[ज] पूर्वम एव यदा रामस तस्मिन युद्धे उपस्थिते आमन्त्र्य केशवं यातॊ वृष्णिभिः सहितः परभुः ॥ 1 ॥
साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम ॥ 2 ॥
एवम उक्त्वा तदा रामॊ यातः शत्रुनिबर्हणः तस्य चागमनं भूयॊ बरह्मञ शंसितुम अर्हसि ॥ 3 ॥
आख्याहि मे विस्तरतः कथं राम उपस्थितः कथं च दृष्टवान युद्धं कुशलॊ हय असि सत्तम ॥ 4 ॥
[वै] उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु परेषितॊ धृतराष्ट्रस्य समीपं मधुसूदनः शमं परति महावाहॊ हितार्थं सर्वदेहिनाम ॥ 5 ॥
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च उक्तवान वचनं तथ्यं हितं चैव विशेषतः न च तत कृतवान राजा यथाख्यातं हि ते पुरा ॥ 6 ॥
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः आगच्छत महाबाहुर उपप्लव्यं जनाधिप ॥ 7 ॥
ततः परत्यागतः कृष्णॊ धार्तराष्ट्र विसर्जितः अक्रियायां नरव्याघ्र पाण्डवान इदम अब्रवीत ॥ 8 ॥
न कुर्वन्ति वचॊ मह्यं कुरवः कालचॊदिताः निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया ॥ 9 ॥
ततॊ विभज्यमानेषु बलेषु बलिनां वरः परॊवाच भरातरं कृष्णं रौहिणेयॊ महामनाः ॥ 10 ॥
तेषाम अपि महाबाहॊ साहाय्यं मधुसूदन करियताम इति तत कृष्णॊ नास्य चक्रे वचस तदा ॥ 11 ॥
ततॊ मन्युपरीतात्मा जगाम यदुनन्दनः तीर्थयात्रां हलधरः सरस्वत्यां महायशाः मैत्रे नक्षत्रयॊगे सम सहितः सर्वयादवैः ॥ 12 ॥
आश्रयाम आस भॊजस तु दुर्यॊद्ननम अरिंदमः युयुधानेन सहितॊ वासुदेवस तु पाण्डवान ॥ 13 ॥
रौहिणेये गते शूरे पुष्येण मधुसूदनः पाण्डवेयान पुरस्कृत्य ययाव अभिमुखः कुरून ॥ 14 ॥
गच्छन एव पथिस्थस तु रामः परेष्यान उवाच हा संभारांस तीर्थयात्रायां सार्वॊपकरणानि च आनयध्वं दवारकाया अग्नीन वै याजकांस तथा ॥ 15 ॥
सुवर्णं रजतं चैव धेनुर वासांसि वाजिनः कुञ्जरांश च रथांश चैव खरॊष्ट्रं वाहनानि च कषिप्रम आनीयतां सर्वं तीर्थहेतॊः परिच्छदम ॥ 16 ॥
परतिस्रॊतः सरस्वत्या गछध्वं शीघ्रगामिनः ऋत्विजश चानयध्वं वै शतशश च दविजर्षभान ॥ 17 ॥
एवं संदिश्य तु परेष्यान बलदेवॊ महाबलः तीर्थयात्रां ययौ राजन कुरूणां वैशसे तदा सरस्वतीं परतिस्रॊतः समुद्राद अभिजग्मिवान ॥ 18 ॥
ऋत्विग्भिश च सुहृद्भिश च तथान्यैर दविजसत्तमैः रथगर्जैस तथाश्वैश च परेष्यैश च भरतर्षभ गॊखरॊष्ट्र परयुक्तैश च यानैश च बहुभिर वृतः ॥ 19 ॥
