[ज] वसिष्ठस्यापवाहॊ वै भीमवेगः कथं नु सः किमर्थं च सरिच्छ्रेष्ठा तम ऋषिं परत्यवाहयत ॥ 1 ॥
केन चास्याभवद वैरं कारणं किं च तत परभॊ शंस पृष्टॊ महाप्राज्ञ न हि तृप्यामि कथ्यताम ॥ 2 ॥
[वै] विश्वामित्रस्य चैवर्षेर वसिष्ठस्य च भारत भृशं वैरम अभूद राजंस तपः सपर्धा कृतं महत ॥ 3 ॥
आश्रमॊ वै वसिष्ठस्य सथाणुतीर्थे ऽभवन महान पूर्वतः पश्चिमश चासीद विश्वामित्रस्य धीमतः ॥ 4 ॥
यत्र सथाणुर महाराज तप्तवान सुमहत तपः यत्रास्य कर्म तद घॊरं परवदन्ति मनीषिणः ॥ 5 ॥
यत्रेष्ट्वा भगवान सथाणुः पूजयित्वा सरस्वतीम सथापयाम आस तत तीर्थं सथाणुतीर्थम इति परभॊ ॥ 6 ॥
तत्र सर्वे सुराः सकन्दम अभ्यषिञ्चन नराधिप सेनापत्येन महता सुरारिविनिबर्हणम ॥ 7 ॥
तस्मिन सरस्वती तीर्थे विश्वामित्रॊ महामुनिः वसिष्ठं चालयाम आस तपसॊग्रेण तच छृणु ॥ 8 ॥
विश्वामित्र वसिष्ठौ ताव अहन्य अहनि भारत सपर्धां तपः कृतां तीव्रां चक्रतुस तौ तपॊधनौ ॥ 9 ॥
तत्राप्य अधिकसंतापॊ विश्वामित्रॊ महामुनिः दृष्ट्वा तेजॊ वसिष्ठस्य चिन्ताम अभिजगाम ह तस्य बुद्धिर इयं हय आसीद धर्मनित्यस्य भारत ॥ 10 ॥
इयं सरस्वती तूर्णं मत्समीपं तपॊधनम आनयिष्यति वेगेन वसिष्ठं जपतां वरम इहागतं दविजश्रेष्ठं हनिष्यामि न संशयः ॥ 11 ॥
एवं निश्चित्य भगवान विश्वामित्रॊ महामुनिः सस्मार सरितां शरेष्ठां करॊधसंरक्तलॊचनः ॥ 12 ॥
सा धयाता मुनिना तेन वयाकुलत्वं जगाम ह जज्ञे चैनं महावीर्यं महाकॊपं च भामिनी ॥ 13 ॥
तत एनं वेपमाना विवर्णा पराञ्जलिस तदा उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ॥ 14 ॥
हतवीरा यथा नारी साभवद दुःखिता भृशम बरूहि किं करवाणीति परॊवाच मुनिसत्तमम ॥ 15 ॥
ताम उवाच मुनिः करुद्धॊ वसिष्ठं शीघ्रम आनय यावद एनं निहन्म्य अद्य तच छरुत्वा वयथिता नदी ॥ 16 ॥
साञ्जलिं तु तथा कृत्वा पुण्डरीकनिभेक्षणा विव्यथे सुविरूढेव लता वायुसमीरिता ॥ 17 ॥
तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम विश्वामित्रॊ ऽबरवीत करॊधॊ वसिष्ठं शीघ्रम आनय ॥ 18 ॥
ततॊ भीता सरिच्छ्रेष्ठा चिन्तयाम आस भारत उभयॊः शापयॊर भीता कथम एतद भविष्यति ॥ 19 ॥
साभिगम्य वसिष्ठं तु इमम अर्थम अचॊदयत यद उक्ता सरितां शरेष्ठा विश्वामित्रेण धीमता ॥ 20 ॥
उभयॊः शापयॊर भीता वेपमाना पुनः पुनः चिन्तयित्वा महाशापम ऋषिवित्रासिता भृशम ॥ 21 ॥
तां कृशां च विवर्णां च दृष्ट्वा चिन्ता समन्विताम उवाच राजन धर्मात्मा वसिष्ठॊ दविपदां वरः ॥ 22 ॥
तराह्य आत्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी विश्वामित्रः शपेद धि तवां मा कृथास तवं विचारणाम ॥ 23 ॥
तस्य तद वचनं शरुत्वा कृपा शीलस्य सा सरित चिन्तयाम आस कौरव्य किं कृतं सुकृतं भवेत ॥ 24 ॥
तस्याश चिन्ता समुत्पन्ना वसिष्ठॊ मय्य अतीव हि कृतवान हि दयां नित्यं तस्य कार्यं हितं मया ॥ 25 ॥
अथ कूले सवके राजञ जपन्तम ऋषिसत्तमम जुह्वानं कौशिकं परेक्ष्य सरस्वत्य अभ्यचिन्तयत ॥ 26 ॥
इदम अन्तरम इत्य एव ततः सा सरितां वरा कूलापहारम अकरॊत सवेन वेगेन सा सरित ॥ 27 ॥
तेन कूलापहारेण मैत्रावरुणिर औह्यत उह्यमानश च तुष्टाव तदा राजन सरस्वतीम ॥ 28 ॥
पितामहस्य सरसः परवृत्तासि सरस्वति वयाप्तं चेदं जगत सर्वं तवैवाम्भॊभिर उत्तमैः ॥ 29 ॥
तवम एवाकाशगा देवि मेघेषूत्सृजसे पयः सर्वाश चापस तवम एवेति तवत्तॊ वयम अधीमहे ॥ 30 ॥
पुष्टिर दयुतिस तथा कीर्तिः सिद्धिर वृद्धिर उमा तथा तवम एव वाणी सवाहा तवं तवय्य आयत्तम इदं जगत तवम एव सर्वभूतेषु वससीह चतुर्विधा ॥ 31 ॥
एवं सरस्वती राजन सतूयमाना महर्षिणा वेगेनॊवाह तं विप्रं विश्वामित्राश्रमं परति नयवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम ॥ 32 ॥
तम आनीतं सरस्वत्या दृष्ट्वा कॊपसमन्वितः अथान्वेषत परहरणं वसिष्ठान्त करं तदा ॥ 33 ॥
तं तु करुद्धम अभिप्रेक्ष्य बरह्महत्या भयान नदी अपॊवाह वसिष्ठं तु पराचीं दिशम अतन्द्रिता उभयॊः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम ॥ 34 ॥
ततॊ ऽपवाहितं दृष्ट्वा वसिष्ठम ऋषिसत्तमम अब्रवीद अथ संक्रुद्धॊ विश्वामित्रॊ हय अमर्षणः ॥ 35 ॥
यस्मान मा तवं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर गता शॊणितं वह कल्याणि रक्षॊ गरामणि संमतम ॥ 36 ॥
ततः सरस्वती शप्ता विश्वामित्रेण धीमता अवहच छॊणितॊन्मिश्रं तॊयं संवत्सरं तदा ॥ 37 ॥
अथर्षयश च देवाश च गन्धर्वाप्सरसस तथा सरस्वतीं तथा दृष्ट्वा बभूवुर भृशदुःखिताः ॥ 38 ॥
एवं वसिष्ठापवाहॊ लॊके खयातॊ जनाधिप आगच्छच च पुनर मार्गं सवम एव सरितां वरा ॥ 39 ॥
शल्यपर्व · Shalya Parva
अध्याय 41
Reach this point to mark the section finished.
Continue to अध्याय 42