धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 36

  1. [वै] ततॊ विनशनं राजन्न आजगाम हलायुधः शूद्राभीरान परति दवेषाद यत्र नष्टा सरस्वती ॥ 1 ॥

  2. यस्मात सा भरतश्रेष्ठ दवेषान नष्टा सरस्वती तस्मात तद ऋषयॊ नित्यं पराहुर विनशनेति ह ॥ 2 ॥

  3. तच चाप्य उपस्पृश्य बलः सरस्वत्यां महाबलः सुभूमिकं ततॊ ऽगच्छत सरस्वत्यास तटे वरे ॥ 3 ॥

  4. तत्र चाप्सरसः शुभ्रा नित्यकालम अतन्द्रिताः करीडाभिर विमलाभिश च करीडन्ति विमलाननाः ॥ 4 ॥

  5. तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर अभिगच्छन्ति तत तीर्थं पुण्यं बराह्मण सेवितम ॥ 5 ॥

  6. तत्रादृश्यन्त गन्धर्वास तथैवाप्सरसां गणाः समेत्य सहिता राजन यथा पराप्तं यथासुखम ॥ 6 ॥

  7. तत्र मॊदन्ति देवाश च पितरश च सवीरुधः पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः ॥ 7 ॥

  8. आक्रीडभूमिः सा राजंस तासाम अप्सरसां शुभा सुभूमिकेति विख्याता सरस्वत्यास तटे वरे ॥ 8 ॥

  9. तत्र सनात्वा च दत्त्वा च वसु विप्रेषु माधवः शरुत्वा गीतां च तद दिव्यं वादित्राणां च निःस्वनम ॥ 9 ॥

  10. छायाश च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम गन्धर्वाणां ततस तीर्थम आगच्छद रॊहिणी सुतः ॥ 10 ॥

  11. विश्वावसुमुखास तत्र गन्धर्वास तपसान्विताः नृत्तवादित्रगीतं च कुर्वन्ति सुमनॊरमम ॥ 11 ॥

  12. तत्र दत्त्वा हलधरॊ विप्रेभ्यॊ विविधं वसु अजाविकं गॊखरॊष्ट्रं सुवर्णं रजतं तथा ॥ 12 ॥

  13. भॊजयित्वा दविजान कामैः संतर्प्य च महाधनैः परययौ सहितॊ विप्रैः सतूयमानश च माधवः ॥ 13 ॥

  14. तस्माद गन्धर्वतीर्थाच च महाबाहुर अरिंदमः गर्ग सरॊतॊ महातीर्थम आजगामैक कुण्डली ॥ 14 ॥

  15. यत्र गर्गेण वृद्धेन तपसा भावितात्मना कालज्ञानगतिश चैव जयॊतिषां च वयतिक्रमः ॥ 15 ॥

  16. उत्पाता दारुणाश चैव शुभाश च जनमेजय सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना तस्य नाम्ना च तत तीर्थं गर्ग सरॊत इति समृतम ॥ 16 ॥

  17. तत्र गर्ग महाभागम ऋषयः सुव्रता नृप उपासां चक्रिरे नित्यं कालज्ञानं परति परभॊ ॥ 17 ॥

  18. तत्र गत्वा महाराज बलः शवेतानुलेपनः विधिवद धि धनं दत्त्वा मुनीनां भावितात्मनाम ॥ 18 ॥

  19. उच्चावचांस तथा भक्ष्यान दविजेभ्यॊ विप्रदाय सः नीलवासास ततॊ ऽगच्छच छङ्खतीर्थं महायशाः ॥ 19 ॥

  20. तत्रापश्यन महाशङ्खं महामेरुम इवॊच्छ्रितम शवेतपर्वत संकाशम ऋषिसंघैर निषेवितम सरस्वत्यास तटे जातं नगं तालध्वजॊ बली ॥ 20 ॥

  21. यक्षा विद्याधराश चैव राक्षसाश चामितौजसः पिशाचाश चामितबला यत्र सिद्धाः सहस्रशः ॥ 21 ॥

  22. ते सर्वे हय अशनं तयक्त्वा फालं तस्या वनस्पतेः वरतैश च नियमैश चैव काले काले सम भुञ्जते ॥ 22 ॥

