धर्मDharmic Data

शल्यपर्व · Shalya Parva

अध्याय 29

  1. [धृ] हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे मम सैन्यावशिष्टास ते किम अकुर्वत संजय ॥ 1 ॥

  2. कृतवर्मा कृपश चैव दरॊणा पुत्रश च वीर्यवान दुर्यॊधनश च मन्दात्मा राजा किम अकरॊत तदा ॥ 2 ॥

  3. [स] संप्राद्रवत्सु दारेषु कषत्रियाणां महात्मनाम विद्रुते शिबिरे शून्ये भृशॊद्विग्नास तरयॊ रथाः ॥ 3 ॥

  4. निशम्य पाण्डुपुत्राणां तदा विजयिनां सवनम विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः सथानं नारॊचयंस तत्र ततस ते हरदम अभ्ययुः ॥ 4 ॥

  5. युधिष्ठिरॊ ऽपि धर्मात्मा भरातृभिः सहितॊ रणे हृष्टः पर्यपतद राजन दुर्यॊधन वधेप्सया ॥ 5 ॥

  6. मार्गमाणास तु संक्रुद्धास तव पुत्रं जयैषिणः यत्नतॊ ऽनवेषमाणास तु नैवापश्यञ जनाधिपम ॥ 6 ॥

  7. स हि तीव्रेण वेगेन गदापाणिर अपाक्रमत तं हरदं पराविशच चापि विष्टभ्यापः सवमायया ॥ 7 ॥

  8. यदातु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः ततः सवशिबिरं पराप्य वयतिष्ठन साहसैनिकाः ॥ 8 ॥

  9. ततः कृपश च दरौणिश च कृतवर्मा च सात्वतः संनिविष्टेषु पार्थेषु परयातास तं हरदं शनैः ॥ 9 ॥

  10. ते तं हरद समासाद्य यत्र शेते जनाधिपः अभ्यभाषन्त दुर्धर्षं राजानं सुप्तम अम्भसि ॥ 10 ॥

  11. राजन्न उत्थिष्ठ युध्यस्व सहास्माभिर युधिष्ठिरम जित्वा वा पृथिवीं भुङ्क्ष्व हतॊ वा सवर्गम आप्नुहि ॥ 11 ॥

  12. तेषाम अपि बलं सर्वं हतं दुर्यॊधन तवया परतिरब्धाश च भूयिष्ठं ये शिष्टास तत्र सैनिकाः ॥ 12 ॥

  13. न ते वेगं विषहितुं शक्तास तव विशां पते अस्माभिर अभिगुप्तस्य तस्माद उत्तिष्ठ भारत ॥ 13 ॥

  14. [दुर] दिष्ट्या पश्यामि वॊ मुक्तान ईदृशात पुरुषक्षयात पाण्डुकौरव संमर्दाज जीवमानान नरर्षभान ॥ 14 ॥

  15. विजेष्यामॊ वयं सर्वे विश्रान्ता विगतक्लमाः भवन्तश च परिश्रान्ता वयं च भृशविक्षताः उदीर्णं च बलं तेषां तेन युद्धं न रॊचये ॥ 15 ॥

  16. न तव एतद अद्भुतं वीरा यद वॊ महद इदं मनः अस्मासु च परा भक्तिर न तु कालः पराक्रमे ॥ 16 ॥

  17. विश्रम्यैका निशाम अद्य भवद्भिः सहितॊ रणे परतियॊत्स्याम्य अहं शत्रूञ शवॊ न मे ऽसय अत्र सांशयः ॥ 17 ॥

  18. [स] एवम उक्तॊ ऽबरवीद दरौणी राजानं युद्धदुर्मदम उत्तिष्ठ राजन भद्रं ते विजेष्यामॊ रणे परान ॥ 18 ॥

  19. इष्टापूर्तेन दानेन सत्येन च जपेन च शपे राजन यथा हय अद्य निहनिष्यामि सॊमकान ॥ 19 ॥

  20. मा सम यज्ञकृतां परीतिं पराप्नुयां सज जनॊचितम यदीमां रजनीं वयुष्टां न निहन्मि परान रणे ॥ 20 ॥

  21. नाहत्वा सर्वपाञ्चालान विमॊक्ष्ये कवचं विभॊ इति सत्यं बरवीम्य एतत तन मे शृणु जनाधिप ॥ 21 ॥

  22. तेषु संभाषमाणेषु वयाधास तं देशम आययुः मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया ॥ 22 ॥

