[धृ] एवं संतर्ज्यमानस तु मम पुत्रॊ महीपतिः परकृत्या मन्युमान वीरः कथम आसीत परंतपः ॥ 1 ॥
न हि संतर्जना तेन शरुतपूर्वा कदा चन राजभावेन मान्यश च सर्वलॊकस्य सॊ ऽभवत ॥ 2 ॥
इयं च पृथिवी सर्वा संलेच्छाटविका भृशम परसादाद धरियते यस्य परत्यक्षं तव संजय ॥ 3 ॥
स तथा तर्ज्यमानस तु पाण्डुपुत्रैर विशेषतः विहीनश च सवकैर भृत्यैर निर्जने चावृतॊ भृशम ॥ 4 ॥
शरुत्वा स कटुका वाचॊ जय युक्ताः पुनः पुनः किम अब्रवीत पाण्डवेयांस तन ममाचक्ष्व संजय ॥ 5 ॥
[स] तर्ज्यमानस तदा राजन्न उदकस्थस तवात्मजः युधिष्ठिरेण राजेन्द्र भरातृभिः सहितेन ह ॥ 6 ॥
शरुत्वा स कटुका वाचॊ विषमस्थॊ जनाधिपः दीर्घम उष्णं च निःश्वस्य सलिलस्थः पुनः पुनः ॥ 7 ॥
सलिलान्तर गतॊ राजा धुन्वन हस्तौ पुनः पुनः मनश चकार युद्धाय राजानं चाभ्यभाषत ॥ 8 ॥
यूयं ससुहृदः पार्थाः सर्वे सरथ वाहनाः अहम एकः परिद्यूनॊ विरथॊ हतवाहनः ॥ 9 ॥
आत्तशस्त्रै रथगतैर बहुभिः परिवारितः कथम एकः पदातिः सन्नशस्त्रॊ यॊद्धुम उत्सहे ॥ 10 ॥
एकैकेन तु मां यूयं यॊधयध्वं युधिष्ठिर न हय एकॊ बहुभिर वीरैर नयाय्यं यॊधयितुं युधि ॥ 11 ॥
विशेषतॊ विकवचः शरान्तश चापः समाश्रितः भृशं विक्षत गात्रश च शरान्तवाहन सैनिकः ॥ 12 ॥
न मे तवत्तॊ भयं राजन न च पार्थाद वृकॊदरात फल्गुनाद वासुदेवाद वा पाञ्चालेभ्यॊ ऽथ वा पुनः ॥ 13 ॥
यमाभ्यां युयुधानाद वा ये चान्ये तव सैनिकाः एकः सर्वान अहं करुद्धॊ न तान यॊद्धुम इहॊत्सहे ॥ 14 ॥
धर्ममूला सतां कीर्तिर मनुष्याणां जनाधिप धर्मं चैव ह कीर्तिं च पालयन परब्रवीम्य अहम ॥ 15 ॥
अहम उत्थाय वः सर्वान परतियॊत्स्यामि संयुगे अन्वंशाभ्यागतान सर्वान ऋतून संवत्सरॊ यथा ॥ 16 ॥
अद्य वः सरथान साश्वान अशस्त्रॊ विरथॊ ऽपि सन नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये तेजसा नाशयिष्यामि सथिरी भवत पाण्डवाः ॥ 17 ॥
अद्यानृण्यं गमिष्यामि कषत्रियाणां यशास्विनाम बाह्लीक दरॊण भीष्माणां कर्णस्य च महात्मनः ॥ 18 ॥
जयद्रथस्य शूरस्य भगदत्तस्य चॊभयॊः मद्रराजस्य शल्यस्य भूरिश्रवस एव च ॥ 19 ॥
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च मित्राणां सुहृदां चैव बान्धवानां तथैव च ॥ 20 ॥
आनृण्यम अद्य गच्छामि हत्वा तवां भरतृभिः सह एतावद उक्त्वा वचनं विरराम जनाधिपः ॥ 21 ॥
