धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 42

  1. [स] सा शप्ता तेन करुद्धेन विश्वामित्रेण धीमता तस्मिंस तीर्थवरे शुभ्रे शॊणितं समुपावहत ॥ 1 ॥

  2. अथाजग्मुस ततॊ राजन राक्षसास तत्र भारत तत्र ते शॊणितं सर्वे पिबन्तः सुखम आसते ॥ 2 ॥

  3. तृप्ताश च सुभृशं तेन सुखिता विगतज्वराः नृत्यन्तश च हसन्तश च यथा सवर्गजितस तथा ॥ 3 ॥

  4. कस्य चित तव अथ कालस्य ऋषयः सतपॊ धनाः तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ॥ 4 ॥

  5. तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुंगवाः पराप्य परीतिं परां चापि तपॊ लुब्धा विशारदाः परययुर हि ततॊ राजन येन तीर्थं हि तत तथा ॥ 5 ॥

  6. अथागम्य महाभागास तत तीर्थं दारुणं तदा दृष्ट्वा तॊयं सरस्वत्याः शॊणितेन परिप्लुतम पीयमानं च रक्षॊभिर बहुभिर नृपसत्तम ॥ 6 ॥

  7. तान दृष्ट्व राक्षसान राजन मुनयः संशितव्रताः पारित्राणे सरस्वत्याः परं यत्नं परचक्रिरे ॥ 7 ॥

  8. ते तु सर्वे महाभागाः समागम्य महाव्रताः आहूय सरितां शरेष्ठाम इदं वचनम अब्रुवन ॥ 8 ॥

  9. कारणं बरूहि कल्याणि किमर्थं ते हरदॊ हय अयम एवम आकुलतां यातः शरुत्वा पास्यामहे वयम ॥ 9 ॥

  10. ततः सा सर्वम आच्चष्ट यथावृत्तं परवेपती दुःखिताम अथ तां दृष्ट्वा त ऊचुर वै तपॊधनाः ॥ 10 ॥

  11. कारणं शरुतम अस्माभिः शापाश चैव शरुतॊ ऽनघ करिष्यन्ति तु यत पराप्तं सर्व एव तपॊधनाः ॥ 11 ॥

  12. एवम उक्त्वा सरिच्छ्रेष्ठाम ऊचुस ते ऽथ परस्परम विमॊचयामहे सर्वे शापाद एतां सरस्वतीम ॥ 12 ॥

  13. तेषां तु वचनाद एव परकृतिस्था सरस्वती परसान्न सालिला जज्ञे यथापूर्वं तथैव हि विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ॥ 13 ॥

  14. दृष्ट्वा तॊयं सरस्वत्या मुनिभिस तैस तथा कृतम कृताञ्जलीस ततॊ राजन राक्षसाः कषुधयार्दिताः ऊचुस तान वै मुनी सर्वान कृपा युक्तान पुनः पुनः ॥ 14 ॥

  15. वयं हि कषुधिताश चैव धार्माद धीनाश च शाश्वतात न च नः कामकारॊ ऽयं यद वयं पापकारिणः ॥ 15 ॥

  16. युष्माकं चाप्रमादेन दुष्कृतेन च कर्मणा पक्षॊ ऽयं वर्धते ऽसमाकं यतः सम बरह्मराक्षसाः ॥ 16 ॥

  17. एवं हि वैश्यशूद्राणां कषत्रियाणां तथैव च ये बराह्मणान परद्विषान्ति ते भवन्तीह राक्षसाः ॥ 17 ॥

  18. आचार्यम ऋत्विजं चैव गुरुं वृद्धजनं तथा पराणिनॊ ये ऽवमन्यन्ते ते भवन्तीह राक्षसाः यॊषितां चैव पापानां यॊनिदॊषेण वर्धते ॥ 18 ॥

  19. तत कुरुध्वम इहास्माकं कारुण्यं दविजसत्तमाः शक्ता भवन्तः सर्वेषां लॊकानाम अपि तारणे ॥ 19 ॥

  20. तेषां ते मुनयः शरुत्वा तुष्टुवुस तां महानदीम मॊक्षार्थं रक्षसां तेषाम ऊचुः परयत मानसाः ॥ 20 ॥

  21. कषुत कीटावपन्नं च यच चॊच्छिष्टाशितं भवेत केशावपन्नम आधूतम आरुग्णम अपि यद भवेत शवभिः संस्पृष्टम अन्नं च भागॊ ऽसौ रक्षसाम इह ॥ 21 ॥

