धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 43

  1. [ज] सरस्वत्याः परभावॊ ऽयम उक्तस ते दविजसात्तम कुमारस्याभिषेकं तु बरह्मन वयाख्यातुम अर्हसि ॥ 1 ॥

  2. यस्मिन काले च देशे च यथा च वदतां वर यैश चाभिषिक्तॊ भगवान विधिना येन च परभुः ॥ 2 ॥

  3. सकन्दॊ यथा च दैत्यानाम अकरॊत कदनं महत तथा मे सर्वम आचक्ष्व परं कौतूहलं हि मे ॥ 3 ॥

  4. [वै] कुरुवंशस्य सदृशम इदं कौतूहलं तव हर्षाम उत्पादयत्य एतद वचॊ मे जनमेजय ॥ 4 ॥

  5. हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप अभिषेकं कुमारस्य परभावं च महात्मनः ॥ 5 ॥

  6. तेजॊ माहेश्वरं सकन्नम अग्नौ परपतितं पुरा तत सर्वभक्षॊ भगवान नाशकद दग्धुम अक्षयम ॥ 6 ॥

  7. तेनासीदति तेजस्वी दीप्तिमान हव्यहावनः न चैव धारयाम आस गर्भं तेजॊमयं तदा ॥ 7 ॥

  8. सा गङ्गाम अभिसांगम्य नियॊगाद बरह्मणः परभुः गर्भम आहितवान दिव्यं भास्करॊपम तेजसम ॥ 8 ॥

  9. अथ गङ्गापि तं गर्भम असहन्ती विधारणे उत्ससर्ज गिरौ रम्ये हिमवत्य अमरार्चिते ॥ 9 ॥

  10. स तत्र ववृधे लॊकान आवृत्य जवलनात्मजः ददृशुर जवलनाकारं तं गर्भम अथ कृत्तिकाः ॥ 10 ॥

  11. शरस्तम्बे महात्मानम अनलात्मजम ईश्वरम ममायम इति ताः सर्वाः पुत्रार्थिन्यॊ ऽभिचक्रमुः ॥ 11 ॥

  12. तासां विदित्वा भावं तं मातॄणां भगवान परभुः परस्नुतानां पयः षड्भिर वदनैर अपिबत तदा ॥ 12 ॥

  13. तं परभावं समालक्ष्य तस्य बालस्य कृत्तिकाः परं विस्मयम आपन्ना देव्यॊ दिव्यवपुर धराः ॥ 13 ॥

  14. यत्रॊत्सृष्टः स भगवान गङ्गया गिरिमूर्धनि स शैलः काञ्चनः सर्वः संबभौ कुरुसत्तम ॥ 14 ॥

  15. वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता अतश च सर्वे संवृत्ता गिरयः काञ्चनाकराः ॥ 15 ॥

  16. कुमारश च महावीर्यः कार्त्तिकेय इति समृतः गाङ्गेयः पूर्वम अभवन महायॊगबलान्वितः ॥ 16 ॥

  17. स देवस तपसा चैव वीर्येण च समन्वितः ववृधे ऽतीव राजेन्द्र चन्द्रवत परियदर्शनः ॥ 17 ॥

  18. स तस्मिन काञ्चने दिव्ये शरस्तम्बे शरिया वृतः सतूयमानस तदा शेते गन्धर्वैर मुनिभिस तथा ॥ 18 ॥

  19. तथैनम अन्वनृत्यन्त देवकन्याः सहस्रशः दिव्यवादित्र नृत्तज्ञाः सतुवन्त्यश चारुदर्शनाः ॥ 19 ॥

  20. अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा दधार पृथिवी चैनं बिभ्रती रूपम उत्तमम ॥ 20 ॥

  21. जातकर्मादिकास तस्य करियाश चक्रे बृहस्पतिः वेदश चैनं चतुर्मूर्तिर उपतस्थे कृताञ्जलिः ॥ 21 ॥

  22. धनुर्वेदश चतुष्पादः शस्त्रग्रामः ससंग्रहः तथैनं समुपातिष्ठात साक्षाद वाणी च केवला ॥ 22 ॥

  23. स ददर्श महावीर्यं देवदेवम उमापतिम शैलपुत्र्या सहासीनं भूतसंघ शतैर वृतम ॥ 23 ॥

  24. निकाया भूतसंघानां परंमाद्भुत दर्शनाः विकृता विकृताकारा विकृताभरण धवजाः ॥ 24 ॥

  25. वयाघ्रसिंहर्क्ष वदना बिडाल मकराननाः वृषदंश मुखाश चान्ये गजॊष्ट्रवदनास तथा ॥ 25 ॥

  26. उलूक वदनाः के चिद गृध्रगॊमायुदर्शनाः करौञ्चपारावत निभैर वदनै राङ्कवैर अपि ॥ 26 ॥

