धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 33

  1. [स] तस्मिन युद्धे महाराज संप्रवृत्ते सुदारुणे उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु ॥ 1 ॥

  2. ततस तालध्वजॊ रामस तयॊर युद्ध उपस्थिते शरुत्वा तच छिष्ययॊ राजन्न आजगाम हलायुधः ॥ 2 ॥

  3. तं दृष्ट्वा मरम परीताः पूजयित्वा नराधिपाः शिष्ययॊः कौशलं युद्धे पश्य रामेति चाब्रुवन ॥ 3 ॥

  4. अब्रवीच च तदा रामॊ दृष्ट्वा कृष्णं च पाण्डवम दुर्यॊधनं च कौरव्यं गदापाणिम अवस्थितम ॥ 4 ॥

  5. चत्वारिंशद अहान्य अद्य दवे च मे निःसृतस्य वै पुष्येण संप्रयातॊ ऽसमि शरवणे पुनरागतः शिष्ययॊर वै गदायुद्धं दरष्टुकामॊ ऽसमि माधव ॥ 5 ॥

  6. ततॊ युधिष्ठिरॊ राजा परिष्वज्य हलायुधम सवागतं कुशलं चास्मै पर्यपृच्छद यथातथम ॥ 6 ॥

  7. कृष्णौ चापि महेष्वासाव अभिवाद्य हलायुधम सस्वजाते परिप्रीतौ परियमाणौ यशस्विनौ ॥ 7 ॥

  8. माद्रीपुत्रौ तथा शूरौ दरौपद्याः पञ्च चात्मजाः अभिवाद्य सथिता राजन रौहिणेयं महाबलम ॥ 8 ॥

  9. भीमसेनॊ ऽथ बलवान पुत्रस तव जनाधिप तथैव चॊद्यत गदौ पूजयाम आसतुर बलम ॥ 9 ॥

  10. सवागतेन च ते तत्र परतिपूज्य पुनः पुनः पश्य युद्धं महाबाहॊ इति ते रामम अब्रुवन एवम ऊचुर महात्मानं रौहिणेयं नराधिपाः ॥ 10 ॥

  11. परिष्वज्य तदा रामः पाण्डवान सृञ्जयान अपि अपृच्छत कुशलं सर्वान पाण्डवांश चामितौजसः तथैव ते समासाद्य पप्रच्छुस तम अनामयम ॥ 11 ॥

  12. परत्यभ्यर्च्य हली सर्वान कषत्रियांश च महामनाः कृत्वा कुशलसंयुक्तां संविदं च यथा वयः ॥ 12 ॥

  13. जनार्दनं सत्यकिं च परेम्णा स परिषस्वजे मूर्ध्नि चैताव उपाघ्राय कुशलं पर्यपृच्छत ॥ 13 ॥

  14. तौ चैनं विधिवद राजन पूजयाम आसतुर गुरुम बरह्माणम इव देवेशम इन्द्रॊपेन्द्रौ मुदा युतौ ॥ 14 ॥

  15. ततॊ ऽबरवीद धर्मसुतॊ रौहिणेयम अरिंदमम इदं भरात्रॊर महायुद्धं पश्य रामेति भारत ॥ 15 ॥

  16. तेषां मध्ये महाबाहुः शरीमान केशव पूर्वजः नयविशत परमप्रीतः पूज्यमानॊ महारथैः ॥ 16 ॥

  17. स बभौ राजमध्यस्थॊ नीलवासाः सितप्रभः दिवीव नक्षत्रगणैः परिकीर्णॊ निशाकरः ॥ 17 ॥

  18. ततस तयॊः संनिपातस तुमुलॊ लॊमहर्षणः आसीद अन्तकरॊ राजन वैरस्य तव पुत्रयॊः ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 34

Previous: अध्याय 32