शरान्तानां कलान्तवपुषां शिशूनां विपुलायुषाम तानि यानानि देशेषु परतीक्ष्यन्ते सम भारत बुभुक्षितानाम अर्थाय कॢप्तम अन्नं समन्ततः ॥ 20 ॥
यॊ यॊ यत्र दविजॊ भॊक्तुं कामं कामयते तदा तस्य तस्य तु तत्रैवम उपजह्रुस तदा नृप ॥ 21 ॥
तत्र सथिता नरा राजन रौहिणेयस्य शासनात भक्ष्यपेयस्य कुर्वन्ति राशींस तत्र समन्ततः ॥ 22 ॥
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च पूजार्थं तत्र कॢप्तानि विप्राणां सुखम इच्छताम ॥ 23 ॥
यत्र यः सवपते विप्रः कषत्रियॊ वापि भारत तत्र तत्र तु तस्यैव सर्वं कॢप्तम अदृश्यत ॥ 24 ॥
यथासुखं जनः सर्वस तिष्ठते याति वा तदा यातु कामस्य यानानि पानानि तृषितस्य च ॥ 25 ॥
बुभुक्षितस्या चान्नानि सवादूनि भरतर्षभ उपजह्रुर नरास तत्र वस्त्राण्य आभरणानि च ॥ 26 ॥
स पन्थाः परबभौ राजन सर्वस्यैव सुखावहः सवर्गॊपमस तदा वीर नराणां तत्र गच्छताम ॥ 27 ॥
नित्यप्रमुदितॊपेतः सवादु भक्षः शुभान्वितः विपण्यापण पण्यानां नानाजनशतैर वृतः नानाद्रुमलतॊपेतॊ नानारत्नविभूषितः ॥ 28 ॥
ततॊ महात्मा नियमे सथितात्मा; पुण्येषु तीर्थेषु वसूनि राजन ददौ दविजेभ्यः करतुदक्षिणाश च; यदुप्रवीरॊ हलभृत परतीतः ॥ 29 ॥
दॊग्भ्रीश च धेनूश च सहस्रशॊ वै; सुवाससः काञ्चनबद्धशृङ्गीः हयांश च नानाविध देशजातान; यानानि दासीश च तथा दविजेभ्यः ॥ 30 ॥
रत्नानि मुक्तामणिविद्रुमं च; शृङ्गी सुवर्णं रजतं च शुभ्रम अयॊ मयं ताम्रमयं च भाण्डं; ददौ दविजातिप्रवरेषु रामः ॥ 31 ॥
एवं स वित्तं परददौ महात्मा; सरस्वती तीर्थवरेषु भूरि ययौ करमेणाप्रतिम परभावस; ततः कुरुक्षेत्रम उदारवृत्तः ॥ 32 ॥
[ज] सारस्वतानां तीर्थानां गुणॊत्पत्तिं वदस्व मे फलं च दविपदां शरेष्ठ कर्म निर्वृत्तिम एव च ॥ 33 ॥
यथाक्रमं च भगवंस तीर्थानाम अनुपूर्वशः बरह्मन बरह्मविदां शरेष्ठ परं कौतूहलं हि मे ॥ 34 ॥
[वै] तीर्थानां विस्तरं राजन गुणॊत्पत्तिं च सर्वशः मयॊच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः ॥ 35 ॥
पूर्वं महाराज यदुप्रवीर; ऋत्विक सुहृद विप्र गणैश च सार्धम पुण्यं परभासं समुपाजगाम; यत्रॊडु राड यक्ष्मणा कलिश्यमानः ॥ 36 ॥
विमुक्तशापः पुनर आप्य तेजः; सर्वं जगद भासयते नरेन्द्र एवं तु तीर्थप्रवरं पृथिव्यां; परभासनात तस्य ततः परभासः ॥ 37 ॥
[ज] किमर्थं भगवान सॊमॊ यक्ष्मणा समगृह्यत कथं च तीर्थप्रवरे तस्मिंश चन्द्रॊ नयमज्जत ॥ 38 ॥
कथम आप्लुत्य तस्मिंस तु पुनर आप्यायितः शशी एतन मे सर्वम आचक्ष्व विस्तरेण महामुने ॥ 39 ॥