  27. शवावित शक्यक गॊधानां खरैडक गवां तथा सादृशानि वपूंष्य अन्ये तत्र तत्र वयधारयन ॥ 27 ॥

  28. के चिच छैलाम्बुद परख्याश चक्रालात गदायुधाः केच चिद अञ्जन पुञ्जाभाः के चिच छवेताचलप्रभाः ॥ 28 ॥

  29. सप्त मातृगणाश चैव समाजग्मुर विशां पते साध्या विश्वे ऽथ मरुतॊ वसवः पितरस तथा ॥ 29 ॥

  30. रुद्रादित्यास तथा सिद्धा भुजगां दानवाः खगाः बरह्मा सवयम्भूर भगवान सपुत्रः सह विष्णुना ॥ 30 ॥

  31. शक्रस तथाभ्ययाद दरष्टुं कुमार वरम अच्युतम नारदप्रमुखाश चापि देवगन्धर्वसत्तमाः ॥ 31 ॥

  32. देवर्षयश च सिद्धाश च बृहस्पतिपुरॊगमाः ऋब्भवॊ नाम वरदा देवानाम अपि देवताः ते ऽपि तत्र समाजग्मुर यामा धामाश च सर्वशः ॥ 32 ॥

  33. स तु बालॊ ऽपि भगवान महायॊगबलान्वितः अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम ॥ 33 ॥

  34. तम आरजन्तम आलक्ष्य शिवस्यासीन मनॊगतम युगपच छैलपुत्र्याश च गङ्गायाः पावकस्य च ॥ 34 ॥

  35. किं नु पूर्वम अयं बालॊ गौरवाद अभ्युपैष्यति अपि माम इति सर्वेषां तेषाम आसीन मनॊगतम ॥ 35 ॥

  36. तेषाम एतम अभिप्रायं चतुर्णाम उपलक्ष्य सः युगपद यॊगम आस्थाय ससार्ज विविधास तनूः ॥ 36 ॥

  37. ततॊ ऽभवच चतुर्मूर्तिः कषणेन भगवान परभुः सकन्दः शाखॊ विशाखश च नैगमेषश च पृष्ठतः ॥ 37 ॥

  38. एवं स कृत्वा हय आत्मानं चतुर्धा भगवान परभुः यतॊ रुद्रस ततः सकन्दॊ जगामाद्भुत दर्शनः ॥ 38 ॥

  39. विशाखस तु ययौ येन देवी गिरिवरात्मजा शाखॊ ययौ च भगवान वायुमूर्तिर विभावसुम नैगमेषॊ ऽगमद गङ्गां कुमारः पावकप्रभः ॥ 39 ॥

  40. सर्वे भास्वरदेहास ते चत्वारः समरूपिणः तान समभ्ययुर अव्यग्रास तद अद्भुतम इवाभवत ॥ 40 ॥

  41. हाहाकारॊ महान आसीद देवदानवरक्षसाम तद दृष्ट्वा महद आश्चर्यम अद्भुतं लॊमहर्षणम ॥ 41 ॥

  42. ततॊ रुद्रश च देवी च पावकश च पितामहम गङ्गया सहिताः सर्वे परणिपेतुर जगत्पतिम ॥ 42 ॥

  43. परणिपत्य ततस ते तु विधिवद राजपुंगव इदम ऊचुर वचॊ राजन कार्त्तिकेय परियेप्सया ॥ 43 ॥

  44. अस्य बालस्य भगवन्न आधिपत्यं यथेप्सितम अस्मिन परियार्थं देवेश सादृशं दातुम अर्हसि ॥ 44 ॥

  45. ततः स भगवान धीमान सर्वलॊकपितामहः मनसा चिन्तयाम आस किम अयं लभताम इति ॥ 45 ॥

  46. ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम भूतयक्षविहंगानां पन्नगानां च सर्वशः ॥ 46 ॥

  47. पूर्वम एवादिदेशासौ निकायेषु महात्मनाम समर्थं च तम ऐश्वर्ये महामतिर अमन्यत ॥ 47 ॥

  48. ततॊ मुहूर्तं स धयात्वा देवानां शरेयसि सथितः सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत ॥ 48 ॥

  49. सर्वदेव निकायानां ये राजानः परिश्रुताः तान सर्वान वयादिदेशास्मै सर्वभूतपितामहः ॥ 49 ॥

  50. ततः कुमारम आदाय देवा बरह्मपुरॊगमाः अभिषेकार्थम आजग्मुः शैलेन्द्रं सहितास ततः ॥ 50 ॥

  51. पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम समन्तपञ्चके या वै तरिषु लॊकेषु विश्रुता ॥ 51 ॥

  52. तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते निषेदुर देवगन्धर्वाः सर्वे संपूर्णमानसाः ॥ 52 ॥

Reach this point to mark the section finished.

Continue to अध्याय 44

Previous: अध्याय 42