  23. पराप्तैश च नियमैस तैस तैर विचरन्तः पृथक पृथक अदृश्यमाना मनुजैर वयचरन पुरुषर्षभ ॥ 23 ॥

  24. एवं खयातॊ नरपते लॊके ऽसमिन स वनस्पतिः तत्र तीर्थं सरस्वत्याः पावनं लॊकविश्रुतम ॥ 24 ॥

  25. तस्मिंश च यदुशार्दूलॊ दत्त्वा तीर्थे यशस्विनाम ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च ॥ 25 ॥

  26. पूजायित्वा दविजांश चैव पूजितश च तपॊधनैः पुण्यं दवैतवनं राजन्न आजगाम हलायुधः ॥ 26 ॥

  27. तत्र गत्वा मुनीन दृष्ट्वा नानावेषधरान बलः आप्लुत्य सलिले चापि पूजयाम आस वै दविजान ॥ 27 ॥

  28. तथैव दत्त्वा विप्रेभ्यः परॊभॊगान सुपुष्कलान ततः परायाद बलॊ राजन दक्षिणेन सरस्वतीम ॥ 28 ॥

  29. गत्वा चैव महाबाहुर नातिदूरं महायशाः धर्मात्मा नागधन्वानं तीर्थम आगमद अच्युतः ॥ 29 ॥

  30. यत्र पन्नगराजस्य वासुकेः संनिवेशनम महाद्युतेर महाराज बहुभिः पन्नगैर वृतम यत्रासन्न ऋषयः सिद्धाः सहस्राणि चतुर्दश ॥ 30 ॥

  31. यत्र देवाः समागम्य वासुकिं पन्नगॊत्तमम सर्वपन्नग राजानम अभ्यषिञ्चन यथाविधि पन्नगेभ्यॊ भयं तत्र विद्यते न सम कौरव ॥ 31 ॥

  32. तत्रापि विधिवद दत्त्वा विप्रेभ्यॊ रत्नसंचयान परायात पराचीं दिशं राजन दीप्यमानः सवतेजसा ॥ 32 ॥

  33. आप्लुत्य बहुशॊ हृष्टस तेषु तीर्थेषु लाङ्गली दत्त्वा वसु दविजातिभ्यॊ जगामाति तपस्विनः ॥ 33 ॥

  34. तत्रस्थान ऋषिसंघांस तान अहिवाद्य हलायुधः ततॊ रामॊ ऽगमत तीर्थम ऋषिभिः सेवितं महत ॥ 34 ॥

  35. यत्र भूयॊ निववृते पराङ्मुखा वै सरस्वती ऋषीणां नैमिषेयाणाम अवेक्षार्थं महात्मनाम ॥ 35 ॥

  36. निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली बभूव विस्मितॊ राजन बलाः शवेतानुलेपनः ॥ 36 ॥

  37. [ज] कस्मात सारस्वती बरह्मन निवृत्ता पराङ्मुखी ततः वयाख्यातुम एतद इच्छामि सर्वम अध्वर्यु सत्तम ॥ 37 ॥

  38. कस्मिंश च कारणे तत्र विस्मितॊ यदुनन्दनः विनिवृत्ता सरिच्छ्रेष्ठा कथम एतद दविजॊत्तम ॥ 38 ॥

  39. [वै] पूर्वं कृतयुगे राजन नैमिषेयास तपस्विनः वर्तमाने सुबहुले सत्रे दवादश वार्षिके ऋषयॊ बहवॊ राजंस तत्र संप्रतिपेदिरे ॥ 39 ॥

  40. उषित्वा च महाभागास तस्मिन सत्रे यथाविधि निवृत्ते नैमिषेये वै सत्रे दवादश वार्षिके आजग्मुर ऋषयस तत्र बहवस तीर्थकारणात ॥ 40 ॥

  41. ऋषीणां बहुलात्वात तु सरस्वत्या विशां पते तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा ॥ 41 ॥

  42. समन्तपञ्चकं यावत तावत ते दविजसत्तमाः तीर्थलॊभान नरव्याघ्र नद्यास तीरं समाश्रिताः ॥ 42 ॥