[वै] दक्षस्य तनया यास ताः परादुरासन विशां पते स सप्त विंशतिं कन्या दक्षः सॊमाय वै ददौ ॥ 40 ॥
नक्षत्रयॊगनिरताः संख्यानार्थं च भारत पत्न्यॊ वै तस्य राजेन्द्र सॊमस्य शुभलक्षणाः ॥ 41 ॥
तास तु सर्वा विशालाक्ष्यॊ रूपेणाप्रतिमा भुवि अत्यरिच्यत तासां तु रॊहिणी रूपसंपदा ॥ 42 ॥
ततस तस्यां स भगवान परीतिं चक्रे निशाकरः सास्य हृद्य बभूवाद्य तस्मात तां बुभुजे सदा ॥ 43 ॥
पुरा हि सॊमॊ राजेन्द्र रॊहिण्याम अवसच चिरम ततॊ ऽसय कुपितान्य आसन नक्षत्राणि महात्मनः ॥ 44 ॥
ता गत्वा पितरं पराहुः परजापतिम अतन्द्रिताः सॊमॊ वसति नास्मासु रॊहिणीं भजते सदा ॥ 45 ॥
ता वयं सहिताः सर्वास तवत्सकाशे परजेश्वर वत्स्यामॊ नियताहारास तपश्चरणतत्पराः ॥ 46 ॥
शरुत्वा तासां तु वचनं दक्षः सॊमम अथाब्रवीत समं वर्तस्य भार्यासु मा तवाधर्मॊ महान सपृशेत ॥ 47 ॥
ताश च सर्वाब्रवीद दक्षॊ गच्छध्वं सॊमम अन्तिकात समं वत्स्यति सर्वासु चन्द्रमा मम शासनात ॥ 48 ॥
विसृष्टास तास तदा जग्मुः शीतांशुभवनं तदा तथापि सॊमॊ भगवान पुनर एव महीपते रॊहिणीं निवसत्य एव परीयमाणॊ मुहुर मुहुः ॥ 49 ॥
ततस ताः सहिताः सर्वा भूयः पितरम अब्रुवन तव शुश्रूषणे युक्ता वत्स्यामॊ हि तवाश्रमे सॊमॊ वसति नास्मासु नाकरॊद वचनं तव ॥ 50 ॥
तासां तद वचनं शरुत्वा दक्षः सॊमम अथाब्रवीत समं वर्तस्व भार्यासु मा तवां शप्स्ये विरॊचन ॥ 51 ॥
अनादृत्य तु तद वाक्यं दक्षस्य भगवाञ शशी रॊहिण्या सार्धम अवसत ततस ताः कुपिताः पुनः ॥ 52 ॥
गत्वा च पितरं पराहुः परणम्य शिरसा तदा सॊमॊ वसति नास्मासु तस्मान नः शरणं भव ॥ 53 ॥
रॊहिण्याम एव भगवन सदा वसति चन्द्रमाः तस्मान नस तराहि सर्वा वै यथा नः सॊम आविशेत ॥ 54 ॥
तच छरुत्वा भगवान करुद्धॊ यक्ष्माणं पृथिवीपते ससर्व रॊषात सॊमाय स चॊडु पतिम आविशत ॥ 55 ॥
स यक्ष्मणाभिभूतात्माक्षीयताहर अहः शशी यत्नं चाप्य अकरॊद राजन मॊक्षार्थं तस्य यक्ष्मणः ॥ 56 ॥
इष्ट्वेष्टिभिर महाराज विविधाभिर निशाकरः न चामुच्यत शापाद वै कषयं चैवाभ्यगच्छत ॥ 57 ॥
कषीयमाणे ततः सॊमे ओषध्यॊ न परजज्ञिरे निरास्वाद रसाः सर्वा हतवीर्याश च सर्वशः ॥ 58 ॥
ओषधीनां कषये जाते पराणिनाम अपि संक्षयः कृशाश चासन परजाः सर्वाः कषीयमाणे निशाकरे ॥ 59 ॥
ततॊ देवाः समागम्य सॊमम ऊचुर महीपते किम इदं भवतॊ रूपम ईदृशं न परकाशते ॥ 60 ॥
