[स] ततस तेष्व अपयातेषु रथेषु तरिषु पाण्डवाः तं हरदं परत्यपद्यन्त यात्र दुर्यॊधनॊ ऽभवत ॥ 1 ॥
आसाद्य च कुरु शरेष्ठ तदा दवैपायन हरदम सतम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम वासुदेवम इदं वाक्यम अब्रवीत कुरुनन्दनः ॥ 2 ॥
पश्येमां धार्तराष्ट्रेण मायाम अप्सु परयॊजिताम विष्टभ्य सलिलं शेते नास्य मानुषतॊ भयम ॥ 3 ॥
दैवीं मायाम इमां कृत्वा सलिलान्तर गतॊ हय अयम निकृत्या निकृतिप्रज्ञॊ न मे जीवन विमॊक्ष्यते ॥ 4 ॥
यद्य अस्य समरे साह्यं कुरुते वज्रभृत सवयम तथाप्य एनं हतं युद्धे लॊकॊ दरक्ष्यति माधव ॥ 5 ॥
[वा] मायाविन इमां मायां मायया जहि भारत मायावी मायया वध्यः सत्यम एतद युधिष्ठिर ॥ 6 ॥
किर्याभ्युपायैर बहुलैर मायाम अस्पु परयॊज्य ह जहि तवं भरतश्रेष्ठ पापात्मानं सुयॊधनम ॥ 7 ॥
किर्याभ्युपायैर इन्द्रेण निहता दैत्यदानवाः करियाभ्युपायैर बहुभिर बलिर बद्धॊमहात्मना ॥ 8 ॥
करियाभ्युपायैः पूर्वं हि हिरण्याक्षॊ महासुरः हिरण्यकशिपुश चैव करिययैव निषूदितौ वृत्रश च निहतॊ राजन करिययैव न संशयः ॥ 9 ॥
तथा पौलस्त्य तनयॊ रावणॊ नाम राक्षसः रामेण निहतॊ राजन सानुबन्धः सहानुगः करियया यॊगम आस्थाय तथा तवम अपि विक्रम ॥ 10 ॥
करियाभ्युपायैर निहतॊ मया राजन पुरातने तारकश च महादैत्यॊ विप्रचित्तिश च वीर्यवान ॥ 11 ॥
वातापिर इल्वलश चैव तरिशिराश च तथा विभॊ सुन्दॊपसुन्दाव असुरौ करिययैव निषूदितौ ॥ 12 ॥
करियाभ्युपायैर इन्द्रेण तरिदिवं भुज्यते विभॊ करिया बलवती राजन नान्यत किं चिद युधिष्ठिर ॥ 13 ॥
दैत्याश च दानवाश चैव राक्षसाः पार्थिवास तथा करियाभ्युपायैर निहताः करियां तस्मात समाचर ॥ 14 ॥
[स] इत्य उक्तॊ वासुदेवेन पाण्डवः संशितव्रतः जलस्थं तं महाराज तव पुत्रं मला बलम अभ्यभाषत कौन्तेयः परहसन्न इव भारत ॥ 15 ॥
सुयॊधन किमर्थॊ ऽयम आरम्भॊ ऽसपु कृतस तवया सर्वं कषत्रं घातयित्वा सवकुलं च विशां पते ॥ 16 ॥
जलाशयं परविष्टॊ ऽदय वाञ्छञ जीवितम आत्मनः उत्तिष्ठ राजन युध्यस्व सहास्माभिः सुयॊधन ॥ 17 ॥
स च दर्पॊ नरश्रेष्ठ स च मानः कव ते गतः यस तवं संस्तभ्य सलिलं भीतॊ राजन वयवस्थितः ॥ 18 ॥
सर्वे तवां शूर इत्य एव जना जल्पन्ति संसदि वयर्थं तद भवतॊ मन्ये शौर्यं सलिलशायिनः ॥ 19 ॥
उत्तिष्ठ राजन युध्यस्व कषत्रियॊ ऽसि कुलॊद्भवः कौरवेयॊ विशेषेण कुले जन्म च संस्मर ॥ 20 ॥
स कथं कौरवे वंशे परशंसञ जन्म चात्मनः युद्धाद भीतस ततस तॊयं परविश्य परतितिष्ठसि ॥ 21 ॥
अयुद्धम अव्यवस्थानं नैष धर्मः सनातनः अनार्यजुष्टम अस्वर्ग्यं रणे राजन पलायनम ॥ 22 ॥
