[ज] सप्त सारस्वतं कस्मात कश च मङ्कणकॊ मुनिः कथं सिद्धश च भगवान कश चास्य नियमॊ ऽभवत ॥ 1 ॥
कस्य वंशे समुत्पन्नः किं चाधीतं दविजॊत्तम एतद इच्छाम्य अहं शरॊतुं विधिवद दविजसत्तम ॥ 2 ॥
[वै] राजन सप्त सरस्वत्यॊ याभिर वयाप्तम इदं जगत आहूत बलवद्भिर हि तत्र तत्र सरस्वती ॥ 3 ॥
सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा सरस्वती ओघवती सुवेणुर विमलॊदकाः ॥ 4 ॥
पितामहस्य महतॊ वर्तमाने महीतले वितते यज्ञवाटे वै समेतेषु दविजातिषु ॥ 5 ॥
पुण्याहघॊषैर विमलैर वेदानां निनदैस तथा देवेषु चैव वयग्रेषु तस्मिन यज्ञविधौ तदा ॥ 6 ॥
तत्र चैव महाराज दीक्षिते परपितामहे यजतस तत्र सत्त्रेण सर्वकामसमृद्धिना ॥ 7 ॥
मनसा चिन्तिता हय अर्था धर्मार्थकुशलैस तदा उपतिष्ठन्ति राजेन्द्र दविजातींस तत्र तत्र ह ॥ 8 ॥
जगुश च तत्र गन्धर्वा ननृतुश चाप्सरॊगणाः वादित्राणि च दिव्यानि वादयाम आसुर अञ्जसा ॥ 9 ॥
तस्य यज्ञस्य संपत्त्या तुतुषुर देवता अपि विस्मयं परमं जग्मुः किम उ मानुषयॊनयः ॥ 10 ॥
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे अब्रुवन्न ऋषयॊ राजन नायं यज्ञॊ महाफलः न दृश्यते सरिच्छ्रेष्ठा यस्माद इह सरस्वती ॥ 11 ॥
तच छरुत्वा भगवान परीतः सस्माराथ सरस्वतीम पितामहेन यजता आहूता पुष्करेषु वै सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥ 12 ॥
तां दृष्ट्वा मुनयस तुष्टा वेगयुक्तां सरस्वतीम पितामहं मानयन्तीं करतुं ते बहु मेनिरे ॥ 13 ॥
एवम एषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती पितामहार्थं संभूता तुष्ट्यर्थं च मनीषिणाम ॥ 14 ॥
नैमिषे मुनयॊ राजन समागम्य समासते तत्र चित्राः कथा हय आसन वेदं परति जनेश्वर ॥ 15 ॥
तत्र ते मुनयॊ हय आसन नानास्वाध्यायवेदिनः ते समागम्य मुनयः सस्मरुर वै सरस्वतीम ॥ 16 ॥
सा तु धयाता महाराज ऋषिभिः सत्र याजिभिः समागतानां राजेन्द्र सहायार्थं महात्मनाम आजगाम महाभागा तत्र पुण्या सरस्वती ॥ 17 ॥
नैमिषे काञ्चनाक्षी तु मुनीनां सत्र याजिनाम आगता सरितां शरेष्ठा तत्र भारत पूजिता ॥ 18 ॥
गयस्य यजमानस्य गयेष्व एवं महाक्रतुम आहूता सरितां शरेष्ठा गय यज्ञे सरस्वती ॥ 19 ॥
विशालां तु गयेष्व आहुर ऋषयः संशितव्रताः सरित सा हिमवत्पार्श्वात परसूता शीघ्रगामिनी ॥ 20 ॥
औद्दालकेस तथा यज्ञे यजतस तत्र भारत समेते सर्वतः सफीते मुनीनां मण्डले तदा ॥ 21 ॥
उत्तरे कॊसला भागे पुण्ये राजन महात्मनः औद्दालकेन यजता पूर्वं धयाता सरस्वती ॥ 22 ॥
आजगाम सरिच्छ्रेष्ठा तं देशम ऋषिकारणात पूज्यमाना मुनिगणैर वल्कलाजिनसंवृतैः मनॊ हरदेति विक्याता सा हि तैर मनसा हृता ॥ 23 ॥
सुवेणुर ऋषभद्वीपे पुण्ये राजर्षिसेविते कुरॊश च यजमानस्य कुरुक्षेत्रे महात्मनः आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥ 24 ॥
ओघवत्य अपि राजेन्द्र वसिष्ठेन महात्मना समाहूता कुरुक्षेत्रे दिव्यतॊया सरस्वती ॥ 25 ॥
दक्षेण यजता चापि गङ्गा दवारे सरस्वती विमलॊदा भगवती बरह्मणा यजता पुनः समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥ 26 ॥
