धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 4

  1. [स] एवम उक्तॊ ऽतॊ राजा गौतमेन यशस्विना निःश्वस्य दीर्घम उष्णं च तूष्णीम आसीद विशां पते ॥ 1 ॥

  2. ततॊ मुहूर्तं स धयात्वा धार्तराष्ट्रॊ महामनाः कृपं शारद्वतं वाक्यम इत्य उवाच परंतपः ॥ 2 ॥

  3. यत किं चित सुहृदा वाच्यं तत सर्वं शरावितॊ हय अहम कृतं च भवता सर्वं पराणान संत्यज्य युध्यता ॥ 3 ॥

  4. गाहमानम अनीकानि युध्यमानं महारथैः पाण्डवैर अतितेजॊभिर लॊकस तवाम अनुदृष्टवान ॥ 4 ॥

  5. सुहृदा यद इदं वाच्यं भवता शरावितॊ हय अहम न मां परीणाति तत सर्वं मुमूर्षॊर इव भेषजम ॥ 5 ॥

  6. हेतुकारण संयुक्तं हितं वचनम उत्तमम उच्यमानं महाबाहॊ न मे विप्राग्र्य रॊच्चते ॥ 6 ॥

  7. राज्याद विनिकृतॊ ऽसमाभिः कथं सॊ ऽसमासु विश्वसेत अक्षद्यूते च नृपतिर जितॊ ऽसमाभिर महाधनः स कथं मम वाक्यानि शरद्दध्याद भूय एव तु ॥ 7 ॥

  8. तथा दौत्येन संप्राप्तः कृष्णः पार्थ हिते रतः परलब्धश च हृषीकेशस तच च कर्म विरॊधितम स च मे वचनं बरह्मन कथम एवाभिमंस्यते ॥ 8 ॥

  9. विललाप हि यत कृष्णा सभामध्ये समेयुषी न तन मर्षयते कृष्णॊ न राज्यहरणं तथा ॥ 9 ॥

  10. एकप्राणाव उभौ कृष्णाव अन्यॊन्यं परति संहतौ पुरा यच छरुतम एवासीद अद्य पश्यामितत परभॊ ॥ 10 ॥

  11. सवस्रीयं च हतं शरुत्वा दुःखस्वपिति केशवः कृतागसॊ वयं तस्य स मदर्थं कथं कषमेत ॥ 11 ॥

  12. अभिमन्यॊर विनाशेन न शर्म लभते ऽरजुनः स कथं मद धिते यत्नं परकरिष्यति याचितः ॥ 12 ॥

  13. मध्यमः पाण्डवस तीक्ष्णॊ भीमसेनॊ महाबलः परतिज्ञात्म च तेनॊग्रं स भाज्येत न संनमेत ॥ 13 ॥

  14. उभौ तौ बद्धनिस्त्रिंशाव उभौ चाबद्ध कङ्कटौ कृतवैराव उभौ वीरौ यमाव अपि यमॊपमौ ॥ 14 ॥

  15. धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह तौ कथं मद धिते यत्नं परकुर्यातां दविजॊत्तम ॥ 15 ॥

  16. दुःशासनेन यत कृष्णा एकवस्त्रा रजस्वला परिक्लिष्टा सभामध्ये सर्वलॊकस्य पश्यतः ॥ 16 ॥

  17. तथा विवसनां दीनां समरन्त्य अद्यापि पाण्डवाः न निवारयितुं शक्याः संग्रामात ते परंतपाः ॥ 17 ॥

  18. यदा च दरौपदी कृष्णा मद विनाशाय दुःखिता उग्रं तेपे तपः कृष्णा भर्तॄणाम अर्थसिद्धये सथण्डिले नित्यदा शेते यावद वैरस्य यातना ॥ 18 ॥

  19. निक्षिप्य मानं दर्पं च वासुदेव सहॊदरा कृष्णायाः परेक्ष्यवद भूत्वा शुश्रूषां कुरुते सदा ॥ 19 ॥

  20. इति सर्वं समुन्नद्धं न निर्वाति कथं चन अभिमन्यॊर विनाशेन स संधेयः कथं मया ॥ 20 ॥

  21. कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम पाण्डवानां परसादेन भुञ्जीयां राज्यम अल्पकम ॥ 21 ॥

  22. उपर्य उपरि राज्ञां वै जवलितॊ भास्करॊ यथा युधिष्ठिरं कथं पश्चाद अनुयास्यामि दासवत ॥ 22 ॥

  23. कथं भुक्त्वा सवयं भॊगान दत्त्वा दायांश च पुष्कलान कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम ॥ 23 ॥

  24. नाभ्यसूयामि ते वाक्यम उक्तं सनिग्धं हितं तवया न तु संधिम अहं मन्ये पराप्तकालं कथं चन ॥ 24 ॥

  25. सुनीतम अनुपश्यामि सुयुद्धेन परंतप नायं कलीबयितुं कालः संयॊद्धुं काल एव नः ॥ 25 ॥