कथं पारम अगत्वा हि युद्धे तवं वै जिजीविषुः इमान निपतितान दृष्ट्वा पुत्रान भरातॄन पितॄंस तथा ॥ 23 ॥
संबन्धिनॊ वयस्यांश च मातुलान बान्धवांस तथा घातयित्वा कथं तात हरदे तिष्ठसि सांप्रतम ॥ 24 ॥
शूरमानी न शूरस तवं मिथ्या वदसि भारत शूरॊ ऽहम इति दुर्बुद्धे सर्वलॊकस्य शृण्वतः ॥ 25 ॥
न हि शूराः पलायन्ते शत्रून दृष्ट्वा कथं चन बरूहि वा तवं यया धृत्या शूर तयजसि संगरम ॥ 26 ॥
स तवम उत्तिष्ठ युध्यस्व विनीय भयम आत्मनः घातयित्वा सर्वसैन्यं भरातॄंश चैव सुयॊधन ॥ 27 ॥
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया कषत्रधर्मम अपाश्रित्य तवद्विधेन सुयॊधन ॥ 28 ॥
यत तत कर्णम उपाश्रित्य शकुनिं चापि सौबलम अमर्त्य इव संमॊहात तवम आत्मानं न बुद्धवान ॥ 29 ॥
तत पापं सुमहत कृत्व परतियुध्यस्व भारत कथं हि तवद्विधॊ मॊहाद रॊचयेत पलायनम ॥ 30 ॥
कव ते तत पौरुषं यातं कव च मानः सुयॊधन कव च विक्रान्तता याता कव च विस्फूर्जितं महत ॥ 31 ॥
कव ते कृतास्त्रता याता किं च शेषे जलाशये स तवम उत्तिष्ठ युध्यस्व अक्षत्र धर्मेण भारत ॥ 32 ॥
अस्मान वा तवं पराजित्य परशाधि पृथिवीम इमाम अथ वा निहतॊ ऽसमाभिर भूमौ सवप्स्यसि भारत ॥ 33 ॥
एष ते परथमॊ धर्मः सृष्टॊ धात्रा महात्मना तं कुरुष्व यथातथ्यं राजा भव महारथ ॥ 34 ॥
[दुर] नैतच चित्रं महाराज यद भीः पराणिनम आविशत न च पराणभयाद भीतॊ वयपयातॊ ऽसमि भारत ॥ 35 ॥
अरथश चानिषङ्गी च निहतः पार्ष्णिसारथिः एकश चाप्य अगणः संख्ये परत्याश्वासम अरॊचयम ॥ 36 ॥
न पराणहेतॊर न भयान न विषादाद विशां पते इदम अम्भः परविष्टॊ ऽसमि शरमात तव इदम अनुष्ठितम ॥ 37 ॥
तवं चाश्वसिहि कौन्तेय ये चाप्य अनुगतास तव अहम उत्थाय वः सर्वान परतियॊत्स्यामि संयुगे ॥ 38 ॥
[य] आश्वस्ता एव सर्वे सम चिरं तवां मृगयामहे तद इदानीं समुत्तिष्ठ युध्यस्वेह सुयॊधन ॥ 39 ॥
हत्वा वा समरे पार्थान सफीतं राज्यम अवाप्नुहि निहतॊ वा रणे ऽसमाभिर वीरलॊकम अवाप्स्यसि ॥ 40 ॥
[दुर] यदर्थं राज्यम इच्छामि कुरूणां कुरुनन्दन त इमे निहताः सर्वे भरातरॊ मे जनेश्वर ॥ 41 ॥
कषीणरत्नां च पृथिवीं हतक्षत्रिय पुंगवाम नाभ्युत्सहाम्य अहं भॊक्तुं विधवाम इव यॊषितम ॥ 42 ॥
अद्यापि तव अहम आशंसे तवां विजेतुं युधिष्ठिर भङ्क्त्वा पाञ्चाल पाण्डूनाम उत्साहं भरतर्षभ ॥ 43 ॥
न तव इदानीम अहं मन्ये कार्यं युद्धेन कर्हि चित दरॊणे कर्णे च संशान्ते निहते च पितामहे ॥ 44 ॥
अस्त्व इदानीम इयं राजन केवला पृथिवी तव असहायॊ हि कॊ राजा राज्यम इच्छेत परशासितुम ॥ 45 ॥
सुहृदस तादृशान हित्वा पुत्रान भरातॄन पितॄन अपि भवद्भिश च हृते राज्ये कॊ नु जीवेत मादृशः ॥ 46 ॥