  43. जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम सवाध्यायेनापि महता बभूवुः पूरिता दिशः ॥ 43 ॥

  44. अग्निहॊत्रैस ततस तेषां हूयमानैर महात्मनाम अशॊभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः ॥ 44 ॥

  45. वालखिल्या महाराज अश्मकुट्टाश च तापसाः दन्तॊलूखलिनश चान्ये संप्रक्षालास तथापरे ॥ 45 ॥

  46. वायुभक्षा जलाहाराः पर्णभक्षाश च तापसाः नाना नियमयुक्ताश च तथा सथण्डिलशायिनः ॥ 46 ॥

  47. आसन वै मुनयस तत्र सरस्वत्याः समीपतः शॊभयन्तः सरिच्छ्रेष्ठां गङ्गाम इव दिवौकसः ॥ 47 ॥

  48. ततः पश्चात समापेतुर ऋषयः सत्र याजिनः ते ऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः ॥ 48 ॥

  49. ततॊ यज्ञॊपवीतैस ते तत तीर्थं निर्मिमाय वै जुहुवुश चाग्निहॊत्राणि चक्रुश च विविधाः करियाः ॥ 49 ॥

  50. ततस तम ऋषिसांघातं निराशं चिन्तयान्वितम दर्शयाम आस राजेन्द्र तेषाम अर्थे सरस्वती ॥ 50 ॥

  51. ततः कुञ्जान बहून कृत्वा संनिवृत्ता सरिद वरा ऋषीणां पुण्यतपसां कारुण्याज जनमेजय ॥ 51 ॥

  52. ततॊ निवृत्य राजेन्द्र तेषाम अर्थे सरस्वती भूयः परतीच्य अभिमुखी सुस्राव सरितां वरा ॥ 52 ॥

  53. अमॊघा गमनं कृत्वा तेषां भूयॊ वरजाम्य अहम इत्य अद्भुतं महच चक्रे ततॊ राजन महानदी ॥ 53 ॥

  54. एवं स कुञ्जॊ राजेन्द्र नैमिषेय इति समृतः कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः करियाः ॥ 54 ॥

  55. तत्र कुञ्जान बहून दृष्ट्वा संनिवृत्तां च तां नदीम बभूव विस्मयस तत्र रामस्याथ महात्मनः ॥ 55 ॥

  56. उपस्पृश्य तु तत्रापि विधिवद यदुनन्दनः दत्त्वा दायान दविजातिभ्यॊ भाण्डानि विविधानि च भक्ष्यं पेयं च विविधं बराह्मणान परत्यपादयत ॥ 56 ॥

  57. ततः परायाद बलॊ राजन पूज्यमानॊ दविजातिभिः सरस्वती तीर्थवरं नानाद्विज गणायुतम ॥ 57 ॥

  58. बदरेङ्गुद काश्मर्य पलक्षाश्वत्थ विभीतकैः पनसैश च पलाशैश च करीरैः पीलुभिस तथा ॥ 58 ॥

  59. सरस्वती तीररुहैर बन्धनैः सयन्दनैस तथा परूषक वनैश चैव बिल्वैर आम्रातकैस तथा ॥ 59 ॥

  60. अतिमुक्त कषण्डैश च पारिजातैश च शॊभितम कदली वनभूयिष्ठम इष्टं कान्तं मनॊरमम ॥ 60 ॥

  61. वाय्वम्बुफलपर्णादैर दन्तॊलूखलिकैर अपि तथाश्म कुट्टैर वानेयैर मुनिभिर बहुभिर वृतम ॥ 61 ॥

  62. सवाध्यायघॊषसंघुष्टं मृगयूथशताकुलम अहिंस्रैर धर्मपरमैर नृत्यैर अत्यन्तसेवितम ॥ 62 ॥

  63. सप्त सारस्वतं तीर्थम आजगाम हलायुधः यत्र मङ्कणकः सिद्धस तपस तेपे महामुनिः ॥ 63 ॥

Reach this point to mark the section finished.

Continue to अध्याय 37

Previous: अध्याय 35