धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 32

  1. [स] एवं दुर्यॊधनॊ राजन गर्जमाने मुहुर मुहुः युधिष्ठिरस्य संक्रुद्धॊ वासुदेवॊ ऽबरवीद इदम ॥ 1 ॥

  2. यदि नाम हय अयं युद्धे वरयेत तवां युधिष्ठिर अर्जुनं नकुलं वापि सहदेवम अथापि वा ॥ 2 ॥

  3. किम इदं साहसं राजंस तवया वयाहृतम ईदृशम एकम एव निहत्याजौ भव राजा कुरुष्व इति ॥ 3 ॥

  4. एतेन हि कृता यॊग्या वर्षाणीह तरयॊदश आयसे पुरुषे राजन भीमसेनजिघांसया ॥ 4 ॥

  5. कथं नाम भवेत कार्यम अस्माभिर भरतर्षभ साहसं कृतवांस तवं तु हय अनुक्रॊशान नृपॊत्तम ॥ 5 ॥

  6. नान्यम अस्यानुपश्यामि परतियॊद्धारम आहवे ऋते वृकॊदरात पार्थात स च नातिकृत शरमः ॥ 6 ॥

  7. तद इदं दयूतम आरब्धं पुनर एव यथा पुरा विषमं शकुनेश चैव तव चैव विशां पते ॥ 7 ॥

  8. बली भीमः समर्थश च कृती राजा सुयॊधनः बलवान वा कृती वेति कृती राजन विशिष्यते ॥ 8 ॥

  9. सॊ ऽयं रामंस तवया शत्रुः समे पथि निवेशितः नयस्तश चात्मा सुविषमे कृच्छ्रम आपादिता वयम ॥ 9 ॥

  10. कॊ नु सर्वान विनिर्जित्य शत्रून एकेन वैरिणा पणित्वा चैकपाणेन रॊचयेद एवम आहवम ॥ 10 ॥

  11. न हि पश्यामि तं लॊके गदाहस्तं नरॊत्तमम युध्येद दुर्यॊधनं संख्ये कृतित्वाद धि विशेषयेत ॥ 11 ॥

  12. फल्गुनं वा भवन्तं वा माद्रीपुत्राव अथापि वा न समर्थान अहं मन्ये गदाहस्तस्य संयुगे ॥ 12 ॥

  13. स कथं वदसे शत्रुं युध्यस्व गदयेति ह एकं च नॊ निहत्याजौ भव राजेति भारत ॥ 13 ॥

  14. वृकॊदरं समासाद्य संशयॊ विजये हि नः नयायतॊ युध्यमानानां कृती हय एष महाबलः ॥ 14 ॥

  15. [भम] मधुसूदन मा कार्षीर विषादं यदुनन्दन अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम ॥ 15 ॥

  16. अहं सुयॊधनं संख्ये हनिष्यामि न संशयः विजयॊ वै धरुवं कृष्ण धर्मराजस्य दृश्यते ॥ 16 ॥

  17. अध्यर्धेन पुनेनेयं गदा गुरुतरी मम न तथा धार्तराष्ट्रस्य मा कार्षीर माधव वयथाम ॥ 17 ॥

  18. सामरान अपि लॊकांस तरीन नानाशस्त्रधरान युधि यॊधयेयं रणे हृष्टः किम उताद्य सुयॊधनम ॥ 18 ॥

  19. [स] तथा संभाषमाणं तु वासुदेवॊ वृकॊदरम हृष्टः संपूजयाम आस वचनं चेदम अब्रवीत ॥ 19 ॥

  20. तवाम आश्रित्य महाबाहॊ धर्मराजॊ युधिष्ठिरः निहतारिः सवकां दीप्तां शरियं पराप्तॊ न संशयः ॥ 20 ॥

  21. तवया विनिहताः सर्वे घृतराष्ट्र सुता रणे राजानॊ राजपुत्राश च नागाश च विनिपातिताः ॥ 21 ॥

  22. कलिङ्गा मागधाः पराच्या गान्धाराः कुरवस तथा तवाम आसाद्य महायुद्धे निहताः पाण्डुनन्दन ॥ 22 ॥

  23. हत्वा दुर्यॊधनं चापि परयच्छॊर्वीं ससागराम धर्मराजस्य कौन्तेय यथा विष्णुः शचीपतेः ॥ 23 ॥

  24. तवां च पराप्य रणे पापॊ धार्तराष्ट्रॊ विनङ्क्ष्यति तवम अस्य सक्थिनी भङ्क्त्वा परतिज्ञां पारयिष्यसि ॥ 24 ॥

  25. यत्नेन तु सदा पार्थ यॊद्द्धव्यॊ धृतराष्ट्रजः कृती च बलवांश चैव युद्धशौण्डश च नित्यदा ॥ 25 ॥

  26. ततस तु सात्यकी राजन पूजयाम आस पाण्डवम विविधाभिश च तां वाग्भिः पूजयाम आस माधवः ॥ 26 ॥