  22. तस्माज जञात्वा सदा विद्वान एतान्य अन्नानि वर्जयेत राक्षसान्नम असौ भुङ्क्ते यॊ भुङ्क्ते हय अन्नम ईदृशम ॥ 22 ॥

  23. शॊधयित्वा ततस तीर्थम ऋषयस ते तपॊधनाः मॊक्षार्थं राक्षसानां च नदीं तां परत्यचॊदयन ॥ 23 ॥

  24. महर्षीणां मतं जञात्वा ततः सा सरितां वरा अरुणाम आनयाम आस सवां तनुं पुरुषर्षभ ॥ 24 ॥

  25. तस्यां ते राक्षसाः सनात्वा तनूस तयक्त्वा दिवं गताः अरुणायां महाराज बरह्महत्यापहा हि सा ॥ 25 ॥

  26. एतम अर्थम अभिज्ञाय देवराजः शतक्रतुः तस्मिंस तीर्थवरे सनात्वा विमुक्तः पाप्मना किल ॥ 26 ॥

  27. [ज] किमर्थं भगवाञ शक्रॊ बरह्महत्याम अवाप्तवान कथम अस्मिंश च तीर्थे वै आप्लुत्याकल्मशॊ ऽभवत ॥ 27 ॥

  28. [वै] शृणुष्वैतद उपाख्यानं यथावृत्तं जनेश्वर यथा बिभेद समयं नमुचेर वासवः पुरा ॥ 28 ॥

  29. नमुचिर वासवाद भीतः सूर्यरश्मिं समाविशत तेनेन्द्रः सख्यम अकरॊत समयं चेदम अब्रवीत ॥ 29 ॥

  30. नार्द्रेण तवा न शुष्केण न रात्रौ नापि वाहनि वधिष्याम्य असुरश्रेष्ठ सखे सत्येन ते शपे ॥ 30 ॥

  31. एवं स कृत्वा समयं सृष्ट्वा नीहारम ईश्वरः चिच्छेदास्य शिरॊ राजन्न अपां फेनेन वासवः ॥ 31 ॥

  32. तच्छिरॊ नमुचेश छिन्नं पृष्ठतः शक्रम अन्वयात हे मित्रहन पाप इति बरुवाणं शक्रम अन्तिकात ॥ 32 ॥

  33. एवं स शिरसा तेन चॊद्यमानः पुनः पुनः पितामहाय संतप्त एवम अर्थं नयवेदयत ॥ 33 ॥

  34. तम अब्रवील लॊकगुरुर अरुणायां यथाविधि इष्टॊपस्पृश देवेन्द्र बरह्महत्यापहा हि सा ॥ 34 ॥

  35. इत्य उक्तः सा सरस्वत्याः कुञ्जे वै जनमेजय इष्ट्वा यथावद बलभिर अरुणायाम उपास्स्पृशत ॥ 35 ॥

  36. स मुक्तः पाप्मना तेन बरह्महत्या कृतेन ह जगाम संहृष्टमनास तरिदिवं तरिदशेश्वरः ॥ 36 ॥

  37. शिरस तच चापि नमुचेस तत्रैवाप्लुत्य भारत लॊकान कामदुघान पराप्तम अक्षयान राजसत्तम ॥ 37 ॥

  38. तत्राप्य उपस्पृश्य बलॊ महात्मा; दत्त्वा च दानानि पृथग्विधानि अवाप्य धर्मं परमार्य कर्मा; जगाम सॊमस्य महत स तीर्थम ॥ 38 ॥

  39. यत्राजयद राजसूयेन सॊमः; साक्षात पुरा विधिवत पार्थिवेन्द्र अत्रिर धीमान विप्रमुख्यॊ बभूव; हॊता यस्मिन करतुमुख्ये महात्मा ॥ 39 ॥

  40. यस्यान्ते ऽभूत सुमहान दानवानां; दैतेयानां राक्षसानां च देवैः स संग्रामस तारकाख्यः सुतीव्रॊ; यत्र सकन्दस तारकाख्यं जघान ॥ 40 ॥

  41. सेनापत्यं लब्धवान देवतानां; महासेनॊ यत्र दैत्यान्त कर्ता साक्षाच चात्र नयवसत कार्त्तिकेयः; सदा कुमारॊ यत्र स पलक्षराजः ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 43

Previous: अध्याय 41