एकीभूतास ततस तास तु तस्मिंस तीर्थे समागताः सप्त सारस्वतं तीर्थं ततस तत परथितं भुवि ॥ 27 ॥
इति सप्त सरस्वत्यॊ नामतः परिकीर्तिताः सप्त सारस्वतं चैव तीर्थं पुण्यं तथा समृतम ॥ 28 ॥
शृणु मङ्कणकस्यापि कौमार बरह्मचारिणः आपगाम अवगाढस्य राजन परक्रीडितं महत ॥ 29 ॥
दृष्ट्वा यदृच्छया तत्र सत्रियम अम्भसि भारत सनायन्तीं रुचिरापाङ्गीं दिग्वाससम अनिन्दिताम सरस्वत्यां महाराज चस्कन्दे वीर्यम अम्भसि ॥ 30 ॥
तद रेतः स तु जग्राह कलशे वै महातपाः सप्तधा परविभागं तु कलशस्थं जगाम ह तत्रर्षयः सप्तजाता जज्ञिरे मरुतां गणाः ॥ 31 ॥
वायुवेगॊ वायुबलॊ वायुहा वायुमण्डलः वायुज्वालॊ वायुरेता वायुचक्रश च वीर्यवान एतम एते समुत्पन्ना मरुतां जनयिष्णवः ॥ 32 ॥
इदम अन्यच च राजेन्द्र शृण्व आश्चर्यतरं भुवि महर्षृश चरितं यादृक तरिषु लॊकेषु विश्रुतम ॥ 33 ॥
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः शरुतम कषतः किल करे राजंस तस्य शाकरसॊ ऽसरवत स वि शाकरसं दृष्ट्वा हर्षाविष्टः परनृत्तवान ॥ 34 ॥
ततस तस्मिन परनृत्ते वै सथावरं जङ्गमं च यत परनृत्तम उभयं वीर तेजसा तस्य मॊहितम ॥ 35 ॥
बरह्मादिभिः सुरै राजन्न ऋषिभिश च तपॊधनैः विज्ञप्तॊ वै महादेव ऋषेर अर्थे नराधिप नायं नृत्येद यथा देव तथा तवं कर्तुम अर्हसि ॥ 36 ॥
ततॊ देवॊ मुनिं दृष्ट्वा हर्षाविष्टम अतीव ह सुराणां हितकामार्थं महादेवॊ ऽभयभाषत ॥ 37 ॥
भॊ भॊ बराह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम तपस्विनॊ धर्मपथे सथितस्य दविजसत्तम ॥ 38 ॥
[रसि] किं न पश्यसि मे बरह्मन कराच छाक रसं शरुतम यं दृष्ट्व वै परनृत्तॊ ऽहं हर्षेण महता विभॊ ॥ 39 ॥
तं परहस्याब्रवीद देवॊ मुनिं रागेण मॊहितम अहं न विस्मयं विप्र गच्छामीति परपश्य माम ॥ 40 ॥
एवम उक्त्वा मुनिश्रेष्ठं महादेवेन धीमता अङ्गुल्यग्रेण राजेन्द्र सवाङ्गुष्ठस ताडितॊ ऽभवत ॥ 41 ॥
ततॊ भस्म कषताद राजन निर्गतं हिमसंनिभम तद दृष्ट्वा वरीडितॊ राजन स मुनिः पादयॊर गतः ॥ 42 ॥
[रसि] नान्यं देवाद अहं मन्ये रुद्रात परतरं महत सुरासुरस्य जगतॊ गतिस तवम असि शूलधृक ॥ 43 ॥
तवया सृष्टम इदं विश्वं वदन्तीह मनीषिणः तवाम एव सर्वं विशति पुनर एव युगक्षये ॥ 44 ॥
देवैर अपि न शक्यस तवं परिज्ञातुं कुतॊ मया तवयि सर्वे सम दृश्यन्ते सुरा बरह्मादयॊ ऽनघ ॥ 45 ॥
सर्वस तवम असि देवानां कर्ता कारयिता च ह तवत्प्रसादात सुराः सर्वे मॊदन्तीहाकुतॊ भयाः ॥ 46 ॥
एवं सतुत्वा महादेवं स ऋषिः परणतॊ ऽबरवीत भगवंस तवत्प्रसादाद वै तपॊ मे न कषरेद इति ॥ 47 ॥
ततॊ देवः परीतमनास तम ऋषिं पुनर अब्रवीत तपस ते वर्धतां विप्र मत्प्रसादात सहस्रधा आश्रमे चेह वत्स्यामि तवया सार्धम अहं सदा ॥ 48 ॥
सप्त सारस्वतॊ चास्मिन यॊ माम अर्चिष्यते नरः न तस्य दुर्लभं किं चिद भवितेह परत्र च सारस्वतं च लॊकं ते गमिष्यन्ति न संशयः ॥ 49 ॥
एतन मङ्कणकस्यापि चरितं भूरि तेजसः स हि पुत्रः सजन्यायाम उत्पन्नॊ मातरिश्वना ॥ 50 ॥
शल्यपर्व · Shalya Parva
अध्याय 37
Reach this point to mark the section finished.
Continue to अध्याय 38