कारणं बरूहि नः सर्वं येनेदं ते महद भयम शरुत्वा तु वचनं तवत्तॊ विधास्यामस ततॊ वयम ॥ 61 ॥
एवम उक्तः परत्युवाच सर्वांस ताञ शशलक्षणः शापं च कारणं चैव यक्ष्माणं च तथात्मनः ॥ 62 ॥
देवास तस्य वचः शरुत्वा गत्वा दक्षम अथाब्रुवन परसीद भगवन सॊमे शापश चैष निवर्त्यताम ॥ 63 ॥
असौ हि चन्द्रमाः कषीणः किं चिच छेषॊ हि लक्ष्यते कषयाच चैवास्य देवेश परजाश चापि गताः कषयम ॥ 64 ॥
वीरुद ओषधयश चैव बीजानि विविधानि च तथा वयं लॊकगुरॊ परसादं कर्तुम अर्हसि ॥ 65 ॥
एवम उक्तस तदा चिन्त्य पराह वाक्यं परजापतिः नैतच छक्यं मम वचॊ वयावर्तयितुम अन्यथा हेतुना तु महाभागा निवर्तिष्यति केन चित ॥ 66 ॥
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः सरस्वत्या वरे तीर्थे उन्मज्जञ शशलक्षणः पुनर वर्धिष्यते देवास तद वै सत्यं वचॊ मम ॥ 67 ॥
मासार्धं च कषयं सॊमॊ नित्यम एव गमिष्यति मासार्धं च तदा वृद्धिं सत्यम एतद वचॊ मम ॥ 68 ॥
सरस्वतीं ततः सॊमॊ जगाम ऋषिशासनात परभासं परमं तीर्थं सरस्वत्या जगाम ह ॥ 69 ॥
अमावास्यां महातेजास तत्रॊन्मज्जन महाद्युतिः लॊकान परभासयाम आस शीतांशुत्वम अवाप च ॥ 70 ॥
देवाश च सर्वे राजेन्द्र परभासं पराप्य पुष्कलम सॊमेन सहिता भूत्वा दक्षस्य परमुखे ऽभवन ॥ 71 ॥
ततः परजापतिः सर्वा विससर्जाथ देवताः सॊमं च भगवान परीतॊ भूयॊ वचनम अब्रवीत ॥ 72 ॥
मावमंस्थाः सत्रियः पुत्र मा च विप्रान कदा चन गच्छ युक्तसदा भूत्वा कुरु वै शासनं मम ॥ 73 ॥
स विसृष्टॊ महाराज जगामाथ सवम आलयम परजाश च मुदिता भूत्वा भॊजने च यथा पुरा ॥ 74 ॥
एतत ते सर्वम आख्यातं यथा शप्तॊ निशाकरः परभासं च यथा तीर्थं तीर्थानां परवरं हय अभूत ॥ 75 ॥
अमावास्यां महाराज नित्यशः शशलक्षणः सनात्वा हय आप्यायते शरीमान परभासे तीर्थ उत्तमे ॥ 76 ॥
अतश चैनं परजानन्ति परभासम इति भूमिप परभां हि परमां लेभे तस्मिन्न उन्मज्ज्य चन्द्रमाः ॥ 77 ॥
ततस तु चमसॊद्भेदम अच्युतस तव अगमद बली चमसॊद्भेद इत्य एवं यं जनाः कथयन्त्य उत ॥ 78 ॥
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः उषित्वा रजनीम एकां सनात्वा च विधिवत तदा ॥ 79 ॥
उदपानम अथागच्छत तवरावान केशवाग्रजः आद्यं सवस्त्ययनं चैव तत्रावाप्य महत फलम ॥ 80 ॥
सनिग्धत्वाद ओषधीनां च भूमेश च जनमेजय जानन्ति सिद्धा राजेन्द्र नष्टाम अपि सरस्वतीम ॥ 81 ॥
शल्यपर्व · Shalya Parva
अध्याय 34
Reach this point to mark the section finished.
Continue to अध्याय 35