[य] दिष्ट्या तवम अपि जानीषे कषत्रधर्मं सुयॊधन दिष्ट्या ते वर्तते बुद्धिर युद्धायैव महाभुज ॥ 22 ॥
दिष्ट्या शूरॊ ऽसि कौरव्य दिष्ट्या जानासि संगरम यस तवम एकॊ हि नः सर्वान संयुगे यॊद्धुम इच्छसि ॥ 23 ॥
एक एकेन संगम्य यत ते संमतम आयुधम तत तवम आदाय युध्यस्व परेक्षकास ते वयं सथिताः ॥ 24 ॥
अयम इष्टं च ते कामं वीर भूयॊ ददाम्य अहम हत्वैकं भवतॊ राज्यं हतॊ वा सवर्गम आप्नुहि ॥ 25 ॥
[दुर] एकश चेद यॊद्धुम आक्रन्दे वरॊ ऽदय मम दीयते आयुधानाम इयं चापि वृता तवत संमते गदा ॥ 26 ॥
भरातॄणां भवताम एकः शक्यं मां यॊ ऽभिमन्यते पदातिर गदया संख्ये स युध्यतु मया सह ॥ 27 ॥
वृत्तानि रथयुद्धानि विचित्राणि पदे पदे इदम एकं गदायुद्धं भवत्व अद्याद्भुतं महत ॥ 28 ॥
अन्नानाम अपि पर्यायं कर्तुम इच्छन्ति मानवाः युद्धानाम अपि पर्यायॊ भवत्व अनुमते तव ॥ 29 ॥
गदया तवां महाबाहॊ विजेष्यामि सहानुजम पाञ्चालान सृञ्जयांश चैव ये चान्ये तव सैनिकाः ॥ 30 ॥
[य] उत्तिष्ठॊत्तिष्ठ गान्धारे मां यॊधय सुयॊधन एक एकेन संगम्य संयुगे गदया बली ॥ 31 ॥
पुरुषॊ भव गान्धारे युध्यस्व सुसमाहितः अद्य ते जीवितं नास्ति यद्य अपि तवं मनॊजवः ॥ 32 ॥
[स] एतत स नरशार्दूल नामृष्यत तवात्मजः सलिलान्तर गतः शवभ्रे महानाग इव शवसन ॥ 33 ॥
तथासौ वाक परतॊदेन तुद्यमानः पुनः पुनः वाचं न मामृषे धीमान उत्तमाश्वः कशाम इव ॥ 34 ॥
संक्षॊभ्य सलिलं वेगाद गदाम आदाय वीर्यवान अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम अन्तर्जलात समुत्तस्थौ नागेन्द्र इव निःश्वसन ॥ 35 ॥
स भित्त्वा सतम्भितं तॊयं सकन्धे कृत्वायसीं गदाम उदतिष्ठत पुत्रस ते परतपन रश्मिमान इव ॥ 36 ॥
ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम गदां परामृशद धीमान धार्तराष्ट्रॊ महाबलः ॥ 37 ॥
गदाहस्तं तु तं दृष्ट्वा सशृङ्गम इव पर्वतम परजानाम इव संक्रुद्धं शूलपाणिम अवस्थितम सगदॊ भरतॊ भाति परतपन भास्करॊ यथा ॥ 38 ॥
तम उत्तीर्णं महाबाहुं गदाहस्तम अरिंदमम मेनिरे सर्वभूतानि दण्डहस्तम इवान्तकम ॥ 39 ॥
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप ॥ 40 ॥
तम उत्तीर्णं तु संप्रेक्ष्य समहृष्यन्त सर्वशः पाञ्चालाः पाण्डवेयाश च ते ऽनयॊन्यस्य तलान ददुः ॥ 41 ॥
