ॥
मार्जारशशवक्त्राश च दीर्घवक्त्राश च भारत नकुलॊलूक वत्राश च शववाक्त्राश च तथापरे ॥ 76 ॥
आखु बभ्रुक वक्त्रश च मयूरवदनास तथा मत्स्यमेषाननाश चान्ये अजावि महिषाननाः ॥ 77 ॥
ऋक्षशार्दूल वक्त्राश च दवीपिसिंहाननास तथा भीमा गजाननाश चैव तथा नक्रमुखाः परे ॥ 78 ॥
गरुडाननाः खड्गमुखा वृककाकमुखास तथा गॊखरॊष्ट्र मुखाश चान्ये वृषदंश मुखास तथा ॥ 79 ॥
महाजठर पादाङ्गास तारकाक्शाश च भारत पारावत मुखाश चान्ये तथा वृषमुखाः परे ॥ 80 ॥
कॊकिला वदनाश चान्ये शयेनतित्तिरिकाननाः कृकलास मुखाश चैव विरजॊऽमबरधारिणः ॥ 81 ॥
वयालवक्त्राः शूलमुखाश चण्डवक्त्राः शताननाः आशीविषाश चीरधरा गॊनासावरणास तथा ॥ 82 ॥
सथूलॊदराः कृशाङ्गाश च सथूलाङ्गश च कृशॊदराः हरस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः ॥ 83 ॥
गजेन्द्र चर्म वसनास तथा कृष्णाजिनाम्बराः सकन्धे मुखा महाराज तथा हय उदरतॊ मुखाः ॥ 84 ॥
पृष्ठे मुखा हनुमुखास तथा जङ्घा मुखा अपि पार्श्वाननाश च बहवॊ नानादेशमुखास तथा ॥ 85 ॥
तथा कीट पतंगानां सदृशास्या गणेश्वराः नानाव्यालमुखाश चान्ये बहु बाहुशिरॊ धराः ॥ 86 ॥
नानावृक्षभुजाः केच चित कटि शीर्षास तथापरे भुजंगभॊग वदना नानागुल्मनिवासिनः ॥ 87 ॥
चीरसंवृत गात्राश च तथा फलकवाससः नानावेषधराश चैव चर्म वासस एव च ॥ 88 ॥
उष्णीषिणॊ मुकुटिनः कम्बुग्रीवाः सुवर्चसः किरीटिनः पञ्च शिखास तथा कठिन मूर्धजाः ॥ 89 ॥
तरिशिठा दविशिखाश चैव तथा सप्त शिखाः परे शिखण्डिनॊ मुकुटिनॊ मुण्डाश च जटिलास तथा ॥ 90 ॥
चित्रमाल्यधराः केच चित केच चिद रॊमाननास तथा दिव्यमाल्याम्बरधराः सततं परियविग्रहाः ॥ 91 ॥
कृष्णा निर्मांस वक्त्राश च दीर्घपृष्टा निरूदराः सथूलपृष्ठा हरस्वपृष्ठाः परलम्बॊदर मेहनाः ॥ 92 ॥
महाभुजा हरस्वभुजा हरस्वगात्रश च वामनाः कुब्जाश च दीर्घजङ्घाश च हस्तिकर्ण शिरॊधराः ॥ 93 ॥
हस्तिनासाः कूर्मनासा वृकनासास तथापरे दीर्घौष्ठा दीर्घजिह्वाश च विकराला हय अधॊमुखाः ॥ 94 ॥
महादंष्ट्रा हरस्वदंष्ट्राश चतुर्दंष्ट्रास तथापरे वारणेन्द्र निभाश चान्ये भीमा राजन सहस्रशः ॥ 95 ॥
सुविभक्तशरीराश च दीप्तिमन्तः सवलंकृताः पिङ्गाक्षाः शङ्कुकर्णाश च वक्रनासाश च भारत ॥ 96 ॥
पृथु दंष्ट्रामहा दंष्ट्राः सथूलौष्ठा हरि मूर्धजाः नाना पादौष्ठ दंष्ट्राश च नाहा हस्तशिरॊ धराः नाना वर्मभिर आच्छन्ना नाना भाषाश च भारत ॥ 97 ॥
कुशला देशभाषासु जल्पन्तॊ ऽनयॊन्यम ईश्वराः हृष्टाः परिपतन्ति सम महापारिषदास तथा ॥ 98 ॥
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरॊ भुजाः पिङ्गाक्षा नीलकण्ठाश च लम्बकर्णाश च भारत ॥ 99 ॥
वृकॊदर निभाश चैव के चिद अञ्जनसंनिभाः शवेताङ्गा लॊहितग्रीवाः पिङ्गाक्षाश च तथापरे कल्माषा बहवॊ राजंश चित्रवर्णाश च भारत ॥ 100 ॥
चामरापीडक निभाः शवेतलॊहित राजयः नानावर्णाः सवर्णाश च मयूरसदृशप्रभाः ॥ 101 ॥
पुनः परहरणान्य एषां कीर्त्यमानानि मे शृणु शेषैः कृतं पारिषदैर आयुधानां परिग्रहम ॥ 102 ॥
पाशॊद्यत कराः के चिद वयादितास्याः खराननाः पृथ्व अक्षा नीलकण्ठाश च तथा परिघबाहवः ॥ 103 ॥
शतघ्नी चक्रहस्ताश च तथा मुसलपाणयः शूलासिहस्ताश च तथा महाकाया महाबलाः ॥ 104 ॥
गदा भुशुण्डि हस्ताश च तथा तॊमरपाणयः असि मुद्गरहस्ताश च दण्डहस्ताश च भारत ॥ 105 ॥
आयुधैर विविधैर घॊरैर महात्मानॊ महाजवाः महाबला महावेगा महापारिषदास तथा ॥ 106 ॥
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः घण्टाजालपिनद्धाङ्गा ननृतुस ते महौजसः ॥ 107 ॥
एते चान्ये च बहवॊ महापारिषदा नृप उपतस्थुर महात्मानं कार्त्तिकेयं यशस्विनम ॥ 108 ॥
दिव्याश चाप्य आन्तरिक्षाश च पार्थिवाश चानिलॊपमाः वयादिष्टा दैवतैः शूराः सकन्दस्यानुचराभवन ॥ 109 ॥
तादृशानां सहस्राणि परयुतान्य अर्बुदानि च अभिषिक्तं महात्मानं परिवार्यॊपतस्थिरे ॥ 110 ॥
शल्यपर्व · Shalya Parva
अध्याय 44
Reach this point to mark the section finished.
Continue to अध्याय 45