[वै] बरह्मयॊनिभिर आकीर्णं जगाम यदुनन्दनः यत्र दाल्भ्यॊ बकॊ राजन पश्वर्थसुमहा तपाः जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः ॥ 1 ॥
तपसा घॊररूपेणकर्शयन देहम आत्मनः करॊधेन महताविष्टॊ धर्मात्मा वै परतापवान ॥ 2 ॥
पुरा हि नैमिषेयाणां सत्रे दवादश वार्षिके वृत्ते विश्वजितॊ ऽनते वै पाञ्चालान ऋषयॊ ऽगमन ॥ 3 ॥
तत्रेश्वरम अयाचन्त दक्षिणार्थं मनीषिणः बलान्वितान वत्सतरान निर्व्याधीन एकविंशतिम ॥ 4 ॥
तान अब्रवीद बकॊ वृद्धॊ विभजध्वं पशून इति पशून एतान अहं तयक्त्वा भिक्षिष्ये राजसत्तमम ॥ 5 ॥
एवम उक्त्वा ततॊ राजन्न ऋषीन सर्वान परतापवान जगाम धृतराष्ट्रस्य भवनं बराह्मणॊत्तमः ॥ 6 ॥
स समीपगतॊ भूत्वा धृतराष्ट्रं जनेश्वरम अयाचत पशून दाल्भ्यः स चैनं रुषितॊ ऽबरवीत ॥ 7 ॥
यदृच्छया मृता दृष्ट्वा गास तदा नृपसत्तम एतान पशून नयक्षिप्रं बरह्म बन्धॊ यदीच्छसि ॥ 8 ॥
ऋषिस तव अथ वचः शरुत्वा चिन्तयाम आस धर्मवित अहॊ बत नृशंसं वै वाक्यम उक्तॊ ऽसमि संसदि ॥ 9 ॥
चिन्तयित्वा मुहूर्तं च रॊषाविष्टॊ दविजॊत्तमः मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥ 10 ॥
स उत्कृत्य मृतानां वै मांसानि दविजसत्तमः जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ॥ 11 ॥
अवकीर्णे सरस्वत्यास तीर्थे परज्वाल्य पावकम बकॊ दाल्भ्यॊ महाराज नियमं परम आस्थितः स तैर एव जुहावास्य राष्ट्रं मांसैर महातपाः ॥ 12 ॥
तस्मिंस तु विधिवत सत्रे संप्रवृत्ते सुदारुणे अक्षीयत ततॊ राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥ 13 ॥
छिद्यमान यथानन्तं वनं परशुना विभॊ बभूवापहतं तच चाप्य अवकीर्णम अचेतनम ॥ 14 ॥
दृट्वा तद अवकीर्णं तु राष्ट्रं स मनुजाधिपः बभूव दुर्मना राजंश चिन्तयाम आस च परभुः ॥ 15 ॥
मॊक्षार्थम अकरॊद यत्नं बराह्मणैः सहितः पुरा अथासौ पार्थिवः खिन्नस ते च विप्रास तदा नृप ॥ 16 ॥
यदा चापि न शक्नॊति राष्ट्रं मॊचयितुं नृप अथ वैप्राश्निकांस तत्र पप्रच्छ जनमेजय ॥ 17 ॥
ततॊ वैप्राश्निकाः पराहुः पशुविप्रकृतस तवया मांसैर अभिजुहॊतीति तव राष्ट्रं मुनिर बकः ॥ 18 ॥
तेन ते हूयमानस्य राष्ट्रस्यास्य कषयॊ महान तस्यैतत तपसः कर्म येन ते हय अनयॊ महान अपां कुञ्जे सरस्वत्यास तं परसादय पार्थिव ॥ 19 ॥
सरस्वतीं ततॊ गत्वा स राजा बकम अब्रवीत निपत्य शिरसा भूमौ पराञ्जलिर भरतर्षभ ॥ 20 ॥
परसादये तवा भगवन्न अपराधं कषमस्व मे मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः तवं गतिस तवं च मे नाथः परसादं कर्तुम अर्हसि ॥ 21 ॥
तं तथा विलपन्तं तु शॊकॊपहतचेतसम दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच च वयमॊचयत ॥ 22 ॥
ऋषिः परसन्नस तस्याभूत संरम्भं च विहाय सः मॊक्षार्थं तस्य राष्ट्रस्य जुहाव पुनर आहुतिम ॥ 23 ॥
मॊक्षयित्वा ततॊ राष्ट्रं परतिगृह्य पशून बहून हृष्टात्मा नैमिषारण्यं जगाम पुनर एव हि ॥ 24 ॥
धृतराष्ट्रॊ ऽपि धर्मात्मा सवस्थचेता महामनाः सवम एव नगरं राजा परतिपेदे महर्द्धिमत ॥ 25 ॥
तत्र तीर्थे महाराज बृहस्पतिर उदारधीः असुराणाम अभावाय भावाय च दिवौकसाम ॥ 26 ॥
मांसैर अपि जुहावेष्टिम अक्षीयन्त ततॊ ऽसुराः दैवतैर अपि संभग्ना जितकाशिभिर आहवे ॥ 27 ॥
तत्रापि विधिवद दत्त्वा बराह्मणेभ्यॊ महायशाः वाजिनः कुञ्जरांश चैव रथांश चाश्वतरी युतान ॥ 28 ॥
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम ययौ तीर्थं महाबाहुर यायातं पृथिवीपते ॥ 29 ॥
यत्र यज्ञे ययातेस तु महाराज सरस्वती सर्पिः पयश च सुस्राव नाहुषस्य महात्मनः ॥ 30 ॥
तत्रेष्ट्वा पुरुषव्याघ्रॊ ययातिः पृथिवीपतिः आक्रामद ऊर्ध्वं मुदितॊ लेभे लॊकांश च पुष्कलान ॥ 31 ॥
ययातेर यजमानस्य यत्र राजन सरस्वती परसृता परददौ कामान बराह्मणानां महात्मनाम ॥ 32 ॥
यत्र यत्र हि यॊ विप्रॊ यान यान कामान अभीप्सति तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून रसान ॥ 33 ॥
तत्र देवाः सगन्धर्वाः परीता यज्ञस्य संपदा विस्मिता मानुषाश चासन दृष्ट्वा तां यज्ञसंपदम ॥ 34 ॥
ततस तालकेतुर महाधर्मसेतुर; महात्मा कृतात्मा महादाननित्यः वसिष्ठापवाहं महाभीम वेगं; धृतात्मा जितात्मा समभ्याजगाम ॥ 35 ॥
शल्यपर्व · Shalya Parva
अध्याय 40
Reach this point to mark the section finished.
Continue to अध्याय 41