  26. इष्टं मे बहुभिर यज्ञैर दत्ता विप्रेषु दक्ष्णिणाः पराप्ताः करमश्रुता वेदाः शत्रूणां मूर्ध्नि च सथितम ॥ 26 ॥

  27. भृत्यमे सुभृतास तात दीनश चाभ्युद्धृतॊ जनः यातानि परराष्ट्राणि सवराष्ट्रम अनुपालितम ॥ 27 ॥

  28. भुक्ताश च विविधा भॊगास तरिवर्गः सेवितॊ मया पितॄणां गतम आनृण्यं कषत्रधर्मस्य चॊभयॊः ॥ 28 ॥

  29. न धरुवं सुखम अस्तीह कुतॊ राज्यं कुतॊ यशः इह कीर्तिर विधातव्या सा च युद्धेन नान्यथा ॥ 29 ॥

  30. गृहे यत कषत्रियस्यापि निधनं तद विगर्हितम अधर्मः सुमहान एष यच छय्या मरणं गृहे ॥ 30 ॥

  31. अरण्ये यॊ विमुञ्चेत संग्रामे वा तनुं नरः करतून आहृत्य महतॊ महिमानं स गच्छति ॥ 31 ॥

  32. कृपणं विपलन्न आर्तॊ जरयाभिपरिप्लुतः मरियते रुदतां मध्ये जञातीनां न स पूरुषः ॥ 32 ॥

  33. तयक्त्वा तु विविधान भॊगान पराप्तानां मरमां गतिम अपीदानीं सुयुद्धेन गच्छेयं सत सलॊकताम ॥ 33 ॥

  34. शूराणाम आर्य वृत्तानां संग्रमेष्व अनिवर्तिनाम धीमतां सत्यसंधानां सर्वेषां करतुयाजिनाम ॥ 34 ॥

  35. शस्त्रावभृथम आप्तानां धरुवं वासस तरिविष्टपे मुदा नूनं परपश्यन्ति शुभ्रा हय अप्सरसां गणाः ॥ 35 ॥

  36. पश्यन्ति नूनं पितरः पूजिताञ शक्र संसदि अप्सरॊभिः परिवृतान मॊदमानांस तरिविष्टपे ॥ 36 ॥

  37. पन्थानम अमरैर यातं शूरैश चैवानिवर्तिभिः अपि तैः संगतं मार्गं वयम अप्य आरुहेमहि ॥ 37 ॥

  38. पितामहेन वृद्धेन तथाचर्येण धीमता जयद्रथेन कर्णेन तथा दुःशासनेन च ॥ 38 ॥

  39. घटमाना मदर्थे ऽसमिन हताः शूरा जनाधिपाः शेरते लॊहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ॥ 39 ॥

  40. उत्तमास्त्रविदः शूरा यथॊक्तक्रतुयाजिनः तयक्त्वा पराणान यथान्यायम इन्द्र सद्मसु धिष्ठिताः ॥ 40 ॥

  41. तैस तव अयं रचितः पन्था दुर्गमॊ हि पुनर भवेत संपतद्भिर महावेगैर इतॊ याद्भिश च सद गतिम ॥ 41 ॥

  42. ये मदर्थे हताः शूरास तेषां कृतम अनुस्मरन ऋणं तत परतिमुञ्चानॊ न राज्ये मन आदधे ॥ 42 ॥

  43. पातयित्वा वयस्यांश च भरातॄन अथ पितामहान जीवितं यदि रक्षेयं लॊकॊ मां गर्हयेद धरुवम ॥ 43 ॥

  44. कीदृशं च भवेद राज्यं मम हीनस्य बन्धुभिः सखिभिश च सुहृद्भिश च परणिपत्य च पाण्डवम ॥ 44 ॥

  45. सॊ ऽहम एतादृशं कृत्वा जगतॊ ऽसय पराभवम सुयुद्धेन ततः सवर्गं पराप्स्यामि न तद अन्यथा ॥ 45 ॥

  46. एवं दुर्यॊधनेनॊक्तं सर्वे संपूज्य तद वचः साधु साध्व इति राजानं कषत्रियाः संबभाषिरे ॥ 46 ॥

  47. पराजयम अशॊचन्तः कृतचित्ताश च विक्रमे सर्वे सुनिश्चिता यॊद्धुम उदग्रमनसॊ ऽभवन ॥ 47 ॥

  48. ततॊ वाहान समाश्वास्य सर्वे युद्धाभिनन्दिनः ऊने दवियॊजने गत्वा परत्यतिष्ठन्त कौरवाः ॥ 48 ॥

  49. आकाशे विद्रुमे पुण्ये परस्थे हिमवतः शुभे अरुणां सरस्वतीं पराप्य पपुः सस्नुश च तज जलम ॥ 49 ॥

  50. तव पुत्राः कृतॊत्साहाः पर्यवर्तन्त ते ततः पर्यवस्थाप्य चात्मानम अन्यॊन्येन पुनस तदा सर्वे राजन नयवर्तन्त कषत्रियाः कालचॊदिताः ॥ 50 ॥

Reach this point to mark the section finished.

Continue to अध्याय 5

Previous: अध्याय 3