[स] शृणु राजन्न अवहितॊ यथावृत्तॊ महान कषयः कुरूणां पाण्डवानां च समासाद्य परस्परम ॥ 1 ॥
निहते सूतपुत्रे तु पाण्डवेन महात्मना विद्रुतेषु च सैन्येषु समानीतेषु चासकृत ॥ 2 ॥
विमुखे तव पुत्रे तु शॊकॊपहतचेतसि भृशॊद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम ॥ 3 ॥
धयायमानेषु सैन्येषु दुःखं पराप्तेषु भारत बलानां मध्यमानानां शरुत्वा निनदम उत्तमम ॥ 4 ॥
अभिज्ञानं नरेन्द्राणां विकृतं परेक्ष्य संयुगे पतितान रथनीडांश च रथांश चापि महात्मनाम ॥ 5 ॥
रणे विनिहतान नागान दृष्ट्वा पत्तींश च मारिष आयॊधनं चातिघॊरं रुद्रस्याक्रीड संनिभम ॥ 6 ॥
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः कृपाविष्टः कृपॊ राजन वयः शीलसमन्वितः ॥ 7 ॥
अब्रवीत तत्र तेजस्वी सॊ ऽभिसृत्य जनाधिपम दुर्यॊधनं मन्युवशाद वचनं वचनक्षमः ॥ 8 ॥
दुर्यॊधन निबॊधेदं यत तवा वक्ष्यामि कौरव शरुत्वा कुरु महाराज यदि ते रॊचते ऽनघ ॥ 9 ॥
न युद्धधर्माच छरेयान वै पन्था राजेन्द्र विद्यते यं समाश्रित्य युध्यन्ते कषत्रियाः कषत्रियर्षभ ॥ 10 ॥
पुत्रॊ भराता पिता चैव सवस्रेयॊ मातुलस तथा संबन्धिबन्धवाश चैव यॊध्या वै कषत्रजीविना ॥ 11 ॥
वधे चैव परॊ धर्मस तथाधर्मः पलायने ते सम घॊरां समापन्ना जीविकां जीवितार्थिनः ॥ 12 ॥
तत्र तवां परतिवक्ष्यामि किं चिद एव हितं वचः हते भीष्मे च दरॊणे च कर्णे चैव महारथे ॥ 13 ॥
जयद्रथे च निहते तव भरातृषु चानघ लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ॥ 14 ॥
येषु भारं समासज्य राज्ये मतिम अकुर्महि ते संत्यज्य तनूर याताः शूरा बरह्म विदां गतिम ॥ 15 ॥
वयं तव इह विना भूता गुणवद्भिर महारथैः कृपणं वर्तयिष्याम पातयित्वा नृपान बहून ॥ 16 ॥
सर्वैर अपि च जीवद्भिर बीभत्सुर अपराजितः कृष्ण नेत्रॊ महाबाहुर देवैर अपि दुरासदः ॥ 17 ॥
इन्द्र कार्मुकवज्राभम इन्द्रकेतुम इवॊच्छ्रितम वानरं केतुम आसाद्य संचचाल महाचमूः ॥ 18 ॥
सिंहनादेन भीमस्य पाञ्चजन्य सवनेन च गाण्डीवस्य च निर्घॊषात संहृष्यन्ति मनांसि नः ॥ 19 ॥
चरन्तीव महाविद्युन मुष्णन्ति नयनप्रभाम अलातम इव चाविद्धं गाण्डीवं समदृश्यत ॥ 20 ॥
जाम्बूनदविचित्रं च धूयमानं महद धनुः दृश्यते दिक्षु सर्वासु विद्युद अभ्रघनेष्व इव ॥ 21 ॥
उद्यमानश च कृष्णेन वायुनेव बलाहकः तावकं तद बलं राजन्न अर्जुनॊ ऽसत्रविदां वरः गहनं शिशिरे कक्षं ददाहाग्निर इवॊत्थितः ॥ 22 ॥
गाहमानम अनीकानि महेन्द्रसदृशप्रभम धनंजयम अपश्याम चतुर्दन्तम इव दविपम ॥ 23 ॥
विक्षॊभयन्तं सेनां ते तरासयन्तं च पार्थिवान धनंजयम अपश्याम नलिनीम इव कुञ्जरम ॥ 24 ॥
तरासयन्तं तथा यॊधान धनुर घॊषेण पाण्डवम भूय एनम अपश्याम सिंहं मृगगणा इव ॥ 25 ॥
सर्वलॊकमहेष्वासौ वृषभौ सर्वधन्विनाम आमुक्तकवचौ कृष्णौ लॊकमध्ये विरेजतुः ॥ 26 ॥