अहं वनं गमिष्यामि हय अजिनैः परतिवासितः रतिर हि नास्ति मे राज्ये हतपक्षस्य भारत ॥ 47 ॥
हतबान्धव भूयिष्ठा हताश्वा हतकुञ्जरा एषा ते पृथिवी राजन भुङ्क्ष्वैनां विगतज्वरः ॥ 48 ॥
वनम एव गमिष्यामि वसामॊ मृगचर्मणी न हि मे निर्जितस्यास्ति जीविते ऽदय सपृहा विभॊ ॥ 49 ॥
गच्छ तवं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम हतयॊधां नष्टरत्नां कषीणवप्रां यथासुखम ॥ 50 ॥
[य] आर्तप्रलापान मा तात सलिलस्थः परभाषथाः नैतन मनसि मे राजन वाशितं शकुनेर इव ॥ 51 ॥
यदि चापि समर्थः सयास तवं दानाय सुयॊधन नाहम इच्छेयम अवनिं तवया दत्तां परशासितुम ॥ 52 ॥
अधर्मेण न गृह्णीयां तवया दत्तां महीम इमाम न हि धर्मः समृतॊ राजन कषत्रियस्य परतिग्रहः ॥ 53 ॥
तवया दत्तां न चेच्छेयं पृथिवीम अखिलाम अहम तवां तु युद्धे विनिर्जित्य भॊक्तास्मि वसुधाम इमाम ॥ 54 ॥
अनीश्वरश च पृथिवीं कथं तवं दातुम इच्छसि तवयेयं पृथिवी राजन किं न दत्ता तदैव हि ॥ 55 ॥
धर्मतॊ याचमानानां शमार्थं च कुलस्य नः वार्ष्णेयं परथमं राजन परत्याख्याय महाबलम ॥ 56 ॥
किम इदानीं ददासि तवं कॊ हि ते चित्तविभ्रमः अभियुक्तस तु कॊ राजा दातुम इच्छेद धि मेदिनीम ॥ 57 ॥
न तवम अद्य महीं दातुम ईशः कौरवनन्दन आच्छेत्तुं वा बलाद राजन स कथं दातुम इच्छसि मां तु निर्जित्य संग्रामे पालयेमां वसुंधराम ॥ 58 ॥
सूच्य अग्रेणापि यद भूमेर अपि धरीयेत भारत तन मात्रम अपि नॊ मह्य न ददाति पुरा भवान ॥ 59 ॥
स कथं पृथिवीम एतां परददासि विशां पते सूच्य अग्रं नात्यजः पूर्वं स कथं तयजसि कषितिम ॥ 60 ॥
एवम ऐश्वर्यम आसाद्य परशास्य पृथिवीम इमाम कॊ हि मूढॊ वयवस्येत शत्रॊर दातुं वसुमं धराम ॥ 61 ॥
तवं तु केवलमौर्ख्येण विमूढॊ नावबुध्यसे पृथिवीं दातुकामॊ ऽपि जीवितेनाद्य मॊक्ष्यसे ॥ 62 ॥
अस्मान वा तवं पराजित्य परशाधि पृथिवीम इमाम अथ वा निहतॊ ऽसमाभिर वरज लॊकान अनुत्तमान ॥ 63 ॥
आवयॊर जीवतॊ राजन मयि च तवायि च धरुवम संशयः सर्वभूतानां विजये नॊ भविष्यति ॥ 64 ॥
जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्तते जीवयेयं तव अहं कामं न तु तवं जीवितुं कषमः ॥ 65 ॥
दहने हि कृतॊ यत्नस तवयास्मासु विशेषतः आशीविषैर विषैश चापि जले चापि परवेशनैः तवया विनिकृता राजन राज्यस्य हरणेन च ॥ 66 ॥
एतस्मात कारणात पापजीवितं ते न विद्यते उत्तिष्ठॊत्तिष्ठ युध्यस्व तत ते शरेयॊ भविष्यति ॥ 67 ॥
[स] एवं तु विविधा वाचॊ जय युक्ताः पुनः पुनः कीर्तयन्ति सम ते वीरास तत्र तत्र जनाधिप ॥ 68 ॥
शल्यपर्व · Shalya Parva
अध्याय 30
Reach this point to mark the section finished.
Continue to अध्याय 31