  23. ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः मांसभारान उपाजह्रुर भक्त्या परमया विभॊ ॥ 23 ॥

  24. ते तत्र विष्ठितास तेषां सर्वं तद वचनं रहः दुर्यॊधन वचश चैव शुश्रुवुः संगता मिथः ॥ 24 ॥

  25. ते ऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे निर्बन्धं परमं चक्रुस तदा वै युद्धकाङ्क्षिणः ॥ 25 ॥

  26. तांस तथा समुदीक्ष्याथ कौरवाणां महारथान अयुद्धमनसं चैव राजानं सथितम अम्भसि ॥ 26 ॥

  27. तेषां शरुत्वा च संवादं राज्ञश च सलिते सतः वयाधाभ्यजानन राजेन्द्र सलिलस्थं सुयॊधनम ॥ 27 ॥

  28. ते पूर्वं पाण्डुपुत्रेण पृष्टा हय आसन सुतं तव यदृच्छॊपगतास तत्र राजानं परिमार्गिताः ॥ 28 ॥

  29. ततस ते पाण्डुपुत्रस्य समृत्वा तद भाषितं तदा अन्यॊन्यम अब्रुवन राजन मृगव्याधाः शनैर इदम ॥ 29 ॥

  30. दुर्यॊधनं खयापयामॊ धनं दास्यति पाण्डवः सुव्यक्तम इति नः खयातॊ हरदे दुर्यॊधनॊ नृपः ॥ 30 ॥

  31. तस्माद गच्छामहे सर्वे यत्र राजा युधिष्ठिरः आख्यातुं सलिले सुप्तं दुर्यॊधनम अमर्षणम ॥ 31 ॥

  32. धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते शयानं सलिले सर्वे कथयामॊ धनुर भृते ॥ 32 ॥

  33. स नॊ दास्यति सुप्रीतॊ धनानि बहुलान्य उत किं नॊ मांसेन शुष्केण परिक्लिष्टेन शॊषिणा ॥ 33 ॥

  34. एवम उक्त्वा ततॊ वयाधाः संप्रहृष्टा धनार्थिनः मांसभारान उपादाय परययुः शिबिरं परति ॥ 34 ॥

  35. पाण्डवाश च महाराज लब्धलक्षाः परहारिणः अपश्यमानाः समरे दुर्यॊधनम अवस्थितम ॥ 35 ॥

  36. निकृतेस तस्य पापस्य ते पारं गमनेप्सवः चारान संप्रेषयाम आसुः समन्तात तद रणाजिरम ॥ 36 ॥

  37. आगम्य तु ततः सर्वे नष्टं दुर्यॊधनं नृपम नयवेदयन्त सहिता धर्मराजस्य सैनिकाः ॥ 37 ॥

  38. तेषां तद वचनं शरुत्वा चाराणां भरतर्षभ चिन्ताम अभ्यगमत तीव्रां निःशश्वास च पार्थिवः ॥ 38 ॥

  39. अथ सथितानां पाण्डूनां दीनानां भरतर्षभ तस्माद देशाद अपक्रम्य तवरिता लुब्धका विभॊ ॥ 39 ॥

  40. आजग्मुः शिबिरं हृष्टा दृष्ट्वादुर्यॊधनं नृपम वार्यमाणाः परविष्टाश च भीमसेनस्य पश्यतः ॥ 40 ॥

  41. ते तु पाण्डवम आसाद्य भीमसेनं महाबलम तस्मै तत सर्वम आचख्युर यद्वृत्तं यच च वै शरुतम ॥ 41 ॥

  42. ततॊ वृकॊदरॊ राजन दत्त्वा तेषां धनं बहु धर्मराजाय तत सार्वम आचचक्षे परंतपः ॥ 42 ॥

  43. असौ दुर्यॊधनॊ राजन विज्ञातॊ मम लुब्धकैः संस्तभ्य सलिलं शेते यस्यार्थे परितप्स्यसे ॥ 43 ॥

  44. तद वचॊ भीमसेनस्या परियं शरुत्वा विशां पते अजातशत्रुः कौन्तेयॊ हृष्टॊ ऽभूत सह सॊदरैः ॥ 44 ॥

  45. तं च शरुत्वा महेष्वासं परविष्टं सलिलह्रदम कषिप्रम एव ततॊ ऽगच्छत पुरस्कृत्य जनार्दनम ॥ 45 ॥

