धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 38

  1. [वै] उषित्वा तत्र रामस तु संपूज्याश्रमवासिनः तथा मङ्कणके परीतिं शुभां चक्रे हलायुधः ॥ 1 ॥

  2. दत्त्वा दानं दविजातिभ्यॊ रजनीं ताम उपॊष्य च पूजितॊ मुनिसंघैश च परातर उत्थाय लाङ्गली ॥ 2 ॥

  3. अनुज्ञाप्य मुनीन सर्वान सपृष्ट्वा तॊयं च भारत परययौ तवरितॊ राजंस तीर्थहेतॊर महाबलः ॥ 3 ॥

  4. तत औशनसं तीर्थम आजगाम हलायुधः कपालमॊच्चनं नाम यत्र मुक्तॊ महामुनिः ॥ 4 ॥

  5. महता शिरसा राजन गरस्तजङ्घॊ महॊदरः राक्षसस्य महाराज राम कषिप्तस्य वै पुरा ॥ 5 ॥

  6. तत्र पूर्वं तपस तप्तं काव्येन सुमहात्मना यत्रास्य नीतिर अखिला परादुर्भूता महात्मनः तत्रस्थश चिन्तयाम आस दैत्यदानव विग्रहम ॥ 6 ॥

  7. तत पराप्य च बलॊ राजंस तीर्थप्रवरम उत्तमम विधिवद धि ददौ वित्तं बराह्मणानां महात्मनाम ॥ 7 ॥

  8. [ज] कपालमॊचनं बरह्मन कथं यत्र महामुनिः मुक्तः कथं चास्य शिरॊ लग्नं केन च हेतुना ॥ 8 ॥

  9. [वै] पुरा वै दण्डकारण्ये राघवेण महात्मना वसता राजशार्दूल राक्षसास तत्र हिंसिताः ॥ 9 ॥

  10. जनस्थाने शिरश छिन्नं राक्षसस्य दुरात्मनः कषुरेण शितधारेण तत पपात महावने ॥ 10 ॥

  11. महॊदरस्य तल लग्नं जङ्घायां वै यदृच्छया वने विचरतॊ राजन्न अस्थि भित्त्वास्फुरत तदा ॥ 11 ॥

  12. स तेन लग्नेन तदा दविजातिर न शशाक ह अभिगन्तुं महाप्राज्ञस तीर्थान्य आयतनानि च ॥ 12 ॥

  13. स पूतिना विस्रवता वेदनार्तॊ महामुनिः जगाम सर्वतीर्थानि पृथिव्याम इति नः शरुतम ॥ 13 ॥

  14. स गत्वा सरितः सर्वाः समुद्रांश च महातपाः कथयाम आस तत सर्वम ऋषीणां भावितात्मनाम ॥ 14 ॥

  15. आप्लुतः सर्वतीर्थेषु न च मॊक्षम अवाप्तवान स तु शुश्राव विप्रेन्द्रॊ मुनीनां वच्चनं महत ॥ 15 ॥

  16. सरस्वत्यास तीर्थवरं खयातम औशनसं तदा सर्वपापप्रशमनं सिद्धक्षेत्रम अनुत्तमम ॥ 16 ॥

  17. स तु गत्वा ततस तत्र तीर्थम औशनसं दविजः तत औशनसे तीर्थे तस्यॊपस्पृशतस तदा तच्छिरश चरणं मुक्त्वा पपातान्तर जले तदा ॥ 17 ॥

  18. ततः स विरुजॊ राजन पूतात्मा वीतकल्मषः आजगामाश्रमं परीतः कृतकृत्यॊ महॊदरः ॥ 18 ॥

  19. सॊ ऽथ गत्वाश्रमं पुण्यं विप्रमुक्तॊ महातपाः कथयाम आस तत सर्वम ऋषीणां भवितात्मनाम ॥ 19 ॥

  20. ते शरुत्वा वचनं तस्य ततस तीर्थस्य मानद कपालमॊचनम इति नाम चक्रुः समागताः ॥ 20 ॥

  21. तत्र दत्त्वा बहून दायान विप्रान संपूज्य माधवः जगाम वृष्णिप्रवरॊ रुषङ्गॊराश्रमं तदा ॥ 21 ॥

  22. यत्र तप्तं तपॊ घॊरम आर्ष्टिषेणेन भारत बराह्मण्यं लब्धवांस तत्र विश्वामित्रॊ महामुनिः ॥ 22 ॥

  23. ततॊ हलधरः शरीमान बराह्मणैः परिवारितः जगाम यत्र राजेन्द्र रुषङ्गुस तनुम अत्यजत ॥ 23 ॥

  24. रुषङ्गुर बराह्मणॊ वृद्धस तपॊनित्यश च भारत देहन्यासे कृतमना विचिन्त्य बहुधा बहु ॥ 24 ॥

  25. ततः सर्वान उपादाय तनयान वै महातपाः रुषङ्गुर अब्रवीत तत्र नयध्वं मा पृथूदकम ॥ 25 ॥

  26. विज्ञायातीत वयसं रुषङ्गुं ते तपॊधनाः तं वै तीर्थम उपानिन्युः सरस्वत्यास तपॊधनम ॥ 26 ॥

  27. स तैः पुत्रैस तदा धीमान आनीतॊ वै सरस्वतीम पुण्यां तीर्थशतॊपेतां विप्र संघैर निषेविताम ॥ 27 ॥

  28. स तत्र विधिना राजन्न आप्लुतः सुमहातपाः जञात्वा तीर्थगुणांश चैव पराहेदम ऋषिसत्तमः सुप्रीतः पुरुषव्याघ्र सर्वान पुत्रान उपासतः ॥ 28 ॥

  29. सरस्वत्य उत्तरे तीरे यस तयजेद आत्मनस तनुम पृथूदके जप्यपरॊ नैनं शवॊ मरणं तपेत ॥ 29 ॥

  30. तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधम दत्त्वा चैव बहून दायान विप्राणां विप्र वत्सलः ॥ 30 ॥

  31. ससर्ज तत्र भगवाँल लॊकाँल लॊकपितामहः यत्रार्ष्टिषेणः कौरव्य बराह्मण्यं संशितव्रतः तपसा महता राजन पराप्तवान ऋषिसत्तमः ॥ 31 ॥

  32. सिन्धुद्वीपश च राजर्षिर देवापिश च महातपाः बराह्मण्यं लब्धवान यत्र विश्वामित्रॊ महामुनिः महातपस्वी भगवान उग्रतेजा महातपाः ॥ 32 ॥

  33. तत्राजगाम बलवान बलभद्रः परतापवान ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 39

Previous: अध्याय 37