अद्य सप्त दशाहानि वर्तमानस्य भारत संग्रामस्यातिघॊरस्य वध्यतां चाभितॊ युधि ॥ 27 ॥
वायुनेव विधूतानि तवानीकानि सर्वशः शरद अम्भॊद जालानि वयशीर्यन्त समन्ततः ॥ 28 ॥
तां नावम इव पर्यस्तां भरान्तवातां महार्णवे तव सेनां महाराज सव्यसाची वयकम्पयत ॥ 29 ॥
कव नु ते सूतपुत्रॊ ऽभूत कव नु दरॊणः सहानुगः अहं कव च कव चात्मा ते हार्दिक्यश च तथा कव नु दुःशासनश च भराता ते भरातृभिः सहितः कव नु ॥ 30 ॥
बाणगॊचर संपाप्तं परेक्ष्य चैव जयद्रथम संबन्धिनस ते भरातॄंश च सहायान मातुलांस तथा ॥ 31 ॥
सर्वान विक्रम्य मिषतॊ लॊकांश चाक्रम्य मूर्धनि जयद्रथॊ हतॊ राजन किं नु शेषम उपास्महे ॥ 32 ॥
कॊ वेह स पुमान अस्ति यॊ विजेष्यति पाण्डवम तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः गाण्डीवस्य च निर्घॊषॊ वीर्याणि हरते हि नः ॥ 33 ॥
नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका नागभग्नद्रुमा शुष्का नदीवाकुलतां गता ॥ 34 ॥
धवजिन्यां हतनेत्रायां यथेष्टं शवेतवाहनः चरिष्यति महाबाहुः कक्षे ऽगनिर इव संज्वलन ॥ 35 ॥
सात्यकेश चैव यॊ वेगॊ भीमसेनस्य चॊभयॊः दरयेत गिरीन सर्वाञ शॊषयेत च सागरान ॥ 36 ॥
उवाच वाक्यं यद भीमः सभामध्ये विशां पते कृतं त सकलं तेन भूयश चैव करिष्यति ॥ 37 ॥
परमुखस्थे तदा कर्णे बलं पाण्डव रक्षितम दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना ॥ 38 ॥
युष्माभिस तानि चीर्णानि यान्य असाहूनि साधुषु अकारणकृतान्य एव तेषां वः फलम आगतम ॥ 39 ॥
आत्मनॊ ऽरथे तवया लॊकॊ यत्नतः सर्व आहृतः स ते संशयितस तात आत्मा च भरतर्षभ ॥ 40 ॥
रक्ष दुर्यॊधनात्मानम आत्मा सर्वस्य भाजनम भिन्ने हि भाजने तात दिशॊ गच्छति तद्गतम ॥ 41 ॥
हीयमानेन वै संधिः पर्येष्टव्यः समेन च विग्रहॊ वर्धमानेन नीतिर एषा बृहस्पतेः ॥ 42 ॥
ते वयं पाण्डुपुत्रेभ्यॊ हीनाः सवबलशक्तितः अत्र ते पाण्डवैः सार्धं संधिं मन्ये कषमं परभॊ ॥ 43 ॥
न जानीते हि यः शरेयः शरेयसश चावमन्यते स कषिप्रं भरश्यते राज्यान न च शरेयॊ ऽनुविन्दति ॥ 44 ॥
परणिपत्य हि राजानं राज्यं यदि लभेमहि शरेयः सयान न तु मौढ्येन राजन गन्तुं पराभवम ॥ 45 ॥
वैचित्रवीर्य वचनात कृपा शील्लॊ युधिष्ठिरः विनियुञ्जीत राज्ये तवां गॊविन्द वचनेन च ॥ 46 ॥
यद बरूयाद धि हृषीकेशॊ राजानम अपराजितम अर्जुनं भीमसेनं च सर्वं कुर्युर असंशयम ॥ 47 ॥
नातिक्रमिष्यते कृष्णॊ वचनं कौरवस्य ह धृतराष्ट्रस्य मन्ये ऽहं नापि कृष्णस्य पाण्डवः ॥ 48 ॥
एतत कषमम अहं मन्ये तव पार्थैर अविग्रहम न तव बरवीमि कार्पण्यान न पराणपरिरक्षणात पथ्यं राजन बरवीमि तवां तत्परासुः समरिष्यसि ॥ 49 ॥
इति वृद्धॊ विलप्यैतत कृपः शारद्वतॊ वचः दीर्घम उष्णं च निःश्वस्य शुशॊच च मुमॊह च ॥ 50 ॥
शल्यपर्व · Shalya Parva
अध्याय 3
Reach this point to mark the section finished.
Continue to अध्याय 4