  27. पाञ्चालाः पाण्डवेयाश च धर्मराज पुरॊगमाः तद वचॊ भीमसेनस्य सर्व एवाभ्यपूजयन ॥ 27 ॥

  28. ततॊ भीमबलॊ भीमॊ युधिष्ठिरम अथाब्रवीत सृञ्जयैः सह तिष्ठन्तं तपन्तम इव भास्करम ॥ 28 ॥

  29. अहम एतेन संगम्य संयुगे यॊद्धुम उत्सहे न हि शक्तॊ रणे जेतुं माम एष पुरुषाधमः ॥ 29 ॥

  30. अद्य करॊधं विमॊक्ष्यामि निहितं हृदये भृशम सुयॊधने धार्तराष्ट्रे खाण्डवे ऽगनिम इवार्जुनः ॥ 30 ॥

  31. शल्यम अद्यॊद्धरिष्यामि तव पाण्डव हृच्च्छयम निहत्य गदया पापम अद्य राजन सुखी भव ॥ 31 ॥

  32. अद्य कीर्तिमयीं मालां परतिमॊक्ष्ये तवानघ पराणाञ शरियं च राज्यं च मॊक्ष्यते ऽदय सुयॊधनः ॥ 32 ॥

  33. राजा च धृतराष्ट्रॊ ऽदय शरुत्वा पुत्रं मया हतम समारिष्यत्य अशुभं कर्म यत तच छकुनि बुद्धिजम ॥ 33 ॥

  34. इत्य उक्त्वा भरतश्रेष्ठॊ गदाम उद्यम्य वीर्यवान उदतिष्ठत युद्धाय शक्रॊ वृत्रम इवाह्वयन ॥ 34 ॥

  35. तम एकाकिनम आसाद्य धार्तराष्ट्रं महाबलम निर्यूथम इव मातङ्गं समहृष्यन्त पाण्डवाः ॥ 35 ॥

  36. तम उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम भीमसेनस तदा राजन दुर्यॊधनम अथाब्रवीत ॥ 36 ॥

  37. राज्ञापि धृतराष्ट्रेण तवया चास्मासु यत्कृतम समार तद दुष्कृतं कर्म यद्वृत्तं वारणावते ॥ 37 ॥

  38. दरौपदी च परिक्लिष्टा सभामध्ये रजस्वला दयूते यद विजितॊ राजा शकुनेर बुद्धिनिश्चयात ॥ 38 ॥

  39. यानि चान्यानि दुष्टात्मन पापानि कृतवान असि अनागःसु च पार्थेषु तस्य पश्य महत फलम ॥ 39 ॥

  40. तवत्कृते निहतः शेते शरतल्पे महायशाः गाङ्गेयॊ भरतश्रेष्ठः सर्वेषां नः पितामहः ॥ 40 ॥

  41. हतॊ दरॊणश च कार्णश च हतः शल्यः परतापवान वैरस्या चादि कर्तासौ शकुनिर निहतॊ युधि ॥ 41 ॥

  42. भरातरस ते हताः शूराः पुत्राश च सहसैनिकाः राजानश च हताः शूराः समरेष्व अनिवर्तिनः ॥ 42 ॥

  43. एते चान्ये च निहता बहवः कषत्रियर्षभाः परातिकामी तथा पापॊ दरौपद्याः कलेशकृद धतः ॥ 43 ॥

  44. अवशिष्टस तवम एवैकः कुलघ्नॊ ऽधम पूरुषः तवाम अप्य अद्य हनिष्यामि गदया नात्र संशयः ॥ 44 ॥

  45. अद्य ते ऽहं रणे दर्पं सर्वं नाशयिता नृप राज्याशां विपुलां राजन पाण्डवेषु च दुष्कृतम ॥ 45 ॥

  46. [दुर] किं कत्थितेन बहुधा युध्यस्वाद्य मया सह अद्य ते ऽहं विनेष्यामि युद्धश्रद्धां वृकॊदर ॥ 46 ॥

  47. किं न पश्यसि मां पापगदा युद्धे वयवस्थितम हिमवच्छिखराकारां परगृह्य महतीं गदाम ॥ 47 ॥

  48. गदिनं कॊ ऽदय मां पापजेतुम उत्सहते रिपुः नयायतॊ युध्यमानस्य देवेष्व अपि पुरंदरः ॥ 48 ॥

  49. मा वृथा गर्ज कौन्तेय शरदाभ्रम इवाजलम दर्शयस्व बलं युद्धे यावत तत ते ऽदय विद्यते ॥ 49 ॥

  50. तस्य तद वचनं शरुत्वा पाञ्चालाः सहसृञ्जयाः सर्वे संपूजयाम आसुस तद वचॊ विजिगीषवः ॥ 50 ॥

  51. तं मत्तम इव मातङ्गं तलशब्देन मानवाः भूयः संहर्षयाम आसू राजन दुर्यॊधनं नृपम ॥ 51 ॥

  52. बृहन्ति कुञ्जरास तत्र हया हेषन्ति चासकृत शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम ॥ 52 ॥

Reach this point to mark the section finished.

Continue to अध्याय 33

Previous: अध्याय 31