अवहासं तु तं मत्वा पुत्रॊ दुर्यॊधनस तव उद्वृत्य नयने करुद्धॊ दिधक्षुर इव पाण्डवान ॥ 42 ॥
तरिशिखां भरुकुटीं कृत्वा संदष्ट दशनच छदः परत्युवाच ततस तान वै पाण्डवान सहकेशवान ॥ 43 ॥
अवहासस्य वॊ ऽसयाद्य परतिवक्तास्मि पाण्डवाः गमिष्यथ हताः सद्यः सपानाला यमक्षयम ॥ 44 ॥
उत्थितस तु जलात तस्मात पुत्रॊ दुर्यॊधनस तव अतिष्ठत गदापाणी रुधिरेण समुक्षितः ॥ 45 ॥
तस्य शॊणितदिग्धस्य सलिलेन समुक्षितम शरीरं सम तदा भाति सरवन्न इव महीधरः ॥ 46 ॥
तम उद्यतगदं वीरं मेनिरे तत्र पाण्डवाः वैवस्वतम इव करुद्धं किंकरॊद्यत पाणिनम ॥ 47 ॥
स मेघनिनदॊ हर्षान नदन्न इव च गॊवृषः आजुहाव ततः पार्थान गदया युधि वीर्यवान ॥ 48 ॥
[दुर] एकैकेन च मां यूयम आसीदत युधिष्ठिर न हय एकॊ बहुभिर नयाय्यॊ वीर यॊधयितुं युधि ॥ 49 ॥
नयस्तवर्मा विशेषेण शरान्तश चाप्सु परिप्लुतः भृशं विक्षत गात्रश च हतवाहन सैनिकः ॥ 50 ॥
[य] नाभूद इयं तव परज्ञा काथम एवं सुयॊधन यदाभिमन्यु बहवॊ जघ्नुर युधि महारथाः ॥ 51 ॥
आमुञ्च कवचं वीर मूर्धजान यमयस्व च यच्च चान्यद अपि ते नास्ति तद अप्य आदत्स्व भारत इमम एकं च ते कामं वीर भूयॊ ददाम्य अहम ॥ 52 ॥
पञ्चानां पाण्डवेयानां येन यॊद्धुम इहेच्छसि तं हत्वा वै भवान राजा हतॊ वा सवर्गम आप्नुहि ऋते च जीविताद वीर युद्धे किं कुर्म ते परियम ॥ 53 ॥
[स] ततस तव सुतॊ राजन वर्म जग्राह काञ्चनम विचित्रं च शिरस तराणं जाम्बूनदपरिष्कृतम ॥ 54 ॥
सॊ ऽवबद्ध शिरस तराणः शुभकाञ्चनवर्म भृत रराज राजन पुत्रस ते काञ्चनः शैलराड इव ॥ 55 ॥
संनद्धः सगदी राजन सज्जः संग्राममूर्धनि अब्रवीत पाण्डवान सर्वान पुत्रॊ दुर्यॊधनस तव ॥ 56 ॥
भरातॄणां भवताम एकॊ युध्यतां गदया मया सहदेवेन वा यॊत्स्ये भीमेन नकुलेन वा ॥ 57 ॥
अथ वा फल्गुनेनाद्य तवया वा भरतर्षभ यॊत्स्ये ऽहं संगरं पराप्य विजेष्ये च रणाजिते ॥ 58 ॥
अहम अद्य गमिष्यामि वैरस्यान्तं सुदुर्गमाम गदया पुरुषव्याघ्र हेमपट्ट विनद्धया ॥ 59 ॥
गदायुद्धे न मे कश चित सदृशॊ ऽसतीति चिन्तय गदया वॊ हनिष्यामि सर्वान एव समागतान गृह्णातु सगदां यॊ वै युध्यते ऽदय मया सह ॥ 60 ॥
शल्यपर्व · Shalya Parva
अध्याय 31
Reach this point to mark the section finished.
Continue to अध्याय 32