  46. ततः किलकिला शब्दः परादुरासीद विशां पते पाण्डवानां परहृष्टानां पाञ्चालानां च सर्वशः ॥ 46 ॥

  47. सिंहनादांस ततश चक्रुः कष्वेडांश च भरतर्षभ तवरिताः कषत्रिया राजञ जग्मुर दवैपायनं हरदम ॥ 47 ॥

  48. जञातः पापॊ धार्तराष्ट्रॊ दृष्टश चेत्य असकृद रणे पराक्रॊशन सॊमकास तत्र हृष्टरूपाः समन्ततः ॥ 48 ॥

  49. तेषाम आशु परयातानां रथानां तत्र वेगिनाम बभूव तुमुलः शब्दॊ दिवस्पृक पृथिवीपते ॥ 49 ॥

  50. दुर्यॊधनं परीप्सन्तस तत्र तत्र युधिष्ठिरम अन्वयुस तवरितास ते वै राजानं शरान्तवाहनाः ॥ 50 ॥

  51. अर्जुनॊ भीमसेनश च माद्रीपुत्रौ च पाण्डवौ धृष्टद्युम्नश च पाञ्चाल्यः शिखण्डी चापराजितः ॥ 51 ॥

  52. उत्तमौजा युधामन्युः सात्यकिश चापराजितः पाञ्चालानां च ये शिष्टा दरौपदेयाश च भारत हयाश च सर्वे नागाश च शतशश च पदातयः ॥ 52 ॥

  53. तथ पराप्तॊ महाराज धर्मपुत्रॊ युधिष्ठिरः दवैपायन हरदं खयातं यत्र दुर्यॊधनॊ ऽभवत ॥ 53 ॥

  54. शीतामल जलं हृद्यं दवितीयम इव सागरम मायया सलिलं सतभ्य यत्राभूत ते सुतः सथितः ॥ 54 ॥

  55. अभ्यद्भुतेन विधिना दैवयॊगेन भारत सलिलान्तर गतः शेते दुर्दर्शः कस्य चित परभॊ मानुषस्य मनुष्येन्द्र गदाहस्तॊ जनाधिपः ॥ 55 ॥

  56. ततॊ दुर्यॊधनॊ राजा सलितान्तर गतॊ वसन शुश्रुवे तुमुलं शब्दं जलदॊपम निःस्वनम ॥ 56 ॥

  57. युधिष्ठिरस तु राजेन्द्र हरदं तं सह सॊदरैः आजगाम महाराज तव पुत्रवधाय वै ॥ 57 ॥

  58. अंहता शङ्खनादेन रथनेमि सवनेन च उद्धुन्वंश च महारेणुं कम्पयंश चापि मेदिनीम ॥ 58 ॥

  59. यौधिष्ठिरस्य सैन्यस्य शरुत्वा शब्दं महारथाः कृतवर्मा कृपॊ दरौणी राजानम इदम अब्रुवन ॥ 59 ॥

  60. इमे हय आयान्ति संहृष्टाः पाण्डवा जितकाशिनः अपयास्यामहे तावद अनुजानातु नॊ भवान ॥ 60 ॥

  61. दुर्यॊधनस तु तच छरुत्वा तेषां तत्र यशस्विनाम तथेत्य उक्त्वा हरदं तं वै माययास्तम्भयत परभॊ ॥ 61 ॥

  62. ते तव अनुज्ञाप्य राजानं भृशं शॊकपरायणाः जग्मुर दूरं महाराज कृपप्रभृतयॊ रथाः ॥ 62 ॥

  63. ते गत्वा दूरम अध्वानं नयग्रॊधं परेक्ष्य मारिष नयविशन्त भृशं शरान्ताश चिन्तयन्तॊनृपां परति ॥ 63 ॥

  64. विष्टभ्य सलिलं सुप्तॊ धार्तराष्ट्रॊ महाबलः पाण्डवाश चापि संप्राप्तास तं देशं युद्धम ईप्सवः ॥ 64 ॥

  65. कथं नु युद्धं भविता कथं राजा भविष्यति कथं नु पाण्डवा राजन पतिपत्स्यन्ति कौरवम ॥ 65 ॥

  66. इत्य एवं चिन्तयन्तस ते रथेभ्यॊ ऽशवान विमुच्य ह तत्रासां चक्रिरे राजन कृपप्रभृतयॊ रथाः ॥ 66 ॥

Reach this point to mark the section finished.

Continue to अध्याय 30

